गुरुवार, 7 अप्रैल 2011

नाट्यशास्त्रम् अध्याय २३

.. नाट्यशास्त्रम् अध्याय २३ ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ त्रयोविंशोऽध्यायः .
विशेषयेत्कलाः सर्वा यस्मात्तस्मात्तु वैशिकः .
वेशोपचारे साधुर्वा वैशिकः परिकीर्तितः .. १..
यो हि सर्वकलोपेतः सर्वशिल्पविचक्षणः .
स्त्रीचित्तग्रहणाभिज्ञो वैशिकः स भवेत्पुमान् .. २..
गुणस्तस्य तु विज्ञेयाः स्वशरीरसमुत्थिताः .
आहार्याः सहजाश्चैव त्रयस्त्रिंशत्समासतः .. ३..
शास्त्रविच्छिल्पसंपन्नो रूपवान् प्रियदर्शनः
विक्रान्तो धृतिमांश्चैव वयोवेषकुलान्वितः .. ४..
सुरभिर्मधुरस्त्यागि सहिष्णुरविकत्थनः
अशङ्कितः प्रियाभाषी चतुरः शुभदः शुचिः .. ५..
कामोपचारकुशलो दक्षिणो देशकालवित् .
अदीनवाक्यः स्मितवान् वाग्मी दक्षः प्रियंवदः .. ६..
स्त्रीलुब्धाः संविभागी च श्रद्धधानो दृढस्मृतिः .
गम्यासु चाप्यविस्रम्भी मानी चेति हि वैशिकः .. ७..
अनुयुक्तः शुचिर्दक्षो दक्षिणः प्रतिपत्तिमान् .
भवेच्चित्राभिधायी च वयस्यस्तस्य तद्गुणः .. ८..
विज्ञानगुणसंपना कथिनी लिङ्गिनी तथा .
प्रातिवेश्या सखी दासी कुमारी कारुशिल्पिनी .. ९..
धात्री पाषण्डिनी चैव तथा रङ्गोपजीविनी .
प्रोत्साहनेऽथकुशला मधुरकथा दक्षिणाथकालज्ञा .. १०..
लडहा संवृतमन्त्रा दूती त्वेभिर्गुणैः कार्या .
तयाप्युत्साहनं कार्यं नानादर्शितकारणम् .. ११..
यथोक्तकथनं चैव तथा भावप्रदर्शनम् .
न जडं रूपसम्पन्नं नार्थवन्तं न चातुरम् .. १२..
दूतं वाऽप्यथवा दूतीं बुधः कुर्यात्कदाचन .
कुलभोगधनाधिक्यैः कृत्वाधिकविकत्थनम् .. १३..
दूती निवेदयेत्काममर्थांश्चैवानुवर्णयेत् .
न चाकामप्रवृत्तायाः कृद्धाया वापि सङ्गमः .. १४..
नानुपायः प्रकर्तव्यो दूत्या हि पुरुषाश्रयः .
उत्सवे रत्रिसञ्चार उद्द्याने मित्रवेश्मनि .. १५..
धात्रिगृहेषु सख्या वा तथा चैव निमन्त्रणे .
व्याधितव्यपदेशेन शुन्यागारनिवेशने .. १६..
कार्यः समागमो नॄणां स्त्रीभिः प्रथमसङ्गमे .
एवं समागमं कृत्वा सोपायं विधिपूर्वकम् .. १७..
अनुरक्ता विरक्ता वा लिङ्गाकारैस्तु लक्षयेत् .
स्वभावभावातिशयैर्नारी या मदनाश्रया .. १८..
करोति निभृतां लीलां नित्यं सा मदनातुरा .
सखीमध्ये गुणान् ब्रूते स्वधनं च प्रयच्छति .. १९..
पूजयत्यस्य मित्राणि द्वेष्टि शत्रुजनं सदा .
गमागमे सखीनां या हृष्टा भवति चाधिकम् .. २०..
तुष्यत्यस्य कथाभिस्तु सस्नेहं च निरीक्षते .
सुप्ते तु पश्चात् स्वपिति चुम्बिता प्रतिचुम्बति .. २१..
उत्तिष्ठत्यपि पूर्वं च तथा क्लेशसहापि च .
उत्सवे मुदिता या च व्यसने या च दुःखिता .. २२..
एवंविधैर्गुणैर्युक्ता त्वनुरक्ता तु सा स्मृता .
विरक्तायास्तु चिन्हानि चुम्बिता नाभिचुम्बति .. २३..
इति भारतीये नाट्यशास्त्रे त्रयोविंशः ..

Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com

कोई टिप्पणी नहीं: