गुरुवार, 7 अप्रैल 2011

नाट्यशास्त्रम् अध्याय २१


    .. नाट्यशास्त्रम् अध्याय २१ ..
    .. श्रीरस्तु ..
    भरतमुनिप्रणीतं नाट्यशास्त्रम्
    अथ एकविंशोऽध्यायः .
    आहार्याभिनयं विप्रा व्याख्यास्याम्यनुपूर्वशः .
    य्स्मात् प्रयोगः सर्वोऽयमाहार्याभिनये स्थितः .. १..
    नानावस्था प्रकृतय पूर्वं नैपथ्यसाधिताः .
    अङ्गादिभिरभिव्यक्तिमुपगच्छन्त्ययत्नतः .. २..
    आहार्याभिनयो नाम ज्ञेयो नेपथ्यजो विधिः .
    तत्र कार्यः प्रयत्नस्तु नाट्यस्य शुभमिच्छता .. ३..
    [तस्मिन्यत्नस्तु कर्तव्यो नैपथ्ये सिद्धिमिच्छता .
    नाट्यस्येह त्वलङ्कारो नैपथ्यं यत्प्रकीर्तितम् ..].. ४..
    चतुर्विधं तु नेपथ्यं पुस्तोऽलङ्कार एव च .
    तथाङ्करचना चैव ज्ञेयं सज्जीवमेव च .. ५..
    पुस्तस्तु त्रिविधो ज्ञेयो नानारूपप्रमाणतः .
    सन्धिमो व्याजिमश्चैव वेष्टिमश्च प्रकीर्तितः .. ६..
    किलिञ्जचर्मवस्त्राद्यैर्यद्रूपं क्रियते बुधैः .
    सन्धिमो नाम विज्ञेयः पुस्तो नाटकसंस्श्रयः .. ७..
    व्याजिमो नाम विज्ञेअयो यन्त्रेण क्रियते तु यः .
    वेष्ट्यते चैव यद्रुपं वेष्टिमः स तु संज्ञितः .. ८..
    शैलयानविमानानि चर्मवर्मध्वजा नगाः .
    ये क्रियन्ते हि नाट्ये तु स पुस्त इति संज्ञितः .. ९..
    अलङ्कारस्तु विज्ञेयो माल्याभरणवाससाम् .
    नानाविधः समायोगोऽप्यङ्गोपाङ्गविधिः स्मृतः .. १०..
    वेष्टिमं विततं चैव संघात्यं ग्रन्थिमं तथा .
    प्रालम्बितं तथा चैव माल्यं पञ्चविधं स्मृतम् ..११..
    चतुर्विधं तु विज्ञेयं नाट्ये ह्याभरणं बुधैः .
    आवेध्यं बन्धनीयं च क्षेप्यमारोप्यमेव च .. १२..
    आवेध्यं कुण्डलादीह यत्स्याच्छ्रवणभूषणम् .
    आरोप्यं हेमसूत्रादि हाराश्च विविधाश्रयाः .. १३..
    श्रोणीसूत्राङ्गदे मुक्ताबन्धनीयानि सर्वदा .
    प्रक्षेप्य नूपुरं विद्याद्वस्त्राभरणमेव च .. १४..
    भूषणानां विकल्पं हि पुरुषस्त्रीसमाश्रयम् .
    नाविधं प्रवक्ष्यामि देशजातिसमुद्भवम् ..१५..
    चूडामणिः समुकुटः शिरसो भूषणं स्मृतम् .
    कुण्डलं मोचकं कीला कर्णाभरणमिष्यते .. १६..
    मुक्तावली हर्षकं च सूत्रकं कण्ठभूषणम् .
    वेतिकाङ्गुलिमुद्रा च स्यादङ्गुलिविभूषणम् ..१७..
    हस्तली वलयं चैव बाहुनालीविभूषणम् .
    रुचकश्चूलिका कार्या मणिबन्धविभूषणम् .. १८..
    केयूरे अङ्गदे चैव कूर्परोपरिभूषणे .
    त्रिसरश्चैव हारश्च तथा वक्षोविभूषणम् .. १९..
    व्यालम्बमौक्तिको हारो माला चैवाङ्गभूषणम् .
    तलकं सूत्रकं चैव भवेत्कटिविभूषणम् .. २०..
    अयं पुरुषनिर्योगः कार्यस्त्वाभरणाश्रयः .
    देवानां पार्थिवानां च पुनर्वक्ष्यामि योषिताम् .. २१..
    शिखापाशं शिखाव्यालं पिण्डीपत्रं तथैव च .
    चूडामणिर्मकरिका मुक्ताजालगवाक्षिकम् ..२२..
    शिरसो भूषणं चैव विचित्रं शीर्षजोलकम् .
    कण्डकं शिखिपत्रं च वेणीपुच्छः सदोरकः .. २३..
    ललाटतिलकं चैव नानाशिल्पप्रयोजितम् .
    भ्रूगुच्छोपरिगुच्छश्च कुसुमानुकृतिस्तथा .. २४..
    कर्णिका कर्णवलयं तथा स्यात्पत्रकर्णिका .
    कुण्डलं कर्णमुद्रा च कर्णोत्कीलकमेव च .. २५..
    नानारत्नविचित्राणि दन्तपत्राणि चैव हि .
    कर्णयोर्भूषणं ह्येतत्कर्णपूरस्तथैव च .. २६..
    तिलकाः पत्रलेखाश्च भवेद्गण्डविभूषणम् .
    त्रिवणी चैव विज्ञेयं भवेद्वक्षोविभूषणम् .. २७..
    नेत्रयोरञ्जनं ज्ञेयमधरस्य च रञ्जनम् .
    दन्तानां विविधो रागश्चतुर्णां शुक्लतापि वा .. २८..
    रागान्तरविकल्पोऽथ शोभनेनाधिकोज्वलः .
    मुग्धानां सुन्दरीणां च मुक्ताभासितशोभनाः .. २९..
    सुरक्ता वापि दन्ता स्युःः पद्मपल्लवरञ्जनाः .
    अश्मरागोद्द्योतितः स्यादधरः पल्लवप्रभः .. ३०..
    विलासश्च भवेत्तासां सविभ्रान्तनिरीक्षितम् .
    मुक्तावली व्यालपङ्क्तिर्मञ्जरी रत्नमालिका .. ३१..
    रत्नावली सूत्रकं च ज्ञेयं कण्ठविभूषणम् .
    द्विसरस्त्रिसरश्चैव चतुस्सरकमेव च ..३२..
    तथा शृङ्खलिका चैव भवेत्कण्ठविभूषणम् .
    अङ्गदं वलयं चैव बाहुमूलविभूषणम् .. ३३..
    नानाशिल्पकृताश्चैव हारा वक्षोविभूषणम् .
    मणिजालावनद्धं च भवेत् स्तनविभूषणम् .. ३४..
    खर्जूरकं सोच्छितिकं बाहुनालीविभूषणम् .
    कलापी कटकं शङ्खो हस्तपत्रं सपूरकम् .. ३५..
    मुद्राङ्गुलीयकं चैव ह्यङ्गुलीनां विभूषणम् .
    मुक्ताजालाढ्यतलकं मेखला काञ्चिकापि वा .. ३६..
    रशना च कलापश्च भवेच्छ्रोणीविभूषणम् .
    एकयष्टिर्भवेत्काञ्ची मेखला त्वष्टयष्टिका .. ३७..
    द्विरष्टयष्टि रशना कलापः पञ्चविंशकः .
    द्वात्रिंशच्च चतुःषष्टिः शतमष्टोत्तरं तथा .. ३८..
    मुक्ताहारा भवन्त्येते देवपार्थिवयोषिताम् .
    नूपुरः किङ्किणीकाश्च घण्टिका रत्नजालकम् ..३९..
    सघोषे कटके चैव गुल्फोपरिविभूषाणम् .
    जङ्घयोः पादपत्रं स्यादङ्गुलीष्वङ्गुलीयकम् .. ४०..
    अङ्गुष्ठतिलकाश्चैव पादयोश्च विभूषणम् .
    तथालक्तकरागश्च नानाभक्तिनिवेशितः .. ४१..
    अशोकपलावच्छायः स्यात् स्वाभाविक एव च .
    एतद्विभूषणं नार्या आकेशादानखादपि .. ४२..
    यथाभवरसावस्थं विज्ञेयं द्विजसत्तमाः .
    आगमश्च प्रमाणं च रूपनिर्वर्णनं तथा .. ४३..
    विश्वकर्ममतात्कार्यं सुबुद्ध्यापि प्रयोक्तृभिः .
    न हि शक्यं सुवर्णेन मुक्ताभिर्मणिभिस्तथा .. ४४..
    स्वाधीनमिति रुच्यैव कर्तुमङ्गस्य भूषणम् .
    विभागतोऽभिप्रयुक्तमङ्गशोभाकरं भवेत् .. ४५..
    यथा स्थानान्तरगतं भूषणं रत्नसंयुतम् .
    न तु नाट्यप्रयोगेषु कर्तव्यं भूषणं गुरु .. ४६..
    खेदं जनयते तद्धि सव्यायतविचेष्टनात् .
    गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते .. ४७..
    गुर्वाभरणसन्नो हि चेष्टां न कुरुते पुनः .
    तस्मात्तनुत्वचकृतं सौवर्णं भूषणं भवेत् .. ४८..
    रत्नवज्जतुबद्धं वा न खेदजननं भवेत् .
    स्वेच्छया भूषणविधिर्दिव्यानामुपदिश्यते .. ४९..
    यत्नभावविनिष्पन्नं मानुषाणां विभूषणम् .
    [वेष्टितं विततं चैव संघात्यं ग्रथिमं तथ .. ५०..
    लम्बशोभि तथा चैव माल्यं पञ्चविधं स्मृतम् .
    आच्छादनं बहुविधं नानापत्तनसंभवम् .. ५१..
    तज्ज्ञेयं त्रिप्रकारं तु शुद्धं रक्तं विचित्रितम्].
    दिव्यानां भूषणविधिर्य एष परिकीर्तितः .. ५२..
    मानुषाणां तु कर्तव्यो नानादेशसमाश्रयः .
    भूषणैश्चापि वेषैश्च नानावस्थासमाश्रयैः .. ५३..
    दिव्याङ्गनानां कर्तव्या विभक्तिः स्वस्वभूमिजा .
    विद्याधरीणां यक्षीणामप्सरोनागयोषिताम् .. ५४..
    ऋषिदैवतकन्यानां वेषैर्नानात्वमिष्यते .
    तथा च सिद्धगन्धर्वराक्षसासुरयोषिताम् .. ५५..
    दिव्यानां नरनारीणां तथैव च शिखण्डकम् .
    शिखापुटशिखण्डं तु मुक्ताभूयिष्ठभूषणम् .. ५६..
    विद्याधरीणां कर्तव्यः शुद्धो वेषपरिच्छदः .
    यक्षिण्योऽप्सरश्चैव कर्या रत्नविभूषणाः .. ५७..
    समस्तानां भवेद्वेषो यक्षीणा केवलं शिखा .
    दिव्यनामिव कर्तव्यं नागस्त्रीणां विभूषणम् .. ५८..
    मुक्तामणिलताप्रायाः फणास्तासां तु केवलाः .
    कार्यं तु मुनिकन्यानामेकवेणीधरं शिरः .. ५९..
    न चापि विभूषणविधिस्तासां वेषो वनोचितः .
    मुक्तामरकतप्रायं मण्डनं सिद्धयोषिताम् .. ६०..
    तासां तु चैव कर्तव्यं पीतवस्त्रपरिच्छदम् .
    पद्मरागमणिप्रायं गन्धर्वीणां विभूषणम् .. ६१..
    वीणाहस्तश्च कर्तव्यः कौसुम्भवसनस्तथा .
    इन्द्रनीलैस्तु कर्तव्यं राक्षसीणां विभूषणम् .. ६२..
    सितदंष्ट्रा च कर्तव्या कृष्णवस्त्रपरिच्छदम् .
    वैडूर्यमुक्ताभरणाः कर्तव्या सुरयोषिताम् .. ६३..
    शुकपिञ्छनिभैअर्वस्त्रैः कार्यस्तासां परिच्छदः .
    पुष्यरागैस्तु मणिभिः क्वचिद्वैडूर्यभूषितैः .. ६४..
    दिव्यवानरनारीणां कार्यो नीलपरिच्छदः .
    एवं शृङ्गारिणः कार्या वेषा दिव्याङ्गनाश्रयाः .. ६५..
    अवस्थान्तमासाद्य शुद्धाः कार्याः पुनस्तथा .
    मानुषीणां तु कर्तव्या नानादेशसमुद्भवाः .. ६६..
    वेषाभरणसंयोगान् गदतस्तान्निबोधत .
    आवन्त्ययुवतीनां तु शिरस्सालककुन्तलम् .. ६७..
    गौडीयानामलकप्रायं सशिखापाशवेणिकम् .
    आभीरयुवतीनां तु द्विवेणीधर एव तु .. ६८..
    शिरः परिगमः कार्यो नीलप्रायमथाम्बरम् .
    तथा पूर्वोतरस्त्रीणां समुन्नद्धशिखण्डकम् .. ६९..
    आकेशाच्छादनं तासां देशकर्मणि कीर्तितम् .
    तथैव दक्षिणस्त्रीणां कार्यमुल्लेख्यसंश्रयम् .. ७०..
    कुम्भीबन्धकसंयुक्तं तथावर्तललाटिकम् .
    [गणिकानां तु कर्तव्यमिच्छाविच्छित्ति मण्डनम्].. ७१..
    देशजातिविधानेन शेषाणामपि कारयेत् .
    वेषं तथा चाभरणं क्षुरकर्म परिच्छदम् .. ७२..
    [आगमं चापि नैपथ्ये नाट्यस्यैवं प्रयोजयेत्].
    अदेशयुक्तो वेषो हि न शोभां जनयिष्यति .. ७३..
    मेखलोरसि बद्धा तु हास्यं समुपपादयेत् .
    तथा प्रोषितकान्तासु व्यसनाभिहतासु च .. ७४..
    वेषो वै मलिनः कार्य एकवेणीधरं शिरः .
    विप्रलम्भे तु नार्यास्तु शुद्धो वेषो भवेदिह .. ७५..
    नात्याभरणसंयुक्तो न चापि मृजयान्वितः .
    एवं स्त्रीणां भवेद्वेषो देशावस्थासमुद्भवः .. ७६..
    पुरुषाणां पुनश्चैव वेषान्वक्ष्यामि तत्त्वतः .
    तत्राङ्करचना पूर्वं कर्तव्या नाट्ययोक्तृभिः .. ७७..
    ततः परं प्रयोक्तव्या वेषा देशसमुद्भवाः .
    सितो नीलश्च पीतश्च चतुर्थो रक्त एव च .. ७८..
    एते स्वभावजा वर्णा यैः कार्यं त्वङ्गवर्तनम् .
    संयोगजाः पुनश्चान्ये उपवर्णा भवन्ति हि ..७९..
    तानहं सम्प्रवक्ष्यामि यथाकार्यं प्रयोक्तृभिः .
    सितनीलसमायोगे कारण्डव इति स्मृतः .. ८०..
    सितपीतसामायोगात्पाण्डुवर्णः प्रकीर्तितः .
    सितिअरक्तसमायोगे पद्मवर्णः प्रकीर्तितः .. ८१..
    पीतनीलसमायोगाद्धरितो नाम जायते .
    नीलरक्तसमायोगात्कषायो नाम जायते .. ८२..
    रक्तपीतसमायोगाद्गौरवर्ण इति स्मृतः .
    एते संयोगजा वर्णा ह्युपवर्णास्तथापरे .. ८३..
    त्रिचतुर्वर्णसंयुक्ता बहवः संप्रकीर्तिताः .
    बलस्थो यो भवेद्वर्णस्तस्य भागो भवेत्ततः .. ८४..
    दुर्बलस्य च भागौ द्वौ नीलं मुक्त्वा प्रदापयेत् .
    नीलस्यैको भवेद्भाअगश्चत्वारोऽन्ये तु वर्णके .. ८५..
    बलवान्सर्ववर्णानां नील एव प्रकीर्तितः .
    एवं वर्णविधिं ज्ञात्वा नानासंयोगसंश्रयम् .. ८६..
    ततः कुर्याद्यथायोगमङ्गानां वर्तनं बुधः .
    वर्तनच्छादनं रूपं स्ववेषपरिवर्जितम् .. ८७..
    नाट्यधर्मप्रवृत्तं तु ज्ञेयं तत्प्रकृतिस्थितम् .
    स्ववर्णमात्मनश्छाद्यं वर्णकैर्वेषसंश्रयैः .. ८८..
    आकृतिस्तस्य कर्तव्या यस्य प्रकृतिरास्थिता .
    यथा जन्तुः स्वभावं स्वं परित्यज्यान्यदैहिकम् ..८९..
    तत्स्वभावं हि भजते देहान्तरमुपाश्रितः .
    वेषेण वर्णकैश्चैव च्छादितः पुरुषस्तथा .. ९०..
    परभावं प्रकुरुते यस्य वेषं समाश्रितः .
    देवदानवगन्धर्वयक्षराक्षसपन्नगाः .. ९१..
    प्राणिसंज्ञाः स्मृता ह्येते जीवबन्धाश्च येऽपरे .
    [स्त्रीभावाः पर्वताः नद्यः समुद्रा वाहनानि च .. ९२..
    नानाशस्त्राण्यपि तथा विज्ञेयाः प्राणिसंज्ञया].
    शैलप्रासादयन्त्राणि चर्मवर्मध्वजास्तथा .. ९३..
    नानाप्रहरणाद्याश्च तेऽप्राणिन इति स्मृताः .
    अथवा कारणोपेता भवन्त्येते शरीरिणः .. ९४..
    वेषभाषाश्रयोपेता नाट्यधर्ममवेक्ष्य तु .
    वर्णानां तु विधिं ज्ञात्वा वयः प्रकृतिमेव च .. ९५..
    कुर्यादङ्गस्य रचनां देशजातिवयःश्रितताम् .
    देवा गौरास्तु विज्ञेया यक्षाश्चाप्सरस्तथा .. ९६..
    रुद्रार्कद्रुहिणस्कन्दास्तपनीयप्रभाः स्मृताः .
    सोमो बृहस्पतिः शुक्रो वरुणस्तारकागणाः .. ९७..
    समुद्रहिमवद्गङ्गाः श्वेता हि स्युर्बलस्तथा .
    रक्तमङ्गारकं विद्यात् पीतौ बुधहुताशनौ .. ९८..
    नारायणो नरश्चैव श्यामो नागश्च वासुकिः .
    दैत्याश्च दानवाश्चैव राक्षसा गुह्यका नगाः .. ९९..
    पिशाचा जलमाकाशमसितानि तु वर्णतः .
    भवन्ति षट्सु द्वीपेषु पुरुषश्चैव वर्णतः .. १००..
    कर्तव्या नाट्ययोगेन निष्टप्तकनकप्रभाः .
    जाम्बूद्वीपस्य वर्षे तु नानावर्णाश्रया नराः .. १०१..
    उत्तरांस्तु कुरुस्त्यक्त्वा ते चापि कनकप्रभाः .
    भद्राश्वपुरुषाः श्वेताः कर्तव्या वर्णतस्तथा .. १०२..
    केतुमाले नरा नीला गौराः शेषेषु कीर्तिताः .
    नानावर्णाः स्मृता भूता गन्धर्वा यक्षपन्नगाः .. १०३..
    विद्याधरास्तथा चैव पितरस्तु समा नराः .
    पुनश्च भारते वर्षे तांस्तान्वर्णान्निबोधत .. १०४..
    राजानः पद्मवर्णास्तु गौराः श्यामास्तथैव च .
    ये चापि सुखिनो मर्त्या गौरा कार्यास्तु वैः बुधैः .. १०५..
    कुकर्मिणो ग्रहग्रस्ताः व्याधितास्तपसि स्थिताः .
    आयस्तकर्मिणश्चैव ह्यसिताश्च कुजातयः .. १०६..
    ऋष्ययश्चैव कर्तव्या नित्यं तु बदरप्रभाः .
    तपःस्थिताश्च ऋषयो नित्यामेवासिता बुधैः .. १०७..
    कारणव्यपदेशेन तथा चात्मेच्छया पुनः .
    वर्णस्तत्र प्रकर्तव्यो देशजतिवशानुगः .. १०८..
    देशं कर्म च जातिं च पृथिव्युद्देशसंश्रयम् .
    विज्ञाय वर्तना कार्या पुरुषाणां प्रयोगतः .. १०९..
    किरातबर्बरान्ध्राश्च द्रविडाः काशिकोसलाः .
    पुलिन्दा दाक्षिणात्याश्च प्रायेण त्वसिताः स्मृताः .. ११०..
    शकाश्च यवनाश्चैव पह्लवा वाह्लिकाश्च ये .
    प्रायेण गौराः कर्तव्या उत्तरा ये श्रिता दिशम् .. १११..
    पाञ्चालाः शौरसेनाश्च माहिषाश्चौड्रमागधाः .
    अङ्गा वङ्गाः कलिङ्गाश्च श्यामाः कार्यास्तु वर्णतः .. ११२..
    ब्राह्मणाः क्षत्रियाश्चैव गौराः कार्यास्तथैव हि .
    वैश्याः शूद्रास्तथा चैव श्यामाः कार्यास्तु वर्णतः .. ११३..
    एवं कृत्वा यथान्यायं मुखाङ्गोपाङ्गवर्तनाम् .
    श्मश्रुकर्म प्रयुञ्जीत देशकालवयोऽनुगम् ..११४..
    शुद्धं विचित्रं श्यामं च तथा रोमशमेव च .
    भवेच्चतुर्विधं श्मश्रु नानावस्थान्तरात्मकम् .. ११५..
    शुद्धं तु लिङ्गिनां कार्यं तथामात्यपुरोधसाम् .
    मध्यस्था ये च पुरुषा ये च दीक्षां समाश्रिताः .. ११६..
    दिव्या ये पुरुषाः केचित्सिद्धविद्याधरादयः .
    पार्थिवाश्च कुमाराश्च ये च राजोपजीविनः .. ११७..
    शृङ्गारिणश्च ये मर्त्या यौवनोन्मादिनश्च ये .
    तेषां विचित्रं कर्तव्यं श्मश्रु नाट्यप्रयोक्तृभिः .. ११८..
    अनिस्तीर्णप्रतिज्ञानां दुःखितानां तपस्विनाम् .
    व्यसनाभिहतानां च श्यामं श्मश्रु प्रयोजयेत् .. ११९..
    ऋषीणां तापसानां च ये च दीर्घव्रता नराः .
    तथा च चीरबद्धानां रोमशं श्मश्रु कीर्तितम् .. १२०..
    एवं नानाप्रकारं तु श्मश्रु कार्यं प्रयोक्तृभिः .
    अत ऊर्ध्वं प्रवक्ष्यामि वेषान्नानाप्रयोगजान् .. १२१..
    शुद्धो विचित्रो मलिनस्त्रिविधो वेष उच्यते .
    तेषां नियोगं वक्ष्यामि यथावदनुपूर्वशः .. १२२..
    देवाभिगमने चैव मङ्गले नियमस्थिते .
    तिथिनक्षत्रयोगे च विवाहकरणे तथा .. १२३..
    धर्मप्रवृत्तं यत्कर्म स्त्रियो वा पुरुषस्य वा .
    वेषस्तेषां भवेच्छुद्धो ये च प्रायत्निका नराः .. १२४..
    देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् .
    नृपाणां कर्कशानां च चित्रो वेष उदाहृतः .. १२५..
    वृद्धानां ब्राह्मणानां च श्रेष्ठ्यमात्यपुरोधसाम् .
    वणिजां काञ्चुकीयानां तथा चैव तपस्विनाम् .. १२६..
    विप्रक्षेत्रियवैश्यानां स्थानीया ये च मानवाः .
    शुद्धो वस्त्रविधिस्तेषां कर्तव्यो नाटकाश्रयः .. १२७..
    उन्मत्तानां प्रमत्तानामध्वगानां तथैव च .
    व्यसनोपहतानां च मलिनो वेष उच्यते .. १२८..
    शुद्धरक्तविचित्राणि वासांस्यूर्ध्वाम्बराणि च .
    योजयेन्नाट्यतत्त्वज्ञो वेषयोः शुद्धचित्रयोः .. १२९..
    कुर्याद्वेषे तु मलिने मलिनं तु विचक्षणः .
    मुनिनिर्ग्रन्थशाक्येषु यतिपाशुपतेषु च .. १३०..
    व्रतानुगस्तु कर्तव्यो वेषो लोकस्वभावतः .
    चीरवल्कलचर्माणि तापसानां तु योजयेत् .. १३१..
    परिवाण्मुनिष्क्यानां वासः काषायमिष्यते .
    नानाचित्राणि वासांसि कुर्यात्पाशुपतेष्वथ .. १३२..
    कुजातयश्च ये प्रोक्तास्तेषां चैव यथार्हतः .
    अन्तःपुरप्रवेशे च विनियुक्ता हि ये नराः .. १३३..
    काषायकञ्चुकपटाः कार्यास्तेऽपि यथाविधि .
    अवस्थानतरतश्चैव नृणां वेषो भवेदथ .. १३४..
    वेषः सांग्रामिकश्चैव शूराणां संप्रकीर्तितः .
    विचित्रशस्त्रकवचो बद्धतूणो धनुर्धरः .. १३५..
    चित्रो वेषस्तु कर्तव्यो नृपाणां नित्यमेव च .
    केवलस्तु भवेच्छुद्धो नक्षत्रोत्पातमङ्गले .. १३६..
    एवमेष भवेद्वेषो देशजातिवयोऽनुगः .
    उत्तमाधममध्यानां स्त्रीणां नृणामथापि च .. १३७..
    एवं वस्त्रविधिः कार्यः प्रयोगे नाटकाश्रये .
    नानावस्थां समासाद्य शुभाशुभकृतस्तथा .. १३८..
    तथा प्रतिशिरश्चापि कर्तव्यं नाटकाश्रयम् .
    दिव्यानां मानुषाणां च देशजातिवयःश्रितम् .. १३९..
    पार्श्वागता मस्तकिनस्तथा चैव किरीटिनः .
    त्रिविधो मुकुटो ज्ञेयो दिव्यपार्थिवसंश्रितः .. १४०..
    देवगन्धर्वयक्षाणां पन्नगानां सरक्षसाम् .
    कर्तव्या नैकविहिअत मुकुटाः पार्श्वमौलयः .. १४१..
    उत्तमा ये च दिव्यानां ते च कार्याः किरीटिनः .
    मध्यमा मौलिनश्चैव कनिष्ठाः षिर्षमौलिनः .. १४२..
    नराधिपानां कर्तव्या मस्तके मुकुटा बुधैः .
    विद्याधराणां च सिद्धानां चारणानां तथैव च .. १४३..
    ग्रन्थिमत्केशमुकुटाः कर्तव्यास्तु प्रयोक्तृभिः .
    राक्षोदानवदैत्यानां पिङ्गकेशेक्षणानि हि .. १४४..
    हरिच्छ्श्मश्रूणि च तथा मुकुटास्यानि कारयेत् .
    उत्तमश्चापि ये तत्र ते कार्याः पार्श्वमौलिनः .. १४५..
    कस्मात्तु मुकुटाः सृष्टाः प्रयोगे दिव्य्पार्थिवे .
    केशानां छेदनं दृष्टं वेदवादे यथाश्रुति .. १४६..
    भद्रीकृतस्य वा यज्ञे शिरसश्छादनेच्छया .
    केशानामप्यदीर्घत्वात्स्मृतं मुकुटधारणम् .. १४७..
    सेनापतेः पुनश्चापि युवराजस्य चैव हि .
    योजयेदर्धमुकुटं महामात्राश्च ये नराः .. १४८..
    अमात्यानां कञ्चुकिनां तथा श्रेष्ठिपुरोधसाम् .
    वेष्टनाबद्धपट्टानि प्रतिशीर्षाणि कारयेत् .. १४९..
    पिशाचोन्मत्तभूतानां साधकानां तपस्विनाम् .
    अनिस्तीर्णप्रतिज्ञानां लम्बकेशं भवेच्छिरः .. १५०..
    शाक्यश्रोत्रियनिर्ग्रन्थपरिव्राड्दीक्षितेषु च .
    शिरोमुण्डं तु कर्तव्यं यज्ञदीक्षान्वितेषु च .. १५१..
    तथा व्रतानुगं चैव शेषानां लिङ्गिनां शिरः .
    मुण्डं वा कुञ्चितं वापि लम्बकेशमथापि वा .. १५२..
    धूर्तानां चैव कर्तव्यं ये च रात्र्युपजीविनः .
    शृङ्गारचित्ताः पुरुषास्तेषां कुञ्चितमूर्धजाः .. १५३..
    बालानामपि कर्तव्यं त्रिशिखण्डविभूषितम् .
    जटामकुटबद्धं च मुनीनां तु भवेच्छिरः .. १५४..
    चेटानामपि कर्तव्यं त्रिशिखं मुण्डमेव वा .
    विदूषकस्य खलतिः स्यात्काकपदमेव वा .. १५५..
    शेएषाणामर्थयोगेन देशजातिसमाश्रयम् .
    शिरः प्रयोक्तृभिः कार्यं नानावस्थान्तराश्रयम् .. १५६..
    भूषणैर्वर्णकैर्वस्त्रैर्माल्यैश्चैव यथाविधि .
    एवं नानाप्रकारैस्तु बुद्ध्या वेषान्प्रकल्पयेत् .. १५७..
    पूर्वं तु प्रकृतिं स्थाप्य प्रयोगगुणसंभवाम् .
    स्त्रीणां वा पुरुषाणां वाप्यवस्थां प्राप्य तादृशीम् ..
    १५८..
    सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः .
    तेषां चानिमिषत्वादि नैव कार्यं प्रयोक्तृभिः .. १५९..
    इह भावरसाश्चैव दृष्टिभिः संप्रतिष्ठिताः .
    दृष्ट्यैव स्थापितो ह्यर्थः पश्चादङ्गैर्विभाव्यते .. १६०..
    एवं ज्ञेएयाङ्गरचना नानाप्रकृतिसंभवा .
    सजीव इति यः प्रोक्तस्तस्य वक्ष्यामि लक्षणम् .. १६१..
    यः प्राणिनां प्रवेशो वै सजीव इति संज्ञितः .
    चतुष्पदोऽथ द्विपदस्तथा चैवापदः स्मृतः .. १६२..
    उरगानपदान् विद्याद् द्विपदान्खगमानुषान् .
    ग्राम्या आरण्याः पशवो विज्ञेयाः स्युश्चतुष्पदाः .. १६३..
    ये ते तु यद्धसंफेटैरुपरोधैस्तथैव च .
    नानाप्रहरणोपेताः प्रयोज्या नाटके बुधैः .. १६४..
    आयुधानि च कार्याणि पुरुषाणां प्रमाणतः .
    तान्यहं वर्तयिष्यामि यथापुस्तप्रमाणतः .. १६५..
    भिण्डिर्द्वादशतालः स्याद्दश कुन्तो भवेदथ .
    अष्टौ शतघ्नी शूलं च तोमरः शक्तिरेव वा .. १६६..
    अष्टौ ताला धनुर्ज्ञेयमायामोऽस्य द्विहस्तकः .
    शरो गदा च वज्रा च चतुस्तालं विधीयते .. १६७..
    अङ्गुलानि त्वसिः कार्यश्चत्वारिंशत्प्रमाणतः .
    द्वादशाङ्गुलकं चक्रं ततोऽर्धं प्रास इष्यते .. १६८..
    प्रासवत्पट्टसं विद्याद्दण्डश्चैव तु विंशतिः .
    विंशतिः कणयश्चैव ह्यङ्गुलानि प्रमाणतः .. १६९..
    शोडषाङ्गुलविस्तीर्णं सबलं संप्रघण्टिकम् .
    त्रिंशदङ्गुलिमानेन कर्तव्यं खेटकं बुधैः .. १७०..
    जर्जरो दण्डकाष्ठं च तथैव प्रतिशीर्षकम् .
    छत्रं चामरं चैव ध्वजो शृङ्गार एव च .. १७१..
    यत्किञ्चिन्मानुषे लोके द्रव्यं पुंसां प्रयोजकम् .
    यच्चोपकरणं सर्वे नाट्ये तत्संप्रकीर्तितम् .. १७२..
    यद्यस्य विषयप्राप्तं तेनोह्यं तस्य लक्षणम् .
    जर्जरे दण्डकाष्ठे च संप्रवक्ष्यामि लक्षणम् .. १७३..
    माहेन्द्रा वै ध्वजाज़् प्रोक्ता लक्षणैर्विश्वकर्मणा .
    एषान्यतमं कुर्याज्जर्जरं दारुकर्मतः .. १७४..
    अथवा वृक्षयोनिः स्यात्प्ररोहो वापि जर्जरः .
    वेणुरेव भवेच्छ्रेष्ठस्तस्य वक्ष्यामि लक्षणम् ..१७५..
    श्वेतभूम्याआअं तु यो जातः पुष्यनक्षत्रजस्तथा .
    संग्राह्यो वै भवेद्वेणुर्जर्जरार्थे प्रयत्नतः .. १७६..
    प्रमाणमङ्गुलानां तु शतमष्टोत्तर<ं भवेत् .
    पञ्चपर्वा चतुर्ग्रन्थिस्तालमात्रस्तथैव च .. १७७..
    स्थूलग्रन्थिर्न कर्तव्यो न शाखी न च कीटवान् .
    न कृमिक्षतपर्वा च न हीनश्चान्यवेणुभिः .. १७८..
    मधुसर्पिस्सर्षपाक्तं माल्यधूपपुरस्कृतम् .
    उपास्य विधिवद्वेणुं गृह्णियाज्जर्जरं प्रति .. १७९..
    यो विधिर्यः क्रमश्चैव माहेब्द्रे तु ध्वजे स्मृतः .
    स जर्जरस्य कर्तव्यः पुष्यवेणुसमाश्रयः .. १८०..
    भवेद्यो दीर्घपर्वा तु तनुपत्रस्तथैव च .
    पर्वाग्रतण्डुलश्चैव पुष्यवेणुः स कीर्तितः .. १८१..
    विधिरेष मया प्रोक्तो जर्जरस्य प्रमाणतज़ः .
    अत ऊर्ध्वं प्रवक्ष्यामि दण्डकाष्ठस्य लक्षणम् .. १८२..
    कपित्थबिल्ववंशेभ्यो दण्डकाष्ठं भवेदथ .
    वक्रं चैव हि कर्तव्यं त्रिभागे लक्षणान्वितम् .. १८३..
    कीटैर्नोपहतं यच्च व्याधिना न च पीडितम् .
    मन्दशाखं भवेद्यच्च दण्डकाष्ठं तु तद्भवेत् ..१८४..
    यस्त्वेभिर्लक्षणैर्हीनं दण्डकाष्ठं सजर्जरम् .
    कारयेत्स त्वपचयं महान्तं प्राप्नुयाद्ध्रुवम् .. १८५..
    अथ शीर्षविभागार्थं घटी कार्या प्रयत्नतः .
    स्वप्रमाणविनिर्दिष्टा द्वात्रिंशत्यङ्गुलानि वै .. १८६..
    बिल्वमध्येन कर्तव्या घटी सिरसमाश्रया .
    स्विन्नेन बिल्वकल्केन द्रवेण च समन्विता .. १८७..
    भस्मना वा तुषैर्वापि कारयेत्प्रतिशीर्षकम् .
    संछाद्य तु ततो वस्त्रैर्बिल्वदुग्धैर्घटाश्रयैः .. १८८..
    बिल्वकल्केन चीरं तु दिग्ध्वा संयोजयेद्घटीम् .
    न स्थूलां नानतां तन्वीं दीर्घां नैव च कारयेत्. .. १८९..
    तस्यामातपशुष्कायां सुशुष्कायामथापि वा .
    छेद्यं बुधाः प्रकुर्वन्ति विधिदृष्टेन कर्मणा .. १९०..
    सुतीक्ष्णेन तु शस्त्रेण अर्धार्धं प्रविभज्य च .
    स्वप्रमाणविनिर्दिष्टं ललाटकृतकोणकम् .. १९१..
    अर्धाङ्गुलं ललाटं तु कार्यं छेद्यं षडङ्गुलम् .
    अर्धार्धमङ्गुलं छेद्यं कटयोर्द्व्यङ्गुलं भवेत् .. १९२..
    कटान्ते कर्णनालस्य छेद्यं द्व्यधिकमङ्गुलम् .
    त्र्यङ्गुल.म् कर्णविवरं तथा स्याच्छेद्यमेव हि .. १९३..
    ततश्चैवावटुः कार्या सुसमा द्वादशाङ्गुला .
    घट्यां ह्येतत्सदा च्छेद्ये विधानं विहितं मया .. १९४..
    तस्योपरिगता कार्या मुकुटा बहुशिल्पजाः .
    नानारत्नप्रतिच्छन्ना बहुरूपोपशोभिताः .. १९४..
    तथोपकरणानीह नाट्ययोगकृतानि वै .
    बहुप्रकारयुक्तानि कुर्वीत प्रकृतिं प्रति .. १९६..
    यत्किञ्चिदस्मिन् लोके तु चराचरसमन्विते .
    विहितं कर्म शिल्पं वा तत्तूपकरणं स्मृतम् ..१९७..
    यद्यस्य विषयं प्राप्तं तत्तदेवाभिगच्छति .
    नास्तन्तः पुरुषाणां हि नाट्योपकरणाश्रये .. १९८..
    यद्येनोत्पादितं कर्म शिल्पयोगक्रियापि वा .
    तस्य तेन कृता सृष्टिः प्रमाणं लक्षणं तथा .. १९९..
    या काष्ठयन्त्रभूयिष्ठा कृता सृष्टिर्महात्मना .
    न सास्माकं नाट्ययोगे कस्मात्खेदावहा हि सा .. २००..
    यद्द्रव्यं जीवलोके तु नानालक्षणलक्षितम् .
    तस्यानुकृतिसंस्थानं नाट्योओपकरणं भवेत् .. २०१..
    प्रासादगृहयानानि नानाप्रहरणानि च .
    न शक्यं तानि वै कर्तुं यथोक्तानीह लक्षणैः .. २०२..
    लोकधर्मी भवेत्त्वन्या नाट्यधर्मी तथापरा .
    स्वभावो लोकधर्मी तु विभावो नाट्यमेव हि .. २०३..
    आयसं न तु कर्तव्यं न च सारमयं तथा .
    नाट्योपकरणं तज्ज्ञैर्गुरुखेदकर< भवेत् .. २०४..
    काष्ठचर्मसु वस्त्र्षु जतुवेणुदलेषु च .
    नाट्योपकरणानीह लघुकर्माणि कारयेत् .. २०५..
    चर्मवर्मध्वजाः शैलाः प्रासादा देवतागृहाः .
    हयवारणयानानि विमानानि गृहाणि च .. २०६..
    पूर्वं वेणुदलैः कृत्वा कृतीर्भावसमाश्रयाः .
    ततः सुरङ्गैरच्छाद्य वस्त्रैः सारूप्यमानयेत् .. २०७..
    अथवा यदि वस्त्राणामसान्निध्यं भवेदिह .
    तालीयैर्वा किलिञ्जैर्वा श्लक्ष्णैर्वस्त्रक्रिया भवेत् .. २०८..
    तथा प्रहरणानि स्युस्तृणवेणुदलादिभिः .
    जन्तुभाण्डक्रियाभिश्च नानारूपाणि नाटके .. २०९..
    प्रतिपादं प्रतिशिरः प्रतिहस्तं प्रतित्वचम् .
    तृणैः किलिञ्जैर्भाण्डैर्वा सारूप्याणि तु कारयेत् .. २१०..
    यद्यस्य सदृशं रूपं सारूप्यगुणसंभवम् .
    मृण्मयं तत्तु कृत्स्नं तु नानारूपं तु कारयेत् ..२११..
    भाण्डवस्त्रमधूच्छिष्टैर्लाक्षयाभ्रदलेन च .
    नागास्ते विविधाः कार्या ह्यतसीशणबिल्वजैः .. २१२..
    नानाकुसुमजातीश्च फलानि विविधानि च .
    भाण्डवस्त्रमधूच्छिष्टैर्लाक्षया वापि कारयेत् ..२१३..
    भाण्डवस्त्रमधूच्छिष्टैस्ताम्रपत्रैस्तथैव च .
    सम्यक्च नीलीरागेणाप्यभ्रपत्रेण चैव हि .. २१४..
    रञ्जितेनाभ्रपत्रेण मणीश्चैव प्रकारयेत् .
    उपाश्रयमथाप्येषं शुल्बवङ्गेन कारयेत् .. २१५..
    विविधा मुकुटा दिवा पूर्वं ये गदिता मया .
    तेऽभ्रपत्रोज्वलाः कार्या मणीव्यालोपशोभिताः .. २१६..
    न शास्त्रप्रभवं कर्म तेषा.म् हि समुदाहृतम् .
    आचार्यबुद्ध्या कर्तव्यमूहापोहप्रयोजितम् .. २१७..
    एष मर्त्यक्रियायोगो भविष्यत्कल्पितो मया .
    कस्मादल्पबलत्वं हि मनुष्येषु भविष्यति .. २१८..
    मर्त्यानामपि नो शक्या विभावाः सर्वकाञ्चनाः .
    नेष्टाः सुवर्णरत्नैस्तु मुकुटा भूषणानि वा .. २१९..
    युद्धे नियुद्धे नृत्ते वा वृष्टिव्यापारकर्मणि .
    गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते .. २२०..
    स्वेदमूर्छाक्लमार्तस्य प्रयोगस्तु विनश्यति .
    प्राणात्ययः कदाचिच्च भवेद्व्यायतचेष्टया .. २२१..
    तस्मात्ताम्रमयैः पत्रैरभ्रकै रञ्जितैरपि .
    भेण्डैरपि मधूच्छिष्टैः कार्याण्याभरणानि तु .. २२२..
    एवं लोकोपचारेण स्वबुद्धिविभवेन च .
    नाट्योपकरणानीह बुधः सम्यक् प्रयोजयेत् .. २२३..
    न भेद्यं नैव च च्छेद्यं न प्रहर्तव्यमेव च .
    रङ्गे प्रहरणैः कार्यं संज्ञामात्रं तु कारयेत् ..२२४..
    अथवा योगशिक्षाभिर्विद्यामायाकृतेन वा .
    शस्त्रमोक्षः प्रकर्तव्यो रङ्गमध्ये प्रयोक्तृभिः .. २२५..
    एवं नानाप्रकारैस्तु आयुधाभरणानि च .
    नोक्तानि यानि च मया लोकाद् ग्राह्याणि तान्यपि .. २२६..
    आहार्याभिनयो ह्येष मया प्रोक्तः समासतः .
    अत ऊर्ध्वं प्रवक्ष्यामि सामान्याभिनयं प्रति .. २२७..
    इति भारतीये नाट्यशास्त्रे आहार्याभिनयो नामैकविंशोऽध्यायः .

    Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com

कोई टिप्पणी नहीं: