गुरुवार, 7 अप्रैल 2011

नाट्यशास्त्रम् अध्याय २४

.. नाट्यशास्त्रम् अध्याय २४ ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्
चतुर्विंशोऽध्यायः
समासतस्तु प्रकृतिस्त्रिविधा परिकीर्तिता .
पुरुषाणामथ स्त्रीणामुत्तमाधममध्यमा .. १..
जितेन्द्रिय ज्ञानवती नानाशिल्पविचक्षणा .
दक्षिणाधमहालक्ष्या भीतानां परिसान्त्वनी ..२..
नानाशास्त्रार्थसंपन्ना गाम्भीर्यौदार्यशालिनी .
स्थैर्यत्यागगुणोपेता ज्ञेया प्रकृतिरुत्तमा .. ३..
लोकोपचारचतुरा शिल्पशास्त्रविशारदा .
विज्ञानमाधुर्ययुता मध्यमा प्रकृतिः स्मृता .. ४..
रूक्षवाचोऽथ दुःशीलाः कुसत्त्वाः स्थूलबुद्धयः .
क्रोधनाघातकाश्चैव मित्रघ्नाश्छिद्रमानिनः .. ५..
पिशुनास्तूद्धतैर्वाक्यैरकृतज्ञास्तथालसाः .
मान्यामान्या विशेषज्ञा स्त्रीलोलाः कलहप्रियाः .. ६..
सूचकाः पापकर्माणः परद्रव्यापहारिणः .
एभिर्दोषैस्तुसंपन्ना भवन्तीहाधमा नराः .. ७..
एवं तु शीलतो नॄणां प्रकृतिस्त्रिविधा स्मृता .
स्त्रीणां पुनश्च प्रकृतिं व्याख्यास्याम्यनुपूर्वशः .. ८..
मृदुभाबा चाचपला स्मितभाषिण्यनिष्ठुरा .
गुरूणां वचने दक्षा सलज्जा विनयान्विता .. ९..
रूपाभिजनमाधुर्यैर्गुणैः स्वाभाविकेर्युता .
गाम्भीर्यधैर्यसम्पन्ना विज्ञेया प्रमदोत्तमा .. १०..
नात्युत्कृष्टैरनिखिलैरेभिरेवान्विता गुणैः .
अल्पदोषानुविद्धा च मध्यमा प्रकृतिः स्मृता .. ११..
अधमा प्रकृतिर्या तु पुरुषाणां प्रकीर्तिता .
विज्ञेया सैव नारीणामधमानां समासतः .. १२..
नपुंसकस्तु विज्ञेयः संकीर्णोऽधम एव च .
प्रेष्यादिरपि विज्ञेया संकीर्णा प्रकृतिद्विजाः .. १३..
शकारश्च विटश्चैव ये चान्येप्येवमादयः .
संकीर्णास्तेऽपि विज्ञेया ह्यधमा नाटके बुधैः .. १४..
एता ज्ञेयाः प्रकृतयः पुरुषस्त्रीनपुंसकैः .
आसां तु संप्रवक्ष्यामि विधानं शीलसंश्रयम् .. १५..
अत्र चत्वार एव स्युर्नायकाः परिकीर्तिताः .
मध्यमोत्तमप्रकृतौ नानालक्षणलक्षिताः .. १६..
धीरोद्धता धीरललिता धीरोदात्तास्तथैव च .
धीरप्रशान्तकाश्चैव नायकाः परिकीर्तिताः .. १७..
देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः .
सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ .. १८..
धीरप्रशान्ता विज्ञेया ब्राह्मणा वाणिजस्तथा .
एतेषां तु पुनर्ज्ञेयाश्चत्वारस्तु विदूषकः .. १९..
लिंगी द्विजो राजजीवी शिष्यश्चेति यथाक्रमम् .
देवक्षितिभृतामात्यब्राह्मणानां प्रयोजयेत् .. २०..
विप्रलंभसुहृदोमी संकथालापपेशलाः .
व्यसनी प्राप्य दुःखं वा युज्यतेऽभ्युदयेन यः .. २१..
तथा पुरुषमाहुस्तं प्रधानं नायकं बुधाः .
यत्रानेकस्य भवतो व्यसनाभ्युदयौ पुनः .. २२..
सपुष्टौ यत्र तौ स्यातां न भवेत्तत्र नायकः .
दिव्या च नृपपत्नी च कुलस्त्री गणिका तथा .. २३..
एतास्तु नायिका ज्ञेय नानाप्रकृतिलक्षणाः .
धीरा च ललिता च स्यादुदात्ता निभृता तथा .. २४..
दिव्या राजाङ्गनाश्चैव गुणैर्युक्ता भवन्ति हि .
उदात्ता निभृता चैव भवेत्तु कुलजाङ्गना .. २५..
ललिते चाभ्युदात्ते च गणिकाशिल्पकारिके .
[प्रकृतीनां तु सर्वासामुपचाराद् द्विधा स्मृताः .. २६..
बाह्यश्चाभ्यन्तरश्चैव तयोर्वक्ष्यामि लक्षणम् .
तत्र राजोपचारो यो भवेदाभ्यन्तरो हि सः .. २७..
ततो वाक्योपचारस्तु यस्य बाह्यः स उच्यते .
अथ राजोपचारे च राज्ञामन्तःपुराश्रितम् .. २८..
स्त्रीविभागं प्रवक्ष्यामि विभक्तमुपचारतः . ]
राजोपचारं वक्ष्यामि ह्यन्तःपुरसमाश्रयम् .. २९..
महादेवी तथा देव्यः स्वामिन्यः स्थापिता अपि .
भोगिन्यः शिल्पकारिण्यो नाटकीयाः सनर्तकाः ..३०..
अनुचारिकाश्च विज्ञेयास्तथा च परिचारिकाः .
तथा संचारिकाश्चैव तथा प्रेषणकारिकाः .. ३१..
महत्तर्यः प्रतीहार्यः कुमार्यः स्थविरा अपि .
आयुक्तिकाश्च नृपतेरयमन्तःपुरो जनः .. ३२..
अत्र मूर्धाभिषिक्ता या कुलशीलसमन्विता .
गुणैर्युक्ता वयस्स्था च मध्यस्था क्रोधना तथा .. ३३..
मुक्तेर्ष्या नृपशीलज्ञा सुखदुःखसहा समा .
शान्तिस्वस्त्ययनैर्भर्तुस्सततं मङ्गलैषिणी .. ३४..
शान्ता पतिव्रता धीरा अन्तःपुरहिते रता .
एभिर्गुणैस्तु संयुक्ता महदेवीत्युदाहृता .. ३५..
एभिरेव गुणैर्युक्तास्तत्संस्कारविवर्जिताः .
गर्विताश्चातिसौभाग्याः पतिसंभोगतत्पराः . ३६..
शुचिनित्योज्वलाकाराः पतिपक्षाभ्यसूयकाः .
वयोरूपगुणाढ्या यास्ता देव्य इति भाषिताः .. ३७..
सेनापतेरमात्यानां भृत्यानामथवा पुनः .
भवेयुस्तनया यास्तु प्रतिसम्मानवर्जिताः .. ३८..
शीलरूपगुणैर्यास्तु संपन्ना नृपतेर्हिताः .
स्वगुणैर्लब्धसम्माना स्वामिन्य इति ताः स्मृताः .. ३९..
रूपयौवनशालिन्यः कर्कशा विभ्रमान्विताः .
रतिसंभोगकुशलाः प्रतिपक्षाभ्यसूयकाः .. ४०..
दक्षा भर्तुश्च चित्तज्ञा गन्धमाल्योज्वलास्सदा .
नृपतेश्छन्दवर्तिन्यो न हीर्ष्यामानगर्विताः .. ४१..
उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या न निष्ठुराः .
मान्यामान्यविशेषज्ञाः स्थापिता इति ताः स्मृताः .. ४२..
कुलशीललब्धपूजामृदवो नातिचोद्भटाः .
मध्यस्था निभृताः क्षान्ता भोगिन्य इति ताः स्मृताः .. ४३..
नानाकलाविशेषज्ञा नानाशिल्पविचक्षणाः .
गन्धपुष्पविभागज्ञा लेख्यालेख्यविकल्पिकाः .. ४४..
शयनासनभागज्ञाश्चतुरा मधुरास्तथा .
दक्षाः सौम्याः स्फुटाः श्लिष्ठा निभृताः शिल्पकारिकाः .. ४५..
ग्रहमोक्षलयज्ञा या रसभावविकल्पिकाः .
चतुरानाट्यकुशलाश्चोहापोहविचक्षणाः .. ४६..
रूपयौवनसंपन्ना नाटकीयास्तु ताः स्मृताः .
हेलाभावविशेषाढ्या सत्वेनाभिनयेन च . ४७..
माधुर्येन च संपन्ना ह्यातोद्यकुशला तथा .
अङ्गप्रत्यङ्गसंपन्ना चतुष्षष्ठिकलान्विता .. ४८..
चतुराः प्रश्नयोपेताः स्त्रीदोषैश्च विवर्जिताः .
सदा प्रगल्भा च तथा त्यक्तालस्या जितश्रमा .. ४९..
नानाशिल्पप्रयोगज्ञा नृत्तगीतविचक्षणा .
अथ रूपगुणौदार्यधैर्यसौभाग्यशीलसंपन्ना .. ५०..
पेशलमधुरस्निग्धानुनादिकलचित्रकण्ठा च .
समागतासु नारीषु रूपयौवनकन्तिभिः .. ५१..
न दृश्यते गुणैर्स्तुल्या यस्याः सा नर्तकी स्मृता .
सर्वावस्थोपचारेषु या न मुञ्चति पर्थिवम्. .. ५२..
विज्ञेया दक्षिणा दक्षा नाट्यज्ञैरनुचारिका .
शय्यापाली छत्रधारी तथा व्यजनधारिणी .. ५३..
संवाहिका गन्धयोक्त्री तथा चैव प्रसाधिका .
तथाभरणयोक्त्री च माल्यसंयोजिका तथा .. ५४..
एवं विधा भवेयुर्याः ता ज्ञेयाः परिचारिकाः .
नानाकक्ष्या विचारिण्यः तथोअपवनसंचराः .. ५५..
देवतायतनक्रीडा प्रासादपरिचारिकाः .
यामकिन्यस्तथा चैव याश्चैवं लक्षणाः स्त्रियः .. ५६..
संचारिकास्तु विज्ञेया नाट्यज्ञैः समुदाहृताः .
प्रेषणेऽकामसंयुक्ते गुह्यागुह्यसमुत्थिते .. ५७..
नृपैर्यास्तु नियुज्यन्ते ताः ज्ञेयाः परिचारिकाः .
सर्वान्तःपुररक्षासु स्तुतिस्वस्त्ययनेन च .. ५८..
या वृद्धिमभिनन्दन्ति ता विज्ञेया महत्तराः .
सन्धिविग्रहसंबद्धनानाचारसमुत्थितम् .. ५९..
निवेदयन्ति याः कार्यं प्रतिहार्यस्तु ताः स्मृताः .
अप्राप्तरससंभोगा न संभ्रान्ता न चोद्भटाः .. ६०..
निभृताश्च सलज्जाश्च कुमार्यो बालिकाः स्मृताः .
पुर्वराजनयज्ञा याः पुर्वराजाभिपूजिताः .. ६१..
पुर्वराजानुचरितास्ता वृद्धा इति सुज्ञिताः .
भाण्डागारेष्वधिकृताश्चायुधाधिकृतास्तथा .. ६२..
फलमूलौषधीनां च तथा चैवान्ववेक्षकी .
गन्धाभरणवस्त्राणां माल्यानां चैव चिन्तिका .. ६३..
बह्वाश्रये तथा युक्ता ज्ञेया ह्यायुक्तिकास्तु ताः .
इत्यन्तःपुरचारिण्यः स्त्रियः प्रोक्ता समासतः .. ६४..
विशेषणविशेषेण तासां वक्ष्यामि वै द्विजाः .
अनुरक्ताश्च भक्ताश्च नानापार्श्वसमुत्थिताः .. ६५..
या नियुक्ता नियोगेषु कार्येषु विविधेषु च .
न चोद्भटा असंभ्रान्ता न लुब्धा नापि निष्ठुराः .. ६६..
दान्ताः क्षान्ताः प्रसन्नाश्च जितक्रोधा जितेन्द्रियाः .
अकामा लोभडीनाश्च स्त्रीदोषैश्च विवर्जिताः .. ६७..
सा त्वन्तःपुरसंचारे योज्या पार्थिववेश्मनि .
कारुकाः कञ्चुकीयाश्च तथा वर्षवराः पुनः .. ६८..
औपस्थायिकनिर्मुण्डा स्त्रीणा प्रेषणकर्मणि .
रक्षणं च कुमारीणां बालिकानां प्रयोजयेत् .. ६९..
अन्तःपुराधिकारेषु राजचर्यानुवर्त्तिनाम् .
सर्ववृत्तान्तसंवाहाः पत्यागारे नियोजयेत् .. ७०..
विनीताः स्वल्पसत्त्वा ये क्लीबा वै स्त्रीस्वभाविकाः .
जात्या न दोषिणश्चैव ते वै वर्षवराः स्मृताः ७१..
ब्रह्माणाः कुशला वृद्धाः कामदोषविवर्जिताः .
प्रयोजनेषु देवीनां प्रयोक्तव्या नृपैः सदा .. ७२..
एतदष्टादशविधं प्रोक्तमन्तःपुरं मया .
अतः परं प्रवक्ष्यामि बाह्यं पुरुषसंभवम् .. ७३..
राजा सेनापतिश्चैव पुरोधा मन्त्रिणस्तथा .
सचिवाः प्राड्विवाकाश्च कुमाराधिकृतास्तथा .. ७४..
एके चान्ये च बहवो मान्या ज्ञेया नृपस्य तु .
वेशेषमेषां वक्ष्यामि लक्षणेन निबोधत .. ७५..
बलवान् बुद्धिसंपन्नः सत्यवादी जितेन्द्रियः .
दक्षः प्रगल्भो धृतिमान् विक्रान्तो मतिमाञ्छुचिः .. ७६..
दीर्घदर्शी महोत्साहः कृतज्ञः प्रियवाङ्मृदुः .
लोकपालव्रतधरः कर्ममार्गविशारदः .. ७७..
उत्थितश्चाप्रमत्तश्च वृद्धसेव्यर्थशास्त्रवित् .
परभावेङ्गिताभिज्ञः शूरो रक्षासमन्वितः .. ७८..
ऊहापोहविचारी च नानाशिल्पप्रयोजकः .
नीतिशास्त्रार्थकुशलस्तथा चैवानुरागवान् .. ७९..
धर्मज्ञोऽव्यसनी चैव गुणैरेतेर्भवेन्नृपः .
कुलीना बुद्धिसंपन्ना नानाशास्त्रविपश्चिताः .. ८०..
स्निग्धाअ परेरहार्यश्च न प्रमत्ताश्च देशजाः .
अलुब्धाश्च विनीताश्च शुचयो धार्मिकास्तथा .. ८१..
पुरोधो मन्त्रिणस्त्वेभिर्गुणैर्युक्ता भवन्ति हि .
बुद्धिमान्नीतिसंपन्नस्त्यक्तालस्यः प्रियंवदः .. ८२..
पररन्ध्रविधिज्ञश्च यात्राकालविशेषवित् .
अर्थशास्त्रार्थकुशलो ह्यनुरक्तः कुलोद्भवः .. ८३..
देशवित्कालविच्चैव कर्तव्यः क्षितिपैः सदा .
व्यवहारार्थतत्त्वज्ञा बुद्धिमन्तो बहुश्रुताः .. ८४..
मध्यस्था धार्मिका धीराः कार्याकार्यविवेकिनः .
क्षान्ता दान्ता जितक्रोधा सर्वत्र समदर्शिनः .. ८५..
ईदृशः प्राड्विवाकास्तु स्थाप्या धर्मासने द्विजाः .
उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या जितश्रमाः .. ८६..
स्निग्धा शान्ता विनीताश्च मध्यस्था निपुणास्तथा .
नयज्ञा विनयज्ञाश्च ऊहापोहविचक्षणाः .. ८७..
सर्वशात्रार्थसंपन्नाः कुमाराधिकृतास्तथा .
बृहस्पतिमतादेषां गुणांश्चाभिकांक्षयेत् .. ८८..
विज्ञेयं चोपहार्यं च सभ्यानां च विकल्पनम् .
इत्येष वो मया प्रोक्तः प्राड्विवाकनिर्णयः .. ८९..
अत ऊर्ध्वं प्रवक्ष्यामि चित्राभिनयनं पुनः ..
इति भारतीये नाट्यशास्रे पुंस्त्र्युपचारो
नामाध्यायश्चतुर्विंशः ..

Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com

कोई टिप्पणी नहीं: