गुरुवार, 7 अप्रैल 2011

नाट्यशास्त्रम् अध्याय ३७


    .. नाट्यशास्त्रम् अध्याय ३७ ..
    .. श्रीरस्तु ..
    भरतमुनिप्रणीतं नाट्यशास्त्रम्
    अथ सप्तत्रिंशोऽध्यायः .
    कस्यचित्त्वथ कालस्य नहुषो नाम पार्थिवः .
    प्राप्तवान् देवराज्यं हि नयबुद्धिपराक्रमः .. १ ..
    प्रशशास तदा राज्यं देवैर्व्युष्टिमवाप्नुवन् .
    गान्धर्वं चैअ नाट्यं च दृष्ट्वा चिन्तामुपागमत् .. २ ..
    स चिन्तयित्वा मनसा कथमेष गृहे मम .
    नाट्यप्रयोगो हि भवेदिति सादर एव सन् .. ३ ..
    कृताञ्जलिः प्रयोगार्थं प्रोक्तवांस्तु सुरान् नृपः .
    अप्सरोभिरिदं सार्धं नाट्यं भवतु मे गृहे .. ४ ..
    प्रत्युक्तश्च ततो देवैर्बृहस्पतिपुरोगमैः .
    दिव्याङ्गनानां नैवेह मानुषैः सह सङ्गतिः .. ५ ..
    हितं पथ्यं च वक्तव्यो भवान् स्वर्गाधिपो हि यत् .
    आचार्यास्तत्र गच्छन्तु गत्वा कुर्वन्तु ते प्रियम् .. ६ ..
    प्रोक्तवांस्तु ततो मां तु नृपतिः स कृताञ्जलिः .
    इदमिच्छामि भगवन् नाट्यमुर्व्यां प्रतिष्ठितम् .. ७ ..
    पूर्वमाचार्यकं चैव भवताऽभिहितं श्रुतम् .
    व्यक्तभावात्विदं लब्धं त्वत्सकाशाद् द्विजोत्तम .. ८ ..
    पितामहगृहेऽस्माकं तदन्तःपुरे जने .
    पितामहक्रियायुक्त मुर्वश्यां सम्प्रवर्तितम् .. ९ ..
    तस्याः प्रणाशशोकेन उन्मादोपरते नृपे .
    विपन्नेऽन्तःपुरजने पुनर्नाशमुपागतम् .. १० ..
    प्रकाशमेतदिच्छामो भूयस्तत् संप्रयोजितम् .
    तिथियज्ञक्रियास्वेतद् यथा स्यान् मङ्गलैः शुभैः .. ११ ..
    तस्मिन् मम गृहे बद्धं नानाप्रकृतिसंश्रयम् .
    स्त्रीणां ललितविन्यासैर्यतो नः प्रथयिष्यति .. १२ ..
    तथाऽस्त्विति मया प्रोक्तो नहुषः पार्थिवस्तदा .
    सुताश्चाहूय सम्प्रोक्ता सामपूर्वं सुरैः सह .. १३ ..
    अयं हि नहुषो राजा याचते नः कृताञ्जलिः .
    गम्यतां सहितैर्भूमिं प्रयोक्तुं नाट्यमेव च .. १४ ..
    करिष्यमश्च शापान्तमस्मिन् सम्यक् प्रयोजिते .
    ब्राह्मणानां नृपाणां च भविष्यथ न कुत्सिताः .. १५ ..
    तत्र गत्वा प्रयुज्यन्तां प्रयोगान् वसुधातले .
    न शक्यं चान्यथा कर्तुं वचनं पार्थिवस्य हि .. १६ ..
    अस्माकं चैव सर्वेषां नहुषस्य महात्मनः .
    आत्मोपदेशसिद्धं हि नाट्यं प्रोक्तं स्वयंभुवा .. १७ ..
    शेषमुत्तरतन्त्रेण कोहलस्तु करिष्यति .
    प्रयोगः कारिकाश्चैव निरुक्तानि तथैव च .. १८ ..
    अप्सरोभिरिदं सार्धं क्रीडनीयकहेतुकम् .
    अधिष्ठितं मया स्वर्गे स्वातिना नारदेन च .. १९ ..
    ततश्च वसुधां गत्वा नहुषस्य गृहे द्विजाः .
    स्त्रीणां प्रयोगं बहुधा बद्धवन्तो यथाक्रमम् .. २० ..
    अत्रोपभोगतस्ते तु मानुषीषु मामात्मजाः .
    बद्धवन्तोऽधिकस्नेहं तासु तद् द्विजसत्तमाः .. २१ ..
    पुत्रानुत्पाद्य वध्वा च प्रयोगं च यथाक्रमम् .
    ब्रह्मणा समनुज्ञाताः प्राप्ताः स्वर्गं पुनः सुताः .. २२ ..
    एवमुर्वीतले नाट्यं शिष्यैः समवतारितम् .
    भरतानां च वंशोऽयं भविष्यं च प्रवर्तितः .. २३ ..
    कोहलादिभिरेवं तु वत्सशाण्डिल्यधूर्तितैः .
    मत्यधर्मक्रियायुक्तैः कश्चित्कालमवस्थितैः .. २४ ..
    एतच्छात्रं प्रणीतं हि नाराणां बुद्धिवर्धनम् .
    त्रैलोक्यस्य क्रियोपेतं सर्वशास्त्रनिदर्शनम् .
    मङ्गल्यं ललितं चैव ब्रह्मणो वदनोद्भवम् .. २५ ..
    य इदं श्रुणुयान् नित्यं प्रोक्तं चेदं स्वयम्भुवा .
    कुर्यात् प्रयोगं यश्चैवमथवाऽधीतवान् नरः .. २६ ..
    या गतिर्वेदविदुषां या गतिर्यज्ञकारिणाम् .
    या गतिर्दानशीलानां तां गतिं प्राप्नुयाद्धि सः .. २७ ..
    दानधर्मेषु सर्वेषु कीर्त्यते तु महत् फलम् .
    प्रेक्षणीयप्रदानं हि सर्वदानेषु शस्यते .. २८ ..
    न तथा गन्धमाल्येन देवास्तुष्यन्ति पूजिताः .
    यथा नाट्यप्रयोगस्थैर्नित्यं तुष्यन्ति मङ्गलैः .. २९ ..
    गान्धर्वं चेह नाट्यं च यः सम्यक् परिपालयेत् .
    स ईश्वरगणेशानां लभते सद्गतिं पराम् .. ३० ..
    एवं नाट्यप्रयोगे बहुविधिविहितं कर्मशास्त्रं प्रणीतम् .
    नोक्तं यच्चात्र लोकादनुकृतिकरणात् .
    संविभाव्यं तु तज्ज्ञैः ..
    किं चान्यत् सम्प्रपूर्णा भवतु वसुमती नष्टदुर्भिक्षरोगा .
    शान्तिर्गोब्राह्मणानां भवतु नरपतिः पातु पृथ्वीं समग्राम् .. ३१ ..
    इति भरतीये नाट्यशास्त्रे गुह्यतत्त्वकथनाध्यायः सप्तत्रिंशः .. ३७..
    .. नाट्यशास्त्रम् संपूर्णम् ..

    Encoded by Haresh Bakshi hareshbakshi@hotmail.com

कोई टिप्पणी नहीं: