गुरुवार, 7 अप्रैल 2011

नाट्यशास्त्रम् अध्याय २५


    .. नाट्यशास्त्रम् अध्याय २५ ..
    .. श्रीरस्तु ..
    भरतमुनिप्रणीतं नाट्यशास्त्रम्
    पञ्चविंशोऽध्यायः .
    अङ्गाभिनयस्यैव यो विशेषः क्वचित् क्वचित् .
    अनुक्त उच्यते चित्रः चित्राभिनयस्स्मृतः .. १..
    उत्तानौ तु करौ कृत्वा स्वस्तिकौ पार्श्वसंस्थितौ .
    उद्वाहितेन शिरसा तथा चोर्ध्वनिरीक्षणात् .. २..
    प्रभातं गगनं रात्रिः प्रदोषं दिवसं तथा .
    ऋतून् घनान् वनान्तांश्च विस्तीर्णांश्च जलाशयान् .. ३..
    दिशो ग्रहान् सनक्षत्रान् किञ्चित् स्वस्थं च यद्भवेत् .
    तस्य त्वभिनयः कार्यो नानादृष्टिसमन्वितः .. ४..
    एभिरेव करैर्भूयस्तेनैव शिरसा पुनः .
    अधो निरीक्षणेनाथ भूमिस्थान् संप्रदर्शयेत् .. ५..
    स्पर्शस्य ग्रहणेनैव तथोल्लुकसनेन च .
    चन्द्रज्योस्त्नां सुखं वायुं रसं गन्धं च निर्दिशेत् .. ६..
    वस्त्रावकुण्ठनात्सूर्यं रजोधूमानिलांस्तथा .
    भूमितापमथोष्णं च कुर्याच्छायाभिलाषतः .. ७..
    ऊर्ध्वाकेकरदृष्टिस्तु मध्याह्ने सूर्यमादिशेत् .
    उदयास्तगतं चैव विस्मयार्थैः प्रदर्शयेत् ..८..
    यानि सौम्यार्थयुक्तानि सुस्वभावकृतानि च .
    गात्रस्पर्शैस्सरोमाञ्चैस्तेषामभिनयो भवेत् .. ९..
    यानि स्युस्तीक्ष्णरूपाणि तानि चाभिनयेत्सुधीः .
    असंस्पर्शैस्तथोद्वेगैस्तथा मुखविकुण्ठनैः .. १०..
    गम्भीरोदातसंयुक्तानर्थानभिनयेद्बुधः .
    साटोपैश्च सगर्वैश्च गात्रैः सौष्ठवसंयुतैः .. ११..
    यज्ञोपवीतदेशस्थमरालं हासमादिशेत् .
    स्वस्तिकौ विच्युतौ हारस्रग्दामार्थान् निदर्शयेत् .. १२..
    भ्रमणेन प्रदर्शिन्या दृष्टेः परिगमेन च .
    अलपद्मकपीडायाः सर्वार्थग्रहणं भवेत् .. १३..
    श्रव्यं श्रवणयोगेन दृश्यं दृष्टिविलोकनैः .
    आत्मस्थं परसंस्थं वा मध्यस्थं वा विनिर्दिशेत् .. १४..
    विद्युदुल्काघनरवाविष्फुलिंगार्चिषस्तथा .
    त्रस्तांगाक्षिनिमेषैश्च तेऽभिनेयाः प्रयोक्तृभिः .. १५..
    उद्वेष्टितकरावृत्तौ करौ कृत्वा नतं शिरः .
    असंस्पर्शे तथानिष्टे जिह्मदृष्टेन कारयेत् .. १६..
    वायुमुष्णं तमस्तेजो मुखप्रच्छादनेन च .
    रेणुतोयपतंगांश्च भ्रमरांश्च निवारयेत् .. १७..
    कृत्वा स्वस्तिकसंस्थानौ पद्मकोशावधोमुखौ .
    सिअंहर्क्षवानरव्याघ्रश्वापदांश्च निरूपयेत् ..१८..
    स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने .
    खटकस्वस्थिकौ चापि प्रतोदग्रहणे स्मृतौ .. १९..
    एकं द्वि त्रीणि चत्वारि पञ्च षट् सप्त चाष्टधा .
    नव वा दश वापि स्युर्गणनांगुलिभिर्भवेत् .. २०..
    दशाख्याश्च शताख्याश्च सहस्राख्यास्तथैव च .
    पताकाभ्यां तु हस्ताभ्यां प्रयोज्यास्ताः प्रयोक्तृभिः .. २१..
    दशाख्यगणनायास्तु परतो या भवेदिह .
    वाक्यार्थेनैव साध्यासौ परोक्षाभिनयेन च .. २२..
    छत्रध्वजपताकाश्च निर्देश्या दण्डधारणात् .
    नानाप्रहरणं चाथ निर्देश्यं धारणाश्रयम् .. २३..
    एकचित्तो ह्यधोदृष्टिः किञ्चिन्नतशिरास्तथा .
    सव्यहस्तश्च संदंशः स्मृते ध्याने वितर्किते .. २४..
    उद्वाहितं शिरः कृत्वा हंसपक्षौ प्रदक्षिणौ .
    अपत्यरूपणे कार्यावुछ्रयौ च प्रयोक्तृभिः .. २५..
    उद्वाहितं शिरः कृत्वा हंसवक्त्रं तथोर्ध्वगम् .
    प्रसादयच्च यं मानं दीर्घसत्वं च निर्दिशेत् .. २६..
    अरालं च शिरस्थाने समुद्वाह्य तु वामकम् .
    गते निर्वृत्ते ध्वस्ते च श्रान्तवाक्ये च योजयेत् .. २७..
    सर्वेन्द्रियस्वस्थतया प्रसन्नवदनस्तथा .
    विचित्रभूतलालोकैः शरदन्तु विनिर्दिशेत् .. २८..
    गात्रसंकोचनाच्चापि सूर्याग्निपटुसेवनात् .
    हेमन्तस्त्वभिनेतव्यः पुरुषैर्मध्यमाधमैः .. २९..
    शिरोदन्तोष्ठकम्पेन गात्रसंकोचनेन च .
    कूजितैश्च सशीत्कारैरधमश्शीतमादिशेत् .. ३०..
    अवस्थान्तरमासाद्य कदाचित्तूत्तमरैरपि .
    शीताभिनयनं कूर्याद्देवाद्व्यसनसंभवम् .. ३१..
    ऋतुजानां तु पुष्पाणां गन्धघ्राणैस्तथैव च .
    रूक्षस्य वायोः स्पर्शाच्च शिशिरं रूपयेद्बुधः .. ३२..
    प्रमोदजननारंभैरुपभोगैः पृथग्विधिः .
    वसन्तस्त्वभिनेतव्यो नानापुष्पप्रदर्शनात् .. ३३..
    स्वेद प्रमार्जनैश्चैव भूमितापैः सवीजनैः .
    उष्णस्य वायोः स्पर्शेन ग्रीष्मं त्वभिनयेद्बुधः .. ३४..
    कदम्बनीपकुटपैः शाद्वलैः सेन्द्रगोपकैः .
    मेघवातैः सुखस्पर्शैः प्रावृट्कालं प्रदर्शयेत् .. ३५..
    मेघौघनादैर्गम्भीरैर्धाराप्रपतनैस्तदा .
    विद्युन्निर्घातघोषैश्च वर्षारात्रं समादिशेत् .. ३६..
    यद्यस्य चिह्नं वेषो वा कर्म वा रूपमेव वा .
    निर्देश्यः स ऋतुस्तेन इष्टानिष्टार्थदर्शनात् .. ३७..
    एतानृतूनर्थवशाद्दर्शयेद्धि रसानुगान् .
    सुखिनस्तु सुखोपेतान् सुःखार्थान् दुःखसंयुतान् .. ३८..
    यो येन भावेनाविष्टः सुखदेनेतरेअन वा .
    स तदाहितसंकारः सर्वं पश्यति तन्मयम् .. ३९..
    भावाभिनयनं कुर्याद्विभावानां निदर्शनैः .
    तथैव चानुभावानां भावसिद्धिः प्रवर्तिता .. ४०..
    विभावेनाहृतं कार्यमनुभावेन नीयते .
    आत्मानुभवनं भावो विभावः परदर्शनम् .. ४१..
    गुरुर्मित्रं सखा स्निग्धः संबन्धी बन्धुरेव वा .
    आवेद्यते हि यः प्राप्तः स विभाव इति स्मृतः .. ४२..
    यत्त्वस्य संभ्रमोत्थानैरर्घ्यपाद्यासनादिभिः .
    पूजनं क्रियते भक्त्या सोऽनुभावः प्रकीर्तितः .. ४३..
    एवमन्येष्वपि ज्ञेयो नानाकार्यप्रदर्शनात् .
    विभावो वापि भावो वा विज्ञेयोऽर्थवशाद्बुधैः .. ४४..
    यस्त्वपि प्रतिसंदेशो दूतस्येह प्रदीयते .
    सोऽनुभाव इति ज्ञेयः प्रतिसन्देशदर्शितः .. ४५..
    एवं भावो विभावो वाप्यनुभावश्च कीर्तितः .
    पुरुषैरभिनेयः स्यात्प्रमदाभिरथापि वा .. ४६..
    स्वभावाभिनये स्थानं पुंसां कार्यं तु वैष्णवम् .
    आयतं वावहित्थं वा स्त्रीणां कार्यं स्वभावतः .. ४७..
    प्रयोजनवशाच्चैव शेषाण्यपि भवन्ति हि .
    नानाभवाभिनयनैः प्रयोगैश्च पृथग्विधैः .. ४८..
    धैर्यलीलाङ्गसंपन्नं पुरुषाणां विचेष्टितम् .
    मृदुलीलाङ्गहारैश्च स्त्रीणां कार्यं तु चेष्टितम् .. ४९..
    करपादाङ्गसञ्चारास्स्त्रीणां तु ललिताः स्मृताः .
    सुधीरश्चोद्धतश्चैव पुरुषाणां प्रयोक्तृभिः .. ५०..
    यथा रसं यथा भावं स्त्रीणां भावप्रदर्शनम् .
    नराणां प्रमदानां च भावाभिनयनं पृथक् .. ५१..
    भावानुभावनं युक्तं व्याख्यास्याम्यनुपूर्वशः .
    आलिङ्गनेन गात्राणां सस्मितेन च चक्षुषा .. ५२..
    तथोल्लुकसानच्चापि हर्षं संदर्शयेन्नरः .
    क्षिप्रस! न्जातरोमाञ्चात् बाष्पेणावृतलोचना .. ५३..
    कुर्वीत नर्तकी हर्षं प्रीत्या वाक्यैश्च सस्मितैः .
    उद्वृत्तरक्तनेत्रश्च सन्दष्टाधर एव च .. ५४..
    निश्वासकंपितांगश्च क्रोधं चाभिनयेन्नरः .
    नेत्राभ्यां बाष्पपूर्णाभ्यां चिबुकौष्ठप्रकंपनात् .. ५५..
    शिरसः कंपनाच्चैव भ्रुकुटीकरणेन च .
    मौनेनाङ्गुलिभङ्गेन माल्याभरणवर्जनात् .. ५६..
    आयतकस्थानकक्षाया ईर्ष्या क्रोधे भवेत्स्त्रियाः .
    निश्वासोच्छ्वासबहुलैरधोमुखविचिन्तनैः .. ५७..
    आकाशवचनाच्चापि दुःखं पुंसां तु योजयेत् .
    रुदितैः श्वसितैश्चैव शिरोभिहननेन च .. ५८..
    भूमिपाताभिघातैश्च दुःखं स्त्रीषु प्रयोजयेत् .
    आनन्दजं चार्तिजं वा ईर्ष्यासंभूतमेव वा .. ५९ ..
    यत्पूर्वमुक्तं रुदितं तत्स्त्रीनीचेषु योजयेत् .
    संभ्रमावेगचेष्टाभिश्शस्त्रसंपातनेन च .. ६० ..
    पुरुषाणां भयं कार्यं धैर्यावेगबलादिभिः .
    चलतारकनेत्रत्वाद्गात्रैः स्फुरितकम्पितैः .. ६१..
    सन्त्रस्तहृदयत्वाच्च पार्श्वाभ्यामवलोकनैः .
    भर्तृरन्वेषणाच्चैवमुच्चैराक्रन्दनादपि .. ६२..
    प्रियस्यालिंगनाच्चैव भयं कार्यं भवेत्स्त्रियाः .
    मदा येऽभिहिताः पूर्वं ते स्त्रीनीचेषु योजयेत् .. ६३..
    मृदुभिः स्खलितैर्नित्यमाकाशस्यावलंबनात् .
    नेत्रावघूर्णनैश्चैव सालस्यैः कथितैस्तथा .. ६४..
    गात्राणां कंपनैश्चैव मदः कार्यो भवेत्स्त्रियाः .
    अनेन विधिना कार्यः प्रयोगाः कारणोत्थिताः .. ६५..
    पौरुषः स्त्रीकृतो वापि भावा ह्यभिनयं प्रति .
    सर्वे सललिता भावास्स्त्रीभिः कार्याः प्रयत्नतः .. ६६..
    धैर्यमाधुर्यसंपन्ना भावाः कार्यास्तु पौरुषाः .
    त्रिपताकाङ्गुलीभ्यां तु वलिताभ्यां प्रयोजयेत् .. ६७..
    शुकाश्च सारिकाश्चैव सूक्ष्मा ये चापि पक्षिणः .
    शिखिसारसहंसाद्याः स्थूला येऽपि स्वभावतः .. ६८..
    रेचकैरङ्गहारैश्च तेषामभिनयो भवेत् .
    खरोष्ट्राश्वतरासिंहव्याघ्रगोमहिषादय .. ६९..
    गतिप्रचरैरङ्गैश्च तेऽभिनेयाः प्रयोक्तृभिः .
    भूताः पिशाचा यक्षाश्च दानवाः सहराक्षसैः .. ७०..
    अङ्गहारैरविनिर्देश्या नामसंकीर्तनादपि .
    अङ्गहारैर्विनिर्देश्या अप्रत्यक्षा भवन्ति ये .. ७१..
    प्रत्यक्षास्त्वभिनेतव्या भयोद्वेगैः सविस्मयैः .
    देवाश्च चिह्नैश्च प्रणामकरणैर्भावैश्च विचेष्टितैः .. ७२..
    अभिनेयो ह्यर्थवशादप्रत्यक्षाः प्रयोगज्ञैः .
    सव्योत्थितेन हस्तेन ह्यरालेन शिरः स्पृशेत् .. ७३..
    नरेऽह्यभिवादनं ह्येतदप्रत्यक्षे विधीयते .
    खटकावर्धमानेन कपोताख्येन वा पुनः .. ७४..
    दैवतानि गुरूंश्चैव प्रमदाश्चाभिवादयेत् .
    दिवौकसश्च ये पूज्याः प्रत्यक्षाश्च भवन्ति ये .. ७५..
    तान् प्रमाणैः प्रभावैश्च गंभीरार्थैश्च योजयेत् .
    महाजनं सखीवर्गं विटधूर्तजनं तथा .. ७६..
    परिमण्डलसंस्थेन हस्तेनाभिनयेनन्नरः .
    पर्वतान् प्रांशुयोगेन वृक्षांश्चैव समुच्छ्रितान् .. ७७..
    प्रसारिताभ्यां बाहुभ्यामुत्क्षिप्ताभ्यां प्रयोजयेत् .
    समूहसागरं सेना बहुविस्तीर्णमेव च .. ७८..
    पताकाभ्यां तु हस्ताभ्यामुत्क्षिप्ताभ्यां प्रदर्शयेत् .
    शौर्यं धैर्यं च गर्वं च दर्पमौदार्यमुच्छ्रयम् .. ७९..
    ललाटदेशस्थानेन त्वरालेनाभिदर्शयेत् .
    वक्षोदेशादपाविद्धौ करौ तु मृगशीर्षकौ .. ८०..
    विस्तीर्णप्रद्रुतोत्क्षेपौ योज्यौ यस्यादपावृतम् .
    अधोमुखोत्तानतलौ हस्तौ किञ्चित्प्रसारितौ .. ८१..
    कृत्वा त्वभिनयेद्वेलां बिलद्वारं गृहं गुहान् .
    कामं शापग्रहग्रस्तान् ज्वरोपहतचेतसः .. ८२..
    एतेषां चेष्टितं कुर्यादङ्गाद्यैः सदृशैर्बुधैः .
    दोलाभिनयनं कुर्याद्दोलायास्तु विलोकनैः .. ८३..
    संभोक्षेण च गात्राणां रज्वश्वाग्रहणेन च .
    यदा चाङ्गवती डोला प्रत्यक्षा पुस्तजा भवेत् .. ८४..
    आसनेषु प्रविष्टानां कर्तव्यं तत्र डोलनम् .
    आकाशवचनानीह वक्ष्याम्यात्मगतानि च .. ८५..
    अपवारितकं चैव जनान्तिकमथापि च .
    दूरस्थाभाषणं यत्स्यादशरीरनिवेदनम् .. ८६..
    परोक्षान्तरितं वाक्यमाकाशवचनं तु तत् .
    तत्रोत्तरकृतैर्वाक्यैः संलापं संप्रयोजयेत् .. ८७..
    नानाकारणसंयुक्तैः काव्यभावसमुत्थितैः .
    हृदयस्य वचो यत्तू तदात्मगतमीष्यते .. ८८..
    सवितर्कं च तद्योज्यं प्रायशो नाटकादिषु .
    निगूढभावसंयुक्तमपवारितकं स्मृतम् .. ८९..
    कार्यवशादश्रवणं पार्श्वगतैर्यज्जनान्तिकं तत्स्यात् .
    हृदयस्थं सविकल्पं भावस्थं चात्मगतमेव .. ९०..
    इति गूढार्थयुक्तानि वचनानीह नाटके .
    जनान्तिकानि कर्णे तु तानि योज्यानि योक्तृभिः .. ९१..
    पूर्ववृत्तं तु यत्कार्यं भूयः कथ्यं तु कारणात् .
    कर्णप्रदेशे तद्वाच्यं मागात्तत्पुनरुक्तताम् ..८२..
    अव्यभिचारेण पठेदाकाशजनान्तिकात्मगतपाठ्यम् .
    प्रत्यक्षपरोक्षकृतानामात्मसमुत्थान् परकृतांश्च .. ९३..
    हस्तमन्तरितं कृत्वा त्रिपताकं प्रयोक्तृभिः .
    जनान्तिकं प्रयोक्तव्यमपवारितकं तथा .. ९४..
    स्वप्नायितवाक्यार्थैस्त्वभिनेयो न खलु हस्तसंचारैः .
    सुप्ताभिहितैरेव तु वाक्यार्थैः सोऽभिनेयः स्यात् .. ९५..
    मन्दस्वरसञ्चारैर्व्यक्ताव्यक्तं पुनरुक्तवचनार्थम् .
    पूर्वानुस्मरणकृतं कार्यं स्वप्नाञ्चिते पाठ्यम् .. ९६..
    प्रशिथिलगुरुकरुणाक्षरघण्टानुस्वरितवाक्यगद्गदजैः .
    हिक्काश्वसोपेतां काकुं कुर्यान्मरणकाले .. ९७..
    हिक्काश्वासोपेतां मूर्च्छोपगमे मरणवत्कथयेत् .
    अतिमत्तेष्वपि कार्यं तद्वत्स्वप्नायिते यथा पाठ्यम् .. ९८..
    वृद्धानां योजयेत्पाठ्यं गद्गदस्खलिताक्षरम् .
    असमाप्ताक्षरं चैव बालानां तु कलस्वनम् .. ९९..
    नानाभावोपगतं मरणाभिनये बहुकीर्तितं तु .
    विक्षिप्तहस्तपादैर्निभृतैः सन्नैस्तथा कार्यम् .. १००..
    व्याधिप्लुते च मरणं निषण्णगात्रैस्तु संप्रयोक्तव्यम् .
    हिक्काश्वासोपेतं तथा पराधीनगात्रसंचारम् .. १०१..
    विषपीतेऽपि च मरणं कार्यं विक्षिप्तगात्रकरचरणम् .
    विषवेगसंप्रयुक्तं विस्फुरितांगक्रियोपेतम् .. १०२..
    प्रथेमे वेगे कार्श्यं त्वभिनेये वेपथुर्द्वितीये तु .
    दाहस्तथा तृतीये विलल्लिका स्याच्चतुर्थे तु .. १०३..
    फेनस्तु पञ्चमस्थे तु ग्रीवा षष्ठे तु भज्यते .
    जडता सप्तमे तु स्यान्मरणं त्वष्टमे भवेत् .. १०४..
    तत्र प्रथमवेगे तु क्षामवक्रकपोलता .
    कृशत्वेऽभिनयः कार्यो वाक्यानामल्पभाषणम् .. १०५..
    सर्वाङ्गवेपथुं च कण्डूयनं तथाङ्गानाम् .
    विक्षिप्तहस्तगात्रं दाहं चैवाप्यभिनयेत्तु .. १०६..
    उद्वृत्तनिमेषत्वादुद्गारच्छर्दनैस्तथाक्षेपैः .
    अव्यक्ताक्षरकथनैः विलल्लिकामभिनयेदेवम् .. १०७..
    उद्गारवमनयोगैः शिरसश्च विलोलनैरनेकविधैः .
    फेनस्त्वभिनेतव्यो निःसंज्ञतया निमेषैश्च .. १०८..
    अंसकपोलस्पर्शः शिरसोऽथ विनामनं शिरोऽपाङ्गः .
    सर्वेन्द्रिअयसंमोहाज्जडतामेवं त्वभिनयेत्तु .. १०९..
    संमीलितनेत्रत्वात् व्याधिविवृद्धौ भुजङ्गदशनाद्वा .
    एवं हि नाट्यधर्मे मरणानि बुधैः प्रयोज्यानि .. ११०..
    संभ्रमेष्वथ रोषेषु शोकावेशकृतेषु च .
    यानि वाक्यानि युज्यन्ते पुनरुक्तं न तेष्विह .. १११..
    साध्वहो मां च हेहेति किं त्वं मामावदेति च .
    एवंविधानि कार्याणि द्वित्रिसंख्यानि कारयेत् .. ११२..
    प्रत्यङ्गहीनं यत्काव्यं विकृतं च प्रयुज्यते .
    न लक्षणकृतस्तत्र कार्यस्त्वभिनयो बुधैः .. ११३..
    भावो यत्रोत्तमानां तु न तं मध्येषु योजयेत् .
    यो भावश्चैव मध्यानां न ते नीचेषु योजयेत् .. ११४..
    पृथक् पृथग्भावरसैरात्मचेष्टासमुत्थितैः .
    ज्येष्ठमध्यमनीचेषु नाट्यं रागं हि गच्छति .. ११५..
    एतेऽभिनयविशेषाः कर्तव्याः सत्त्वभावसंयुक्ताः .
    अन्ये तु लौकिका ये तु ते सर्वे लोकवत्कार्याः .. ११६..
    नानाविधैर्यथा पुष्पैर्मालां ग्रथ्नाति माल्यकृत् .
    अंगोपांगै रसैर्भावैस्तथा नाट्यं प्रयोजयेत् .. ११७..
    या यस्य लीला नियता गतिश्च
    रङ्गप्रविष्टस्य निधानयुक्तः .
    तामेव कुर्यादविमुक्तसत्त्वो
    यावन्नरङ्गात्प्रतिनिर्वृतः स्यात् .. ११८..
    एवमेते मया प्रोक्ता नाट्ये चाभिनयाः क्रमात् .
    अन्ये तु लौकिका ये ते लोकाद्ग्राह्याः सदा बुधैः .. ११९..
    लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् .
    वेदाध्यात्मपदार्थेषु प्रायो नाट्यं प्रतिष्ठितम् .. १२०..
    वेदाध्यात्मोपपन्नं तु शब्दच्छन्दस्समन्वितम् .
    लोकसिद्धं भवेत्सिद्धं नाट्यं लोकात्मकं तथा .. १२१..
    न च शक्यं हि लोकस्य स्थावरस्य चरस्य च .
    शास्त्रेण निर्णयं कर्तुं भावचेष्टाविधिं प्रति .. १२२..
    नानाशीलाः प्रकृतयः शीले नाट्यं प्रतिष्ठिअतम् .
    तस्माल्लोकप्रमाणं हि विज्ञेयं नाट्ययोक्तृभिः .. १२३..
    एतान् विधींश्चाभिनयस्य सम्यग्विज्ञाय
    रङ्गे मनुजः प्रयुङ्क्ते .
    स नाट्यतत्त्वाभिनयप्रयोक्ता
    संमानमग्र्यं लभते हि लोके .. १२४..
    एवमेते ह्यभिनया वाङ्नेपथ्याङ्गसंभवाः
    प्रयोगज्ञेन कर्तव्या नाटके सिद्धिमिच्छता .. १२५..

    इति भारतीये नाट्यशास्त्रे चित्राभिनयो नाम
    पञ्चविंशोऽध्यायः ..

    Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com

कोई टिप्पणी नहीं: