.. नाट्यशास्त्रम् अध्याय ३५ ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ पञ्चत्रिंशोऽध्यायः .
विन्यासं भूमिकानां च सम्प्रवक्ष्यामि नाटके .
यादृशो यस्य कर्तव्यो विन्यासो भूमिकास्वथ .. १ ..
गतिवागङ्गचेष्टाभिः सत्त्वशीलस्वभावतः .
परीक्ष्य पात्रं तज्ज्ञस्तु युञ्ज्याद् भूमिनिवेशने .. २ ..
तस्मिन्नन्विष्य हि गुणवान् कार्या पात्रसमाश्रया .
न खेदजननं बुद्धेराचार्यस्य भविष्यति .. ३ ..
आचार्यः पात्रजांश्चैव गुणाञ्ज्ञात्वा स्वभावजान् .
ततः कुर्याद् यथायोगं नृणां भूमिनिवेशनम् .. ४ ..
अङ्गप्रत्यङ्गसंयुक्तमहीनाङ्गं वयोन्वितम् .
न स्थूलं न कृशं चैव न दीर्घं न च मन्थरम् .. ५ ..
श्लिष्टाङ्गं द्युतिमन्तं च सुस्वरं प्रियदर्शनम् .
एतैर्गुणैश्च संयुक्तं देवभूमिषु योजयेत् .. ६ ..
स्थूलं प्रांशुं बृहद्देहं मेघगम्भीरनिस्वनम् .
रौद्रस्वभावनेत्रं च स्वभावभ्रुकुटीमुखम् .. ७ ..
रक्षोदानवदैत्यानां भूमिकासु प्रयोजयेत् .
पुरुषाणां प्रयोगस्तु तथाङ्गक्रिययान्वितः .. ८ ..
सुनेत्रसुभ्रुवः स्वङ्गाः सुललाटाः सुनासिकाः .
स्वोष्ठाः सुगण्डाः सुमुखाः सुकण्ठाः सुशिरोधराः .. ९ ..
स्वङ्गप्रत्यङ्गसंयुक्ता न दीर्घा न च मन्थराः .
न स्थूला न कृशाश्चैव स्वभावेन व्यवस्थिताः .. १० ..
सुशीला ज्ञानवन्तश्च तथा च प्रियदर्शनाअः .
कुमारराजभूमौ तु संयोज्याश्च नरोत्तमाः .. ११ ..
अङ्गैरविकलैर्धीरं स्फुटं वसनकर्मणि .
न दीर्घं नैव च स्थूलमूहापोहविचक्षणम् .. १२ ..
अदीनं च प्रगल्भं च प्रत्युत्पन्नविनिश्चयम् .
सेनापतेरमात्यानां भूमिकासु प्रयोजयेत् .. १३ ..
पिङ्गाक्षं घोणनासं च नेत्रमुच्चमथापि वा .
कञ्चुकिश्रोत्रियादीनां भूमिकासु नियोजयेत् .. १४ ..
एवमन्येष्वपि तथा नाट्यधर्मविभागतः .
देशवेषानुरूपेण पात्रं योज्यं स्वभूमिषु .. १५ ..
मन्थरं वामनं कुब्जं विकृतं विकृताननम् .
विष्टब्धनेत्रं काणाक्षं स्थूलं चिपिटनासिकम् .. १६ ..
दुर्जनं दुस्वभावं च विकृताचारमेव च .
दासभूमौ प्रयुञ्जीत बुधो दासाङ्गसम्भवम् .. १७ ..
प्रकृत्याऽतिकृशं क्षामं तपःश्रान्तेषु योजयेत् .
तथा च पुरुषं स्थूलमुपरोधेषु योजयेत् .. १८ ..
यदि वा नेदृशाः सन्ति प्रकृत्या पुरुषा द्विजाः .
आचार्यबुद्ध्या योज्यास्तु भावचेष्टास्वभावतः .. १९ ..
या यस्य सदृशी चेष्टा ह्युत्तमाधममध्यमा .
स तथाऽऽचार्ययोगेन नियम्या भावभाविनी .. २० ..
अतः परं प्रवक्ष्यामि भरतानां विकल्पनम् .
भरताश्रयाश्च भरतो विदूषकः सौरिकस्तथा नान्दी .
नन्दी ससूत्रधारो नाट्यरसो नायकश्चैव .. २१ ..
मुकुटाभरणविकल्पौ विज्ञेयो माल्यवस्तुविविधैश्च .
कारककुशीलवाद्या विज्ञेया नामतश्चैव .. २२ ..
धुर्यवदेको यस्मादुद्धारोऽनेकभूमिकायुक्तः .
भाण्डग्रहोपकरणैनाट्यं भरतो भवेत् तस्मात् .. २३ ..
लोकाहृदाश्रयकृता सर्वप्रकृतिप्रचारसंयुक्ता .
नानाश्रयां प्रकुरुते तथा च नारी तु सर्वत्र .. २४ ..
प्रत्युत्पन्नप्रतिभो नर्मकृतो नर्मगर्भनिर्भेदः .
छेदविदूषितवचनो विदूषको नाम विज्ञेयः .. २५ ..
तूर्यतिस्तु नरः सर्वातोद्यप्रवादने कुशलः .
तूरपरिग्रहयुक्तो विज्ञेयस्तौरिको नाम .. २६ ..
नटनृति धात्वर्थोऽयं भूतं नाटयति लोकवृत्तान्तम् .
रसभावसत्वयुक्तं यस्मात् तस्मान्नटो भवति .. २७ ..
स्तुत्यभिवादनकृतैर्मधुरैर्वाक्यैः सुमङ्गलाचारैः .
सर्व स्तौति हि लोकं यस्मात् तस्माद्भवेद्वादी .. २८ ..
भावेभ्यो बहुधाऽस्मिन् रसा वदति नाट्ययोगेषु .
प्राकृतसंस्कृतपाठ्यो नन्दी नामेति स ज्ञेयः .. २९ ..
गीतस्य च वाद्यस्य च पाठ्यस्य च नैकभावविहितस्य .
शिष्टोपदेशयोगात् सूत्रज्ञः सूत्रधारस्तु .. ३० ..
यस्मात् यथोपदिष्टान् रसांश्च भावांश्च
सत्वसंयुक्तान् .
भूमिविकल्पैर्नयति च नाट्यकरः कीर्तितस्तस्मात् .. ३१ ..
चतुरातोद्यविधानं सर्वस्य तु शास्त्रखे दविहितस्य .
नाट्यस्यान्तं गच्छति तस्माद्वै नायकोऽभिहितः .. ३२ ..
नानाप्रकृतिसमुत्थं करोति यः शीर्षकं मुकुटयोगे .
विविधैर्वेषविशेषैः स च कुटकारस्तु विज्ञेयः .. ३३ ..
भाण्डकवाद्यज्ञा या लयतालज्ञा रसानुविद्धा च .
सर्वाङ्गसुन्दरी वै कर्तव्या नाटकीया तु .. ३४ ..
यस्त्वाभरणं कुर्याद् बहुविधविहितं स चाभरणः .
यश्चोपकरणयोगात् स तेन नाम्नाऽभिधातव्यः .. ३५ ..
यो वै माल्यं कुरुते पङ्चविधं माल्याकृत् स विज्ञेयः .
यश्चापि वेषयोगं कुरुते स च वेषकारी तु .. ३६ ..
चित्रज्ञश्चित्रकरो वस्त्रस्य रञ्जानात्तथा रजकः .
जत्वश्मलोहकाष्ठैर्द्रव्यकरैः कारुकश्चैव .. ३७ ..
नानातोद्यविधाने प्रयोगयुक्तः प्रवादने कुशलः .
अतोद्येऽप्यतिकुशलो यस्मात् स कुशलवो ज्ञेयः .. ३८ ..
यद्यत् समाश्रयन्ते शिल्पं वा कर्म वा प्रयोगं वा .
तनैवोपगतगुणा विज्ञेया नामतः पुरुषाः .. ३९ ..
एवं तु नाटकविधौ जातिर्नटसंश्रया बुधैर्ज्ञेया .
नाट्योपकरणयुक्ता नानाशिल्पप्रसक्ता च .. ४० ..
उक्तोऽत्र भूमिकान्यासः प्रयोक्तारश्च योगतः .
आदिष्टं नाट्यशास्त्रं च मुनयः किमिहोच्यताम् ..४१ ..
इति भरतीये नाट्यशास्त्रे भूमिकाविकल्पाध्यायः पञ्चत्रिंशः .. ३५ ..
Encoded by Haresh Bakshi hareshbakshi@hotmail.com
यह ब्लॉग नाटक और रंगमंच को समर्पित है...कोशिश यही रहेगी ज्यादा से ज्यादा रंगमंच संदर्भित जानकारी संप्रेषित कि जा सकें...
गुरुवार, 7 अप्रैल 2011
नाट्यशास्त्रम् अध्याय 35
सदस्यता लें
टिप्पणियाँ भेजें (Atom)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें