.. नाट्यशास्त्रम् अध्याय ३० ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्
त्रिंशोऽध्यायः
अतोद्यं सुषिरं नाम ज्ञेयं वंशगतं बुधैः .
वैण एव विधिस्तत्र स्वरग्रामसमाश्रयः .. १ ..
द्विकत्रिकचतुष्कास्तु ज्ञेया वंशगताः स्वराः .
कम्प्यमानार्थमुक्ताश्च व्यक्तमुक्तास्तथैव च .. २ ..
तत्रोपरि यथा ह्येकः स्वरो वैणस्वरान्तरे .
प्राप्नोत्यन्यत्वमेवेह तथा वंशगतोऽपि हि .. ३ ..
द्विकस्त्रिकश्चतुष्को वा श्रुतिसङ्ख्यो भवेत् स्वरः .
अनीरणात्तु शेषाणां स्वराणामपि सम्भवः .
अङ्गुलीवादनकृतं तच्च मे सन्निबोधत .. ४ ..
व्यक्तमुक्ताङ्गुलिस्तत्र स्वरो ज्ञेयश्चतुःश्रुतिः .
कम्प्यमानाङ्गुलिश्चैव त्रिश्रुतिः परिकीर्तितः .
द्विकोऽर्धाङ्गुलिमुक्तः स्यादिति श्रुत्याश्रिताः स्वराः .. ५ ..
एते स्युर्मध्यमग्रामे भूयः षड्जाश्रिताः पुनः .
व्यक्तमुक्ताङ्गुलिकृताः षड्जमध्यमपञ्चमाः .. ६ ..
ऋषभो धैवतश्चापि कम्प्यमानाङ्गुलीकृतौ .
अर्धमुक्ताङ्गुलिश्चैव गान्धारोऽथ निषादवान् .. ७ ..
स्वरसाधारणश्चापि काकल्यन्तरसंज्ञया .
निषादगान्धारकृतौ षड्जमध्यमयोरपि .. ८ ..
विपर्यया सन्निकर्षे श्रुतिलक्षणसिद्धितः .
वैणकण्ठप्रवेशेन सिद्धा एकाश्रिताः स्वराः .. ९ ..
यं यं गाता स्वरं गच्छेत् तं तं वंशेन वादयेत् .
शारीरवैणवंश्यानामेकीभावः प्रशस्यते .. १० ..
अविचलितमविच्छिन्नं वर्णालङ्कारसंयुतं विधिवत् .
ललितं मधुरं स्निग्धं वेणोरेवं स्मृतं वाद्यम् .. ११ ..
एवमेतत् स्वरगतं विज्ञेयंगानयोक्तृभिः .
अतः परं प्रवक्ष्यामि धनातोद्यविकल्पनम् .. १२ ..
इति भरतीये नाट्यशास्त्रे सुषिरातोद्यलक्षणं
नामाध्यायस्त्रिंशः ..
Encoded by Haresh Bakshi hareshbakshi@hotmail.com
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें