गुरुवार, 7 अप्रैल 2011

नाट्यशास्त्रम् अध्याय ३३


    .. नाट्यशास्त्रम् अध्याय ३३ ..
    .. श्रीरस्तु ..
    भरतमुनिप्रणीतं नाट्यशास्त्रम्
    अथ त्रयस्त्रिंशोऽध्यायः .
    गुणात् प्रवर्तते गानं दोषं चैव निरस्यते .
    तस्माद्यत्नेन विज्ञेयौ गुणदोषौ समासतः .. १ ..
    गाता प्रत्यग्रवयाः स्निग्धो मधुरस्वरोपचितकण्ठः .
    लयतालकलापातप्रमाणयोगेषु तत्त्वज्ञः .. २ ..
    रूपगुणकान्तियुक्ता माधुर्योपेतसत्वसम्पन्नाः .
    पेशलमधुरस्निग्धानुनादिसमरक्त गुरु (शुभ)कण्ठाः .. ३
    सुविहितगमकविधायिन्योऽक्षोभ्यो(भ्यास्)ताललयकुशलाः .
    आतोद्यार्पितकरणा विज्ञेया गायिकाः श्यामाः .. ४ ..
    प्रायेण तु स्वभावात् स्त्रीणां गानं नृणां च पाठ्यविधिः .
    स्त्रीणां स्वभावमधुरः कण्ठो नृणां बलित्वं च .. ५ ..
    यत्र स्त्रीणां पाठ्यात्(ठ्यं)गुणैर्नराणां च गानमधुरत्वम् .
    ज्ञेयोऽलङ्कारोऽसौ न हि स्वभावो ह्ययं तेषाम् .. ६ ..
    सुनिविष्टपाणिलययतियोगज्ञौसुमधुरलघुहस्तौ .
    गातृगुणैश्चोपेताववहितमनसौ सुसङ्गीतौ .. ७ ..
    स्फुटरचितचित्रकरणौ गीतश्रवणाचलौप्रवीणौ च .
    चित्रादिवाद्यकुशलौवीणाभ्यां वादकौ भवतः .. ८ ..
    बलवानवहितबुद्धिर्गीतलयज्ञस्तथासुसङ्गीतः .
    श्रावकमधुरस्निग्धो दृढपाणिर्वंशवादको ज्ञेयः .. ९ ..
    अविचलितमविच्छन्नं वर्णालङ्कारबोधकंमधुरम् .
    स्निग्धं दोषविहीनं वेणोरेवं स्मृतं वाद्यम् .. १० ..
    ज्ञानविज्ञानकरणवचनप्रयोगसिद्धिनिष्पादनानि
    षडाचार्यगुणा इति .
    तत्र ज्ञानं शास्त्रावबोधः . यथा च
    क्रियासम्पादनं विज्ञानम् . कण्ठहस्तगौण्यं करणम् .
    जितग्रन्थता वचनम् . देशादिसम्पदाराधनं प्रयोगसिद्धिः .
    शिष्यस्वभावमविशेष्योपात्तय
    उपदेशाच्छिष्यनिष्पादनमिति .. ११ ..
    श्रावणोऽथ घनः स्निग्धो मधुरोह्यवधानवान् .
    त्रिस्थानशोभीत्येवं तु षट् कण्ठस्य गुणा मताः .. १२ ..
    उदात्तं श्रूयते यस्मात्तस्माच्छ्रावण उच्यते .
    श्रावणः सुस्वरो यस्मादच्छिन्नः स घनो मतः .. १३ ..
    अरूक्षध्वनिसंयुक्तः स्निग्धस्तज्ज्ञैः प्रकीर्तितः .
    मनःप्रह्लादनकरः स वै मधुर उच्यते .. १४ ..
    स्वरेऽधिके च हीने च ह्यविरक्तो विधानवान् .
    शिरःकण्ठेष्वभिहितंत्रिस्थानमधुरस्वरः .
    त्रिस्थानशोभीत्येवं तु स हि तज्ज्ञैरुदाहृतः .. १५ ..
    कपिलो ह्यवस्थितश्चैव तथा सन्दष्ट एव च .
    काकी च तुम्बकी चैव पञ्च दोषा भवन्ति हि .. १६ ..
    वैस्वर्यं च भवेद्यत्र तथा स्याद् घर्घरायितम् .
    कपिलः स तु विज्ञेयः श्लेष्मकण्ठस्तथैव च .. १७ ..
    ऊनताऽधिकता चापि स्वराणां यत्र दृश्यते .
    रूक्षदोषहतश्चैव ज्ञेयः स त्वव्यवस्थितः .. १८ ..
    दण्डप्रयोगात् सन्दष्टस्त्वाचार्यैः परिकीर्तितः .
    यो न विस्तरति स्थाने स्वरमुच्चारणागतम् .. १९ ..
    नासाग्रग्रस्तशब्दस्तुतुम्बकी सोऽभिधीयते .. २० ..
    अन्ये तु
    समप्रहरणे चैव जविनौ विशदौ तथा .
    जितश्रमौ विकृष्टौ च मधुरौ स्वेदवर्जितौ .
    तथा बृयन्नखौ चैव ज्ञेयौ हस्तस्य वै गुणाः .. २१ .. इति
    एते गुणाश्च दोषाश्च तत्त्वतः कथितो मया .
    अत ऊर्ध्वं प्रवक्ष्यामि ह्यवनद्धविधिं पुनः .. २२ ..
    पूर्वं यदुक्तं प्रपितामहेन .
    कुर्यात् य एवं तु नरः प्रयोगे
    सम्मानमग्रयं लभते स लोके .. २३ ..
    इति भरतीये नाट्यशास्त्रे गुणदोषविचारो
    नामाध्यायस्त्रयस्त्रिंशः .. ३३ ..

    Encoded by Haresh Bakshi hareshbakshi@hotmail.com


कोई टिप्पणी नहीं: