.. नाट्यशास्त्रम् अध्याय २० ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ विंशोऽध्यायः .
समुत्थानं तु वृत्तीनां व्याख्याम्यनुपूर्वशः .
यथा वस्तूद्भवं चैव काव्यानां च विकल्पनम् .. १..
एकार्णवं जगत् कृत्वा भगवानच्युतो यदा .
शेते स्म नागपर्यङ्के लोकान् संक्षिप्य मायया .. २..
अथ वीर्यबलोन्मतावसुरौ मधुकैअटभौ .
तर्जयामासतुर्देवं तरसा युद्धकाङ्क्षया .. ३..
निजबाहू विमृदनन्तौ भूतभावनमक्षयम् .
जानुभिर्मुष्टिभिश्चैव योधयामासतुः प्रभुम् .. ४..
बहुभिः परुषैर्वाक्यैरन्योन्यसमभिद्रवम् .
नानाधिक्षेपवचनैः कम्पयन्ताविवोदधिम् .. ५..
तयोर्नानाप्रकाराणि वचांसि वदतोस्तदा .
श्रुत्वा त्वभिहतमना द्रुहिणो वाक्यमब्रवीत् .. ६..
किमिदं भरतीवृत्तिर्वाग्भिरेव प्रवर्तते .
उत्तरोत्तरसंबद्धा नन्विमौ निधनं नयः .. ७..
पितामहवचः श्रुत्वा प्रोवाच मधुसूदनः .
कार्यहेतोर्मया ब्रह्मन् भारतीयं विनिर्मिता .. ८..
वदतां वाक्यभूयिष्ठा भारतीयं भविष्यति .
तस्मादेतौ निहन्म्यद्येत्युवाच वचनं हरिः .. ९..
शुद्धैरविकृतैरङ्गैः साङ्गहारैस्तथा भृशम् .
योधयामासतुर्दैत्यौ युद्धमार्गविशारदौ .. १०..
भूमिसंयोगसंस्थानैः पदन्यासैर्हरेस्तदा .
अतिभारोऽभवद् भूमेर्भारती तत्र निर्मिता .. ११..
वल्गितैः शार्ङ्गधनुषस्तीव्रैर्दीप्ततथैरथ .
सत्वाधिकैरसंभ्रान्तैः सात्त्वती तत्र निर्मिता .. १२..
विचित्रैरङ्गहारैस्तु देवो लीलासमन्वितैः .
बबन्ध यच्छिखापाशं कैशिकी तत्र निर्मिता .. १३..
संरम्भावेगबहुलैर्नानाचारी समुत्थितैः .
नियुद्धकरणैश्चित्रैरुत्पन्नारभटी ततः .. १४..
यां यां देवः समाचष्टे क्रियां वृत्तिषु संस्थिताम् .
तां तदर्थानुगैर्जप्येऐर्द्रुहिणः प्रत्यपूजयत् ..१५..
यदा हतौ तावसुरौ हरिणा मधुकैटभौ .
ततोऽब्रवीत् पद्मयोनिर्नारायणमरिन्दमम् .. १६..
अहो विचित्रैर्विषमैः स्फुटैः सललितैरपि .
अङ्गहारैः कृतं देव त्वया दानवनाशनम् .. १७..
तस्मादयं हि लोकस्य नियुद्धसमयक्रमः .
सर्वशस्त्रविमोक्षेषु न्यायसंज्ञो भविष्यति .. १८..
न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः .
यस्माद्युद्धानि वर्तन्ते तस्मान्यायाः प्रकीर्तिताः .. १९..
[चारीषु च समुत्पन्नो नानाचारीसमाश्रयः .
न्यायसंज्ञः कृतो ह्येष द्रुहिणेन महात्मना.. २०..
ततो वेदेषु निक्षिप्ता द्रुहिणेन महात्मना .
पुनरिष्वस्त्रजाते च नानाचारीसमाकुले .. २१..
पुनर्नाट्यप्रयोगेषु नानाभावसम्न्विताः .
वृत्तिसंज्ञाः कृता ह्येताः काव्यबन्धसमाश्रयाः].. २२..
चरितैर्यस्य देवस्य जप्यं यद्यादृशं कृतम् .
ऋषिभिस्तादृशी वृत्तिअः कृता पाठ्यादिसंयुता .. २३..
नाट्यवेदसमुत्पना वागङ्गाभिनयात्मिका .
मया काव्यक्रिअयाहेतोः प्रक्षिप्ता द्रुहिणाज्ञया .. २४..
ऋग्वेदाद्भारती क्षिप्ता यजुर्वेदाच्च सात्त्वती .
कैशिकी सामवेदाच्च शेषा चाथर्वणादपि .. २५..
या वाक्प्रधाना पुरुषप्रयोज्या
स्त्रीवर्जिता संकृतपाठ्ययुक्ता .
स्वनामधेयैर्भरतैः प्रयुक्ता
सा भारती नाम भवेत्तु वृत्तिः .. २६..
भेदास्तस्यास्तु विज्ञेयाश्चत्वारोऽङ्गत्वमागताः .
प्ररोचनामुखं चैव वीथी प्रहसनं तथा .. २७..
जयाभ्युदयिनी चैव मङ्गल्या विजयावहा .
सर्वपापप्रशमनी पूर्वरङ्गे प्ररोचना .. २८..
[उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया .
सिद्धेनामन्त्रणा या तु विज्ञेया सा प्ररोचना].. २९..
नटी विदूषको वापि पारिपार्श्विक एव वा .
सूत्रधारेण सहिताः संलापं यत्तु कुर्वते .. ३०..
चित्रैर्वाक्यैः स्वकार्यारोत्थैर्वीत्थ्यङ्गेरन्यथापि वा .
आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि वा .. ३१..
[लक्षणं पूर्वमुक्तं तु वीत्थ्याः प्रहसनस्य च .
आमुखाङ्गान्यतो वक्ष्ये यथावदनुपूर्वशः].. ३२..
उद्धात्यकः कथोद्धातः प्रयोगातिशयस्तथा .
प्रवृत्तकावलगिते पञ्चाङ्गान्यामुखस्य तु .. ३३..
उद्धात्यकावलगितलक्षणं कथितं मया .
शेषाणां लक्षणं विप्रा व्याख्यास्याम्यानुपूर्वशः .. ३४..
सुत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा .
गृहीतां प्रविशेत्पात्रं कथोद्धातः स कीर्तितः .. ३५..
प्रयोगे तु प्रयोगं तु सूत्रधारः प्रयोजयेत् .
ततश्च प्रविशेत्पात्रं प्रयोगातिशयो हि सः .. ३६..
कालप्रवृत्तिमाश्रित्य वर्णना या प्रयुज्यते .
तदाश्रयाच्च पात्रस्य प्रवेशस्तत्प्रवृत्तकम् .. ३७..
एषामन्यतमं श्लिष्टं योजयित्वार्थयुक्तिभिः .
[तस्मादङ्गद्वयस्यापि सम्भवो न निवार्यते .. ३८..
पात्रग्रन्थैरसंबाध प्रकुर्यादामुखं ततः .
एवमेतद्बुधैर्ज्ञेयमामुखं विविधाश्रयम् .. ३९..
लक्षणं पूर्वमुक्तं तु वीथ्याः प्रहसनस्य च .
[इत्यष्टार्धविकल्पा वृत्तिरियं भारती मयाभिहिता .
सात्त्वत्यास्तु विधानं लक्षणयुक्त्या प्रवक्ष्यामि ].. ४०..
या सात्त्वतेनेह गुणेन युक्ता न्यायेन वृत्तेन समन्विता च .
हर्षोत्कटा संहृतशोकभावा सा सात्त्वती नाम भवेत्तु वृत्तिः
.. ४१..
वागङ्गाभिनयवती सत्त्वोत्थानवचनप्रकरणेषु .
सत्त्वाधिकारयुक्ता विज्ञेया सात्त्वती वृत्तिः .. ४२..
वीराद्भुतरौद्ररसा निरस्तशृङ्गारकरुणनिर्वेदा .
उद्धतपुरुषप्राया परस्पराधर्षणकृता च .. ४३..
उत्थापकश्च परिवर्तकश्च सल्लापकश्च संघात्यः .
चत्वारोऽस्या भेदा विज्ञेया नाट्यकोविदैअः .. ४४..
अहमप्युत्थास्यामि त्वं तावद्दर्शयात्मनः शक्तिम् .
इति संघर्षसमुत्थस्तज्ज्ञैरुत्थापको ज्ञेयः .. ४५..
उत्थानसमारब्धानर्थानुत्सृज्य योऽर्थयोगवशात् .
अन्यानर्थान् भजते स चापि परिवर्तको ज्ञेयः .. ४६..
[निर्दिष्टवस्तुविषयः प्रपञ्चबद्धस्त्रिहास्यसंयुक्तः .
संघर्षविशेषकृतस्त्रिविधः परिवर्तको ज्ञेयः].. ४७..
साधर्षजो निराधर्षजोऽपि वा रागवचसंयुक्तः .
साधिक्षेपालापो ज्ञेयः सल्लापकः सोऽपि .. ४८..
[धर्माधर्मसमुत्थं यत्र भवेद्रागदोषसंयुक्तम् .
साधिक्षेपं च वचो ज्ञेयः संलापको नाम].. ४९..
मन्त्रर्थवाक्यशक्त्या दैववशादात्मदोषयोगाद्वा .
संघातभेदजननस्तज्ज्ञैः संघात्यको ज्ञेयः .. ५०..
[बहुकपटसंश्रयाणां परोपघाताशयप्रयुक्तानाम् .
कूटानां संघातो विज्ञेयः कूटसंघात्यः ].. ५१..
इत्यष्टार्धविकल्पा वृत्तिरियं सात्त्वती मयाभिहिता .
कैशिक्यास्त्वथ लक्षणमतःपरं संप्रवक्ष्यामि .. ५२..
या श्लक्ष्णनैपथ्यविशेषचित्रा स्त्रीसंयुता या बहुनृत्तगीता .
कामोपभोगप्रभवोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति .. ५३..
[बहुवद्यनृत्तगीता शृङ्गाराभिनयचित्रनैपथ्या .
माल्यालङ्कारयुक्ता प्रशस्तवेषा च कान्ता च .. ५४..
चित्रपदवाक्यबन्धैरलङ्कृता हसितरुदितरोषादैः .
स्त्रीपुरुषकामयुक्ता विज्ञेया कैशिकीवृत्तिः].. ५५..
नर्म च नर्मस्फुञ्जो नर्मस्फोटोऽथ नर्मगर्भश्च .
कैशिक्याश्चत्वारो भेदा ह्येते समाख्याताः .. ५६..
आस्थापितशृङ्गारं विशुद्धकरणं निवृत्तवीररसम् .
हास्यप्रवचनबहुलं नर्म त्रिविधं विजानीयात् .. ५७..
ईर्ष्याक्रोधप्रायं सोपालम्भकरणानुविद्धं च .
आत्मोपक्षेपकृतं सविप्रलम्भं स्मृतं नर्म .. ५८..
नवसङ्गमसम्भोगो रतिसमुदयवेषवाक्यसंयुक्तः .
ज्ञेयो नर्मस्फुञ्जो ह्यवसानभयात्मकश्चैव .. ५९..
विविधानां भवानां लवैर्लवैर्भूषितो बहुविशेषैः .
असमग्राक्षिप्तरसो नर्मस्फोटस्तु विज्ञेयः .. ६०..
विज्ञानरूपशोभा धनादिभिर्नायको गणैर्यत्र .
प्रच्छनां व्यवहर्ते कर्यवषान्नर्मगर्भोऽसौ .. ६१..
[पूर्वस्थितौ विपद्येत नायको यत्र चापरस्तिष्ठेत् .
तमपीह नर्मगर्भं विद्यान्नाट्यप्रयोगेषु ].. ६२..
इत्यष्टार्शविकल्पा वृत्तिरियं कैशिकी मयाभिहिता .
अत ऊर्ध्वमुद्धतरसामरभटिं सम्प्रवक्ष्य्यमि .. ६३..
आरभटप्रायगुणा तथैव बहुकपटवञ्चनोपेता .
दम्भानृतवचनवती त्वारभटी नाम विज्ञेया .. ६४..
[आवपाताप्लुलङ्गितानि च्छेद्यानि मायाकृतमिन्द्रजालम् .
चित्राणी युद्धानि च यत्र नित्यं तां तादृशीमारभटीं वदन्ति
.. ६५..
शाड्गुण्यसमार्ब्धा हठातिसन्धानविद्रवोपेता .
लाभालाभार्थकृता विज्ञेया वृत्तिरारभटी .. ६६..
संक्षिप्तकावपतौ वस्तूत्थापनमथापि संफेटः .
एते ह्यस्या भेदा लक्षणमेषं प्रवक्ष्यामि .. ६७..
अन्वर्थशिल्पयुक्तो बहुपुस्तोत्थानचित्रनेपथ्यः .
संक्षिप्तवस्तु विषयो ज्ञेयः संक्षिप्तकओ नाम .. ६८..
भयहर्षसमुत्थानं विद्रवविनिपातसम्भ्रमाचरणम् .
क्षिप्रप्रवेशनिर्गममवपातमिमं विजानीयात् .. ६९..
सर्वरससमासकृतं सविद्रव्व्विद्रवाश्रयं व्वपि .
नाट्यं विभाव्यते यत्तद्वस्तूत्थापनं ज्ञेयम् .. ७०..
संरम्भसंप्रयुक्तो बहुयुद्धकपटनिर्भेदः .
शस्त्रप्रहरबहुलः सम्फेटो नाम विज्ञेयः .. ७१..
एवमेता बुधैर्ज्ञेया वृत्तयो नाट्यसंश्रया .
रसप्रयोगमासां च कीर्त्यमानं निबोधत .. ७२..
हास्यशृङ्गरबहुला कैशिकी परिचक्षिता .
सत्त्वती चापि विज्ञेया वीराद्भुतशमाश्रयाः .. ७३..
रौद्रे भयानके चैव विज्ञेयारभटी बुधैः .
बीभत्से करुणे चैव भारती संप्रकीर्तिता .. ७४..
[न ह्येकरसजं कव्यं किञ्चिदस्ति प्रयोगतः .
भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव वा .. ७५..
सर्वेषां समवेतानां यस्य रूपं भवेद्बहु .
स मन्तव्यो रस स्थायि शेषाः सञ्चारिणः स्मृताः].. ७६..
वृत्यन्त एशोऽभिनयो मयोक्तो वागङ्गसत्त्वप्रभवो यथावद् .
आहार्यमेवाभिनयं प्रयोगे वक्ष्यामि नेपथ्यकृतं तु भूयः .. ७७..
इति भारतीये नाट्यशास्त्रे वृत्तिविकल्पनं नाम विंशोऽध्यायः
Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com
यह ब्लॉग नाटक और रंगमंच को समर्पित है...कोशिश यही रहेगी ज्यादा से ज्यादा रंगमंच संदर्भित जानकारी संप्रेषित कि जा सकें...
गुरुवार, 7 अप्रैल 2011
नाट्यशास्त्रम् अध्याय २०
सदस्यता लें
टिप्पणियाँ भेजें (Atom)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें