.. नाट्यशास्त्रम् अध्याय २६ ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्
षड्विंशोऽध्यायः
अनुरूपा विरूपा च तथा रूपानुरूपिणी .
त्रिप्रकारेह पात्राणां प्रकृतिश्च विभाविता .. १..
नानावस्थाक्रियोपेता भूमिका प्रकृतिस्तथा .
भृशमुद्योतयेन्नाट्यं स्वभावकरणाश्रयम् .. २..
बहुबाहूबहुमुखास्तथा च विकृताननाः .
पशुश्वापदवक्त्राश्च खरोष्ट्राश्च गजाननाः .. ३..
एते चान्ये च बहवो नानारूपा भवन्ति ये .
आचार्येण तु ते कार्या मृत्काष्ठजतुचर्मभिः .. ४..
स्वाभाविकेन रूपेन प्रविशेद्रङ्गमण्डलम् .
आत्मरूपमवच्छाद्य वर्णकैर्भूषणैरपि .. ५..
यादृशं यस्य यद्रूपं प्रकृत्या तत्र तादृशम् ..
वयोवेषानुरूपेण प्रयोज्यं नाट्यकर्मणि .. ६..
यथा जीवत्स्वभावं हि परित्यज्यान्यदेहिकम् .
परभावं प्रकुरुते परभावं समाश्रितः .. ७..
एवं बुधः परंभावं सोऽस्मीति मनसा स्मरन् .
येषां वागङ्गलीलाभिश्चेष्टाभिस्तु समाचरेत् .. ८..
सुकुमारप्रयोगो यो राज्ञामामोदसंभवः .
शृङ्गाररसमासाद्य तन्नारीषु प्रयोजयेत् .. ९..
युद्धोद्धताविद्धकृता संरंभारभटाश्च ये .
न ते स्त्रीभिः प्रयोक्तव्याः योक्तव्याः पुरुषेषु ते .. १०..
अनुद्भटमसंभ्रान्तमनाविद्धाङ्गचेष्टितम् .
लयतालकलापातप्रमाणनियताक्षरम् .. ११..
सुविभक्तपदालापमनिष्ठुरमकाहलम् .
ईदृशं यद्भवेन्नाट्यं नारीभिश्च प्रयोजयेत् .. १२..
एवं कार्यं प्रयोगज्ञैर्भूमिकाविनिवेशनम् .
स्त्रियो हि स्त्रीगतो भावः पौरुषः पुरुषस्यच .. १३..
यथा वयो यथावस्थमनुरूपेति सा स्मृता .
पुरुषः स्त्रीकृतं भावं रूपात्प्रकुरुते तु यः .. १४..
रूपानुरूपा सा ज्ञेया प्रयोगे प्रकृतिर्बुधः .
छन्दतः पौरुषीं भूमिं स्त्री कुर्यादनुरूपतः .. १५..
न परस्परचेष्टासु कार्यौ स्थविरबालिशौ .
पाठ्यप्रयोगे पुरुषाः प्रयोक्तव्या हि संस्कृते .. १६..
स्त्रीणां स्वभावमधुराः कण्ठाः पुंसां तु बलवन्तः .
यद्यपि पुरुषो विद्यात् गीतविधानं च लक्षणोपेतम् .. १७..
माधुर्यगुणविहीनं शोभां जनयेन्न तद्गीतम् .
यत्र स्त्रीणां पाठ्याद्गुणैर्नराणां च कण्ठमाधुर्यम् .. १८..
प्रकृतिविपर्ययजनितौ विज्ञेयौ तावलङ्कारौ .
प्रायेण देवपार्थिवसेनापतिमुख्यपुरुषभवनेषु .. १९..
स्त्रीजनकृताः प्रयोगा भवन्ति पुरुषस्वभावेन .
रम्भोर्वशीप्रभृतिषु स्वर्गे नाट्यं प्रतिष्ठितम् .. २०..
तथैव मानुषे लोके राज्ञामन्तःपुरेष्विह .
उपदेष्टव्यमाचार्यैः प्रयत्नेनाङ्गनाजने .. २१..
न स्वयं भूमिकाभ्यासो बुधैः कार्यस्तु नाटके .
स्त्रीषु योज्यः प्रयत्नेन प्रयोगः पुरुषाश्रयः .. २२..
यस्मात्स्वभावोपगतो विलासः स्त्रीषु विद्यते .
तस्मात्स्वभावमधुरमङ्गं सुलभसौष्ठवम् .. २३..
ललितं सौष्ठवं यच्च सोऽलङ्कारः परो मतः .
प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः .. २४..
सुकुमारस्तथाविद्धो नानाभावरसाश्रयः .
नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च .. २५..
ज्ञेयानि सुकुमाराणि मानुषैराश्रितानि तु .
सुकुमारप्रयोगोऽयं राज्ञामामोदकारकः .. २६..
शृङ्गारसमासाद्य स्त्रीणां तत्तु प्रयोजयेत् .
युद्धोद्धताविद्धकृतासंरंभारभटाश्च ये .. २७..
न ते स्त्रीणां प्रकर्तव्याः कर्तव्याः पुरुषैर्हि ते .
यथाविद्धाङ्गहारं तु भेद्यभेद्याहवात्मकम् .. २८..
मायेन्द्रजालबहुलं पुस्तनैपथ्यदीपितम् .
पुरुषप्रायसंचारमल्पस्त्रीकमथोद्धतम् .. २९..
सात्वत्यारभटीइयुक्तं नाट्यमाविद्धसंज्ञितम् .
डिमः समवकारश्च व्यायोगेहामृगौ तथा .. ३०..
एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः .
एषां प्रयोगः कर्तव्यो देवदानवराक्षसैः .. ३१..
उद्धता ये च पुरुषाः शौर्यवीर्यसमन्विताः .
योग्यः स च प्रयत्नः कर्तव्यः सततप्रमादेन .. ३२..
न हि योग्यया विना भवति च भावरससौष्ठवं किंचित् .
संगीतपरिक्लेशो नित्यं प्रमदाजनस्य गुण एव .. ३३..
यन्मधुरकर्कशत्वं लभते नाट्यप्रयोगेण .
प्रमदाः नाट्यविलासैर्लभते यत् कुसुमैर्विचित्रलावण्यम् .
कामोपचारकुशला भवन्ति च काम्या विशेषेण ..३४..
गीतं वृत्तं तथा वाद्यं प्रस्तारगमनक्रिया .
शिष्यनिष्पादनं चैव षडाचार्यगुणाः स्मृताः .. ३५..
एतानि पञ्च यो वेत्ति स आचार्यः प्रकीर्तितः .
ऊहापोहौ मतिश्चैव स्मृतिर्मेधा तथैव च .. ३६..
मेधास्मृतिर्गुणश्लाघारागः संघर्ष एव च .
उत्साहश्च षडेवैतान् शिष्यस्यापि गुणान् विदुः .. ३७..
एवं कार्यं प्रयोगज्ञैर्नानाभूमिविकल्पनम् .
अत ऊर्ध्वं प्रवक्ष्यामि सिद्धीनामपि लक्षणम् .. ३८..
इति भारतीये नाट्यशास्त्रे विकृतिविकल्पो
नाम षड्विंशोऽध्यायः ..
Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com
यह ब्लॉग नाटक और रंगमंच को समर्पित है...कोशिश यही रहेगी ज्यादा से ज्यादा रंगमंच संदर्भित जानकारी संप्रेषित कि जा सकें...
गुरुवार, 7 अप्रैल 2011
नाट्यशास्त्रम् अध्याय २६
सदस्यता लें
टिप्पणियाँ भेजें (Atom)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें