.. नाट्यशास्त्रम् अध्याय १९ ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ एकोनविंशोऽध्यायः .
इतिवृत्तं तु नाट्यस्य शरीरं परिकीर्तितम् .
पञ्चभिः सन्धिभिस्तस्य विभागः सम्प्रकल्पितः .. १..
इतिवृत्तं द्विधा चैव बुधस्तु परिकल्पयेत् .
आधिकरिकमेकं स्यात् प्रासङ्गिकमथापरम् .. २..
यत्कार्यं हि फलप्राप्त्या सामर्थ्यात्परिकल्प्यते .
तदाधिकारिकं ज्ञेयमन्यत्प्रासङ्गिकं विदुः .. ३..
कारणात्फलयोग्यस्य वृत्तं स्यादाधिकारिकम् .
तस्योपकरणार्थं तु कीर्त्यते ह्यानुषङ्गिकम् .. ४..
कवेः प्रयत्नान्नेतॄणां युक्तानां विद्ध्युपाश्रयात् .
कल्प्यते हि फलप्राप्तिः समुत्कर्षात्फलस्य च .. ५..
(लौकिकी सुखदुःखाख्या यथावस्था रसोद्भवा .
दशधा मन्मथावस्था व्यवस्थास्त्रिविधा मता ..)६..
संसारे फलयागे तु व्यापारः कारणस्य यः .
तस्यानुपूर्व्या विज्ञेया पञ्चावस्था प्रयोक्तृभिः .. ७..
प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च संभवः .
नियता च फलप्राप्तिः फलयोगश्च पञ्चमः .. ८..
औत्सुक्यमात्रबन्धस्तु यद्बीजस्य निबध्यते .
महतः फलयोगस्य स फलारम्भ इष्यते .. ९..
अपश्यतः फलप्राप्तिं व्यापारो यः फलं प्रति .
परं चौत्सुक्यगमनं स प्रयत्नः प्रकीर्तितः .. १०..
ईषत्प्राप्तिर्यदा काचित्फलस्य परिकल्पते .
भावमात्रेण तु प्राहुर्विधिज्ञाः प्राप्तिसम्भवम् .. ११..
नियतां तु फलप्राप्तिं यदा भावेन पश्यति .
नियतां तां फलप्राप्तिं सगुणां परिचक्षते .. १२..
अभिप्रेतं समग्रं च प्रतिरूपं क्रियाफलम् .
इतिवृत्ते भवेद्यस्मिन् फलयोगः प्रकीर्तितः .. १३..
सर्वस्यैव हि कार्यस्य प्रारब्धस्य फलार्थिभिः .
एतास्त्वनुक्रमेणैव पञ्चावस्था भवन्ति हि .. १४..
आसां स्वभावभिन्नानां परस्परसमागमात् .
विन्यास एकभावेन फलहेतुः प्रकीर्तितः .. १५..
इतिवृत्तं समाख्यातं प्रत्यगेवाधिकारिकम् .
तदारम्भादि कर्तव्यं फलान्तं च यथा भवेत् .. १६..
पूर्णसन्धि च कर्तव्यं हीनसन्ध्यपि वा पुनः .
नियमात् पूर्णसन्धि स्याद्धीनसन्ध्यथ काअरणात् .. १७..
एकलोपे चतुर्थस्य द्विलोपे त्रिचतुर्थयोः .
द्वितीयत्रिचतुर्थानां त्रिलोपे लोप इष्यते .. १८..
प्रासङ्गिके परार्थत्वान्न ह्येष नियमो भवेत् .
यद्वृत्तं सम्भवेत्तत्र तद्योज्यमविरोधतः .. १९..
इतिवृत्ते यथावस्थाः पञ्चारम्भादिकाः स्मृताः .
अर्थप्रकृतयः पञ्च तथा बीजादिका अपि .. २०..
बीजं बिन्दुः पताका च प्रकरी कार्यमेव च .
अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि .. २१..
स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति .
फलावसानं यच्चैव बीजं तत्परिकीर्तितम् .. २२..
प्रयोजनानां विच्छेदे यदविच्छेदकारणम् .
यावत्समाप्तिर्बन्धस्य स बिन्दुः परिकीर्तितः .. २३..
यद्वृत्तं तु परार्थं स्यात् प्रधानस्योपकारकम्
प्रधानवच्च कल्प्येत सा पताकेति कीर्तिता .. २४..
फलं प्रकल्प्यते यस्याः परार्थायैव केवलम् .
अनुबन्धविहीनत्वात् प्रकरीति विनिर्दिशेत् .. २५.
यदाधिकारिकं वस्तु सम्यक् प्राज्ञैः प्रयुज्यते .
तदर्थो यः समारम्भस्तत्कार्यं परिकीर्तितम् .. २६..
एतेषां यस्य येनार्थो यतश्च गुण इष्यते .
तत् प्रधानं तु कर्तव्यं गुणभूतान्यतः परम् .. २७..
एकोऽनेकोऽपि वा सन्धिः पताकायां तु यो भवेत् .
प्रधानार्थानुयायित्वादनुसन्धिः प्रकीर्त्यते .. २८..
आगर्भादाविमर्शाद्वा पताका विनिवर्तते .
कस्माद्यस्मान्निबन्धोऽस्याः परार्थः परिकीर्त्यते .. २९..
यत्रार्थे चिन्तितेऽन्यस्मिन्स्तल्लिन्ङ्गोऽन्यः प्रयुज्यते .
आगन्तुकेन भावेन पताकास्थानकं तु तत् .. ३०.
सहसैवार्थसम्पत्तिर्गुणवत्युपकारतः .
पताकास्थानकमिदं प्रथमं परिकीर्तितम् .. ३१..
वचः सातिशयं क्लिष्टं काव्यबन्धसमाश्रयम् .
पताकास्थानकमिदं द्वितीअयं परिकीर्तितम् .. ३२..
अर्थोपक्षेपणं यत्र लीनं सविनयं भवेत् .
श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते .. ३३..
द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः .
उपन्याससुयुक्तश्च तच्चतुर्थमुदाहृतम् .. ३४..
[यत्र सातिशयं वाक्यमर्थोपक्षेपणं भवेत् .
विनाशिदृष्टमन्ते च पताकार्धं तु तद्भवेत् ].. ३५..
चतुष्पताकापरमं नाटके कार्ययिष्यते .
पञ्चभिः सन्धिभिर्युक्तं तांश्च वक्ष्याम्यतः परम् ..३६..
मुखं प्रतिमुखं चैव गर्भो विमर्श एव च .
तथा निर्वहणं चेति नाटके पञ्च सन्धयः .. ३७..
[पञ्चभिः सन्धिभिर्युक्तं प्रधानमनु कीर्त्यते .
शेषाः प्रधानसन्धीनामनुग्राह्यनुसन्धयः ].. ३८..
यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा .
काव्ये शरीरानुगता तन्मुखं परिकीर्तितम् .. ३९..
बीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित् .
मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् .. ४०..
उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा .
पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः .. ४१..
गर्भनिर्भिन्नबीजार्थो विलोभनकृतोऽथवा .
क्रोधव्यसनजो वापि स विमर्श इति स्मृतः .. ४२..
समानयनमर्थानां मुखाद्यानां सबीजिनाम् .
नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् .. ४३..
एते तु सन्धयो ज्ञेया नाटकस्य प्रयोक्तृभिः .
तथा प्रकरणास्यापि शेषाणां च निबोधत .. ४४..
डिमः समवकारश्च चतुःसन्धी प्रकीर्तितौ .
न तयोरवमर्शस्तु कर्तव्यः कविभिः सदा .. ४५..
व्यायोगेहामृगौ चापि सदा कार्यौ त्रिसन्धिकौ .
गर्भावमर्शौ न स्यातां तयोर्वृत्तिश्च कैशिकी .. ४६..
द्विसन्धि तु प्रहसनं वीथ्यङ्को भाण एव च .
मुखनिर्वहने तत्र कर्तव्ये कविभिः सदा .. ४७..
[वीथी चैव हि भाणश्च तथा प्रहसनं पुनः .
कैशिकीवृत्तिहीनानि कार्याणि कविभिः सदा ].. ४८..
एवं हि सन्धयः कार्या दशरूपे प्रयोक्तृभिः .
पुनरेषां तु सन्धीनामङ्गकल्पं निबोधदत .. ४९..
सन्धिनां यानि वृत्तानि प्रदेशेष्वनुपूर्वशः .
स्वसम्पद्गुणयुक्तानि तान्यङ्गान्युपधारयेत् ..५०..
इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः .
रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् .. ५१..
आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाअशनम् .
अङ्गानां षड्विधं ह्येतद् दॄष्टं शास्त्रे प्रयोजनम् ..५२..
अङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत् .
अङ्गहीनं तथा काव्यं न प्रयोगक्षमं भवेत् .. ५३..
उदात्तमपि तत्काव्यं स्यादङ्गैः परिवर्जितम् .
हीनत्वाद्धि प्रयोगस्य न सतां रञ्जयेन्मनः .. ५४..
काव्यं यदपि हीनार्थं सम्यदङ्गैः समन्वितम् .
दीप्तत्वात्तु प्रयोगस्य शोभामेति न संशयः .. ५५..
[तस्मात् सन्धिप्रदेशेषु यथायोगं यथारसम् .
कविनाङ्गानि कार्याणि सम्यक्तानि निबोधत].. ५६..
उपक्षेपः परिकरः परिन्यासो विलोभनम् .
युक्तिः प्राप्तिः समाधानं विधानं परिभावना .. ५७..
उद्भेदः करणं भेद एतान्यङ्गानि वै मुखे .
तथा प्रतिमुखे चैव शृणुताङ्गानि नामतः .. ५८..
विलासः परिसर्पश्च विधूतं_ तापनं तथा .
नर्म नर्मद्युतिश्चैव तथा प्रगयणं पुनः .. ५९..
निरोधश्चैव विज्ञेयः पर्युपासनमेव च .
पुष्पं वज्रमुपन्यासो वर्णसंहार एव च .. ६०..
एतानि वै प्रतिमुखे गर्भेऽङ्गानि निबोधत .
अभूताहरणं मार्गो रूपोदाहरणे क्रमः .. ६१..
संग्रहश्चानुमानं च प्रार्थनाक्षिप्तमेव च .
तोटकाधिबले चैव ह्युद्वेगो विद्रवस्तथा ..६२..
एतान्यङ्गानि वै गर्भे ह्यवमर्शे निबोधत .
अपवादश्च संफेटो विद्रवः शक्तिरेव च .. ६३..
व्यवसायः प्रसङ्गश्च द्युतिः खेदो निषेधनम् ..
विरोधनमथादानं छादनं च प्ररोचना .. ६४..
व्यवहारश्च युक्तिश्च विमर्शाङ्गान्यमूनि च .
सन्धिर्निरोधो ग्रथनं निर्णयः परिभाषणम् .. ६५..
द्युतिः प्रसाद आनन्दः समयो ह्युपगूहनम् .
भाषणं पूर्ववाक्यं च काव्यसंहार एव च .. ६६..
प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः .
चतुष्षष्ठि बुधैर्ज्ञेयान्येतान्यङ्गानि सन्धिषु .. ६७..
[सम्पादनार्थं बीजस्य सम्यक्सिद्धिकराणि च .
कार्याण्येतानि कविभिर्विभज्यार्थानि नाटके ].. ६८..
पुनरेषां प्रवक्ष्यामि लक्षणानि यथाक्रमम् .
काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः .. ६९..
यदुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरस्तु सः .
तन्निष्पत्तिः परिन्यासो विज्ञेयः कविभिः सदा .. ७०..
गुणनिर्वर्णनं चैव विलोभनमिति स्मृतम् .
सम्प्रधारणमर्थानां युक्तिरित्यभिधीयते .. ७१..
सुखार्थस्याभिगमनं प्राप्तिरित्यभिसंज्ञिता .
बीजार्थस्योपगमनं समाधानमिति स्मृतम् .. ७२..
सुखदुःखकृतो योऽर्थस्तद्विधानमिति स्मृतम् .
कुतूहलोत्तरावेगो विज्ञेया परिभावना .. ७३..
बीजार्थस्य प्ररोहो यः स उद्भेद इति स्मृतः .
प्रकृतार्थसमारम्भः करणं नाम तद्भवेत् .. ७४..
संघातभेदनार्थो यः स भेद इति कीर्तितः .
[एतानि तु मुखाङ्गानि वक्ष्ये प्रतिमुखे पुनः].. ७५..
समीहा रतिभोगार्था विलास इति संज्ञितः .
दृष्टनष्टानुसरणं परिसर्प इति स्मृतः .. ७६..
कृतस्यानुनयस्यादौ विधूतं ह्यपरिग्रहः .
अपायदर्शनं यत्तु तापनं नाम तद्भवेएत् .. ७७..
क्रीडार्थं विहितं यत्तु हास्यं नर्मेति तत्स्मृतम्
दोषप्रच्छादनार्थं तु हास्यं नर्मद्युतिः स्मृता .. ७८..
उत्तरोत्तरवाक्यं तु भवेत्प्रगयणं पुनः .
या तु व्यसनसंप्राप्तिः स निरोधः प्रकीर्तितः .. ७९..
क्रुद्धस्यनुनयो यस्तु भवेत्तत्पर्युपासनम् .
विशेषवचनं यत्तु तत्पुष्पमिति संज्ञितम् .. ८०..
प्रत्यक्षरूक्षं यद्वाक्यं वज्रं तदभिधीयते .
उपपत्तिकृतो योऽर्थ उपन्यासश्च स स्मृतः .. ८१..
चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते .
कपटापाश्रयं वाक्यमभूताहरणं विदुः .. ८२..
तत्त्वार्थवचनं चैव मार्ग इत्यभिधीयते .
चित्रार्थसमवाये तु वितर्को रूपमिष्यते .
यत्सातिशयवद्वाक्यं तदुदाहरणं स्मृतम् .. ८३..
भावतत्त्वोपलब्धिस्तु क्रम इत्यभिधीयते .
सामदानादिसंपन्नः संग्रहः परिकीर्तितः .. ८४..
रूपानुरूपगमनमनुमानमिति स्मृतम् .
रतिहर्षोत्सवानां तु प्रार्थना प्रार्थना भवेत् .
गर्भस्योद्भेदनं यत्साक्षिप्तिरित्यभिधीयते .. ८६..
संरम्भवचनं चैव तोटकं त्विति संज्ञितम् .
कपटेनातिसंधानं ब्रुवतेऽधिबलं बुधाः .. ८७..
भयं नृपारिदस्यूत्थमुद्वेगः परिकीर्तितः .
शङ्का भयत्रासकृतो विद्रयः समुदाहृतः .. ८८..
दोषप्रख्यापनं यत्तु सोऽपवाद इति स्मृतः .
रोषग्रथितवाक्यं तु संफेटः परिकीर्तितः .. ८९..
गुरुव्यतिक्रमो यस्तु स द्रवः परिकीर्तितः .
विरोधिप्रशमो यश्च स शक्तिः परिकीर्तिता ..९०..
व्यवसायश्च विज्ञेयः प्रतिज्ञाहेतुसंभवः .
प्रसङ्गश्चैव विज्ञेयो गुरूणा परिकीर्तनम् .. ९१..
वाक्यमाधर्षसंयुक्तं द्युतिस्तज्ज्ञैरुदाहृता .
मनश्चेष्टाविनिष्पन्नः श्रमः खेद उदाहृतः .. ९२..
ईप्सितार्थप्रतीघातः प्रतिषेधः प्रकीर्तितः .
कार्यात्ययोपगमनं विरोधनमिति स्मृतम् .. ९३..
बीजकार्योपगमनमातानमिति संज्ञितम् .
अपमानकृतं वाक्यं कार्यार्थं च्छादनं भवेत् .. ९४..
प्ररोचना स विज्ञेया संहारार्थप्रदर्शिनी .
[प्रत्यक्षवचनं यत्तु स व्याहार इति स्मृतः .. ९५..
सविच्छेदं वचो यत्र सा युक्तिरिति संज्ञिता .
ज्ञेया विचलना तज्ज्ञैरवमानार्थसंयुत].. ९६..
[एतान्यवमृशेऽङ्गानि संहारे तु निबोधत].
मुखबीजोपगमनं सन्धिरित्यभिधीयते .. ९७..
कार्यस्यान्वेषणं युक्त्या निरोध इति कीर्तितः .
उपक्षेपस्तु कार्याणां ग्रथनं परिकीर्तितम् .. ९८..
अनुभूतार्थकथनं निर्णयः समुदाहृतः .
परिवादकृतं यस्यात्तदाहुः परिभाषणम् .. ९९..
लब्धस्यार्थस्य शमनं द्युतिमाचक्षते पुनः .
समागमस्तथार्थानामानन्दः परिकीर्तितः .. १००..
दुःखस्यापगमो यस्तु समयः स निगद्यते .
शुश्रूषाद्युपसंपन्नः प्रसादः प्रीतिरुच्यते .. १०१..
अद्भुतस्य तु संप्राप्तिरूपगूहनमिष्यते .
सामदानादि संपन्नं भाषणं समुदाहृतम् ..१०२..
पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थप्रदर्शनम् .
वरप्रदानसंप्राप्तिः काव्यसंहार इष्यते .. १०३..
नृपदेशप्रशान्तिश्च प्रशस्तिरभिधीयते .
यथासन्धि तु कर्तव्यान्येतान्यङ्गानि नाटके .. १०४..
कविभिः काव्यकुशलै रसभावमपेक्ष्य तु .
संमिश्राणि कदाचित्तु द्वित्रियोगेन वा पुनः .. १०५..
ज्ञात्वा कार्यमवस्थां च कार्याण्यङ्गानि सन्धिषु .
एतेषामेव चाङ्गानां संबद्धान्यर्थयुक्तितः .. १०६..
सन्ध्यन्तराणि सन्धीनां विशेषास्त्वेकविंशतिः .
सामभेदस्तथा दण्डः प्रदानं वध एव च .. १०७..
प्रत्युत्पन्नमतित्वं च गोत्रस्खलितमेव च .
साहसं च भयं चैव ह्रीर्माया क्रोध एव च .. १०८..
ओजः संवरणं भ्रान्तिस्तथा हेत्वपधारणम् .
दूतो लेखस्तथा स्वप्नश्चित्रं मद इति स्मृतम् .. १०९..
[विष्कम्भचूलिका चैव तथ चैव प्रवेशकः .
अङ्कावतारोऽङ्कमुखमर्थोपक्षेपपञ्चकम् ..११०..
मध्यमपुरुषनियोज्यो नाटकमुखसन्धिमात्रसंचारः .
विष्कम्भकस्तु कार्यः पुरोहितामात्यकञ्चुकिभिः .. १११..
शुद्धः संकीर्णो वा द्विविधो विष्कंभकस्तु विज्ञेयः .
मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यकृतः .. ११२..
अन्तर्यवनिकासंस्थैः सूतादिभिरनेकधा .
अर्थोपक्षेपणं यत्तु क्रियते सा हि चूलिका .. ११३..
अङ्कान्तरानुसाअरी संक्षेपार्थमधिकृत्य बिन्दूनाम् .
प्रकरणनाटकविषये प्रवेशको नाम विज्ञेयः .. ११४..
अङ्कान्त एव चाङ्को निपतति यस्मिन् प्रयोगमासाद्य .
बीजार्थयुक्तियुक्तो ज्ञेयो ह्यङ्कावतारोऽसौ .. ११५..
विष्लिष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा .
यदुपक्षिप्यते पूर्वं तदङ्कमुखमुच्यते ].. ११६..
अन्यान्यपि लास्यविधावङ्गानि तु नाटकोपयोगीनि .
अस्माद्विनिःसृतानि तु भाण इवैअकप्रयोज्यानि .. ११७..
[भाणाकृतिवल्लास्यं विज्ञेयं त्वेकपात्रहार्यं वा .
प्रकरणवदूह्य कार्यासंस्तवयुक्तं विविधभावम्].. ११८..
गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका .
प्रच्छेदकं त्रिमूढं च सैन्धवाख्यं द्विमूढकम् .. ११९..
उत्तमोत्तमकं चैवमुक्तप्रत्युक्तमेव च .
लास्ये दशविधं ह्येतदङ्गनिर्देशलक्षणम् .. १२०..
आसनेषूपविष्टैर्यत्तन्त्रीभाण्डोपबृंहितम् .
गायनेऐर्गीयते शुष्कं तद्गेयपदमुच्यते .. १२१..
[या नृत्यत्यासना नारी गेयं प्रियगुणान्वितम् .
साङ्गोपाङ्गविधानेन तद्गेयपदमुच्यते ].. १२२..
प्राकृतं यद्वियुक्ता तु पठेदात्तरसं स्थिता .
मदनानलतप्ताङ्गी स्थितपाठ्यं तदुच्यते .. १२३..
[बहुचारीसमायुक्तं पञ्चपाणिकलानुगम् .
चञ्चत्पुटेन वा युक्तं स्थितपाठ्यं विधीयते ].. १२४..
आसीनमास्यते यत्र सर्वातोद्यविवर्जितम् .
अप्रसारितगात्रं च चिन्ताशोकसमन्वितम् .. १२५..
नृत्तानि विविधानि स्युर्गेयं गाने च संश्रितन् .
चेष्टाभिश्चाश्रयः पुंसा यत्र सा पुष्पगण्डिका .. १२६..
[यत्र स्त्री नरवेषेण ललितं संस्कृतं पठेत् .
सखीनां तु विनोदाय सा ज्ञेया पुष्पगण्डिका .. १२७..
नृत्तं तु विविधं यत्र गीतं चातोद्यसंयुतम् .
स्त्रियः पुंवच्च चेष्टन्ते सा ज्ञेया पुष्पगण्डिका].. १२८..
प्रच्छेदकः स विज्ञेयो यत्र चन्द्रातपाहताः .
स्त्रियः प्रियेषु सज्जन्ते ह्यपि विप्रियकारिषु .. १२९..
अनिष्ठुरश्लक्ष्णपदं समवृत्तैरलङ्कृतम् .
नाट्यं पुरुषभावाढ्यं त्रिमूढकमिति स्मृतम् .. १३०..
पात्रं विभ्रष्टसंकेतं सुव्यक्तकरणान्वितम् .
प्राकृतैर्वचनैर्युक्तं विदुः सैन्धवकं बुधाः .. १३१..
[रूपवाद्यादिसंयुक्तं पाठ्येन च विवर्जितम् .
नाट्यं हि तत्तु विज्ञेयं सैन्धवं नाट्यकोविदैः].. १३२..
मुखप्रतिमुखोपेतं चतुरश्रपदक्रमम् .
श्लिष्टभावरसोपेतं वैचित्र्यार्थ.म् द्विमूढके .. १३३..
उत्तमोत्तमकं विद्यादनेकरससंश्रयम् .
विचित्रैः लोकबन्धैश्च हेलाहावविचित्रितम् .. १३४..
कोपप्रसादजनितं साधिक्षेपपदाश्रयम् .
उक्तप्रत्युक्तमेवं स्याच्चित्रगीतार्थयोजितम् .. १३५..
यत्र प्रियाकृतिं दृष्ट्वा विनोदयति मानसम् .
मदनानलतप्ताङ्गी तच्चित्रपदमुच्यते .. १३६..
दृष्ट्वा स्वप्ने प्रियं यत्र मदनानलतापिता .
करोतिविविधान् भावांस्तद्वै भाविकमुच्यते .. १३७..
एतेषां लास्यविधौ विज्ञेयं लक्षणं प्रयोगज्ञैः .
तदिहैव तु यन्नौक्तं प्रसङ्गविनिवृत्तहेतोस्तु ..१३८..
पञ्चसन्धि चतुर्वृत्ति चतुःषष्ट्यङ्गसंयुतम् .
षट्त्रिंशल्लक्षणोपेतं गुणालङ्कारभूषितम् .. १३९..
महारसं महाभोगमुदात्तवचनान्वितम् .
महापुरुषसंचारं साध्वाचारजनप्रियम् ..१४०..
सुश्लिष्टसन्धिसंयोगं सुप्रयोगं सुखाश्रयम् .
मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ..१४१..
अवस्था या तु लोकस्य सुखदुःखसमुद्भवा .
नानापुरुषसंचारा नाटकेऽसौ विधीयते .. १४२..
न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला .
न तत् कर्म न वा योगो नाट्येऽसिम्न्यन्न दृश्यते .. १४३..
योऽयं स्वभावो लोकस्य नानावस्थान्तरात्मकः .
सोऽङ्गाद्यभिनयैर्युक्तो नाट्यमित्यभिधीयते .. १४४..
देवतानामृषीनां च राज्ञां चोत्कृष्टमेधसाम् .
पूर्ववृत्तानुचरितं नाटकं नाम तद्भवेत्. ..१४५..
यस्मात्स्वभावं संत्यज्य साङ्गोपाङ्गगतिक्रमैः .
प्रयुज्यते ज्ञायते च तस्माद्वै नाटकं स्मृतम्. ..१४६..
सर्वभावैः सर्वरसैः सर्वकर्मप्रवृत्तिभिः .
नानावस्थान्तरोपेतं नाटकं संविधीयते .. १४७..
[अनेकशिल्पजातानि नैककर्मक्रिअयाणि च .
तान्यशेषाणि रूपाणि कर्तव्यानि प्रयोक्तृभिः ].. १४८..
लोकस्वभावं संप्रेक्ष्य नराणां च बलाबलम् .
संभोगं चैव युक्तिं च ततः कार्यं तु नाटकम् .. १४९..
भविष्यति युगे प्रायो भविष्यन्त्यबुधा नराः .
ये चापि हि भविष्यन्ति ते यत्नश्रुतबुद्धयः .. १५०..
कर्मशिल्पानि शास्त्राणि विचक्षणबलानि च .
सर्वाण्येतानि नश्यन्ति यदा लोकः प्रणश्यति .. १५१..
तदेवं लोकभाषाणां प्रसमीक्ष्य बलाबलम् .
मृदुशब्दं सुखार्थं च कविः कुर्यात्तु नाटकम् .१५२..
चैक्रीडिताद्यैः शब्दैस्तु काव्यबन्धा भवन्ति ये .
वेश्या इव न ते भान्ति कमण्डलुधरैर्द्विजैः .. १५३..
दशरूपविधानं च मया प्रोक्तं द्विजोत्तमाः .
अतः परं प्रवक्ष्यामि वृत्तीनामिह लक्षणम् ..१५४..
इति भारतीये नाट्यशास्त्रे सन्धिनिरूपणं नामध्याय एकोनविंशः ..
Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com
यह ब्लॉग नाटक और रंगमंच को समर्पित है...कोशिश यही रहेगी ज्यादा से ज्यादा रंगमंच संदर्भित जानकारी संप्रेषित कि जा सकें...
गुरुवार, 7 अप्रैल 2011
नाट्यशास्त्रम् अध्याय १९
सदस्यता लें
टिप्पणियाँ भेजें (Atom)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें