.. नाट्यशास्त्रम् अध्याय २२ ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ द्वाविंशोऽध्यायः .
सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः .
तत्र कार्यः प्रयत्नस्तु नाट्यं सत्त्वे प्रतिष्ठितम् .. १..
सत्त्वातिरिक्तोऽभिनयो ज्येष्ठ इत्यभिधीयते .
समसत्त्वो भवेन्मध्यः सत्वहीनोऽधमः स्मृतः .. २..
अव्यक्तरूपं सत्त्वं हि विज्ञेयं भावसंश्रयम् .
यथास्थानरसोपेतं रोमाञ्चास्रादिभिर्गुणैः .. ३..
अलङ्कारास्तु नाट्यज्ञैर्ज्ञेया भावरसाश्रयाः .
यौवनेऽभ्यधिकाः स्त्रीणा विकारा वक्त्रगात्रजाः .. ४..
आदौ त्रयोऽङ्गजस्तेषां दश स्वाभाविकाः परे .
अयत्नजाः पुनः सप्त रसभावोपबृंहिताः .. ५..
देहात्मकं भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः .
भावात्समुत्थितो हावो हावाद्धेला समुत्थिता .. ६..
हेला हावश्च भावश्च परस्परसमुत्थिताः .
सत्त्वभेदे भवन्त्येते शरीरे प्रकृतिस्थिताः .. ७..
वागङ्गमुखरागैश्च सत्त्वेनाभिनयेन च .
कवेरन्तर्गतं भावं भावयन्भाव उच्यते .. ८..
[भावस्यातिकृतं सत्त्वं व्यतिरिक्त.म् स्वयोनिषु .
नैकावस्थान्तरकृतं भावं तमिह निर्दिशेत्].. ९..
तत्राक्षिभ्रूविकाराढ्यः शृङ्गाराकारसूचकः .
सग्रीवारेचको ज्ञेयो हावः स्थितसमुत्थितः .. १०..
यो वै हावः स एवैषा शृङ्गाररससंभवा .
समाख्याता बुधैर्हेला ललिताभिनयात्मिका .. ११..
लीला विलासो विच्छित्तिर्विभ्रमः किलिकिञ्चितम् .
मोट्टायितं कुट्टिमितं बिब्बोको ललितं तथा .. १२..
विहृतं चेति विज्ञेया दश स्त्रीणां स्वभावजाः .
पुनरेषां स्वरूपाणि प्रवक्ष्यामि पृथक्पृथक् .. १३..
वागङ्गालङ्कारैः शिष्टैः प्रीतिप्रयोजितैर्मधुरैः .
इष्टजनस्यानुकृतिर्लीला ज्ञेया प्रयोगज्ञैः .. १४..
स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव .
उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् .. १५..
माल्याच्छादनभूषण विलेपनानामनादरन्यासः .
स्वल्पोऽपि परां शोभां जनयति यस्मात्तु विच्छितिः .. १६..
विविधानामर्थानां वागङ्गाहार्यसत्त्वानाम् .
मदरागहर्षजनितो व्यत्यासो विभ्रमो ज्ञेयः .. १७..
स्मितरुदितहसितभयहर्षगर्वदुःखश्रमाभिलाषाणाम्.
सङ्करकरणं हर्षादसकृत् किलिकिञ्चितं ज्ञेयम् .. १८..
इष्टजनस्य कथायां लीलाहेलादिदर्शने वापि .
तद्भावभावनाकृतमुक्तं मोट्टायितं नाम .. १९..
केशस्तनधरादिग्रहणादतिहर्षसंभ्रमोत्पन्नम् .
कुट्टमितं विज्ञेअयं सुखमपि दुःखोपचारेण .. २०...
इष्टानां भावानां प्राप्तावभिमानगर्वसंभूतः .
स्त्रीणामनादरकृतो बिब्बोको नाम विज्ञेयः .. २१..
हस्तपादाङ्गविन्यासो भ्रूनेत्रोष्ठप्रयोजितः .
सौकुमार्याद्भवेद्यस्तु ललितं तत्प्रकीर्तितम् .. २२..
[करचरणाङ्गन्यासः सभ्रूनेत्रोष्ठसंप्रयुक्तस्तु .
सुकुमारविधानेन स्त्रीभिउरितीदं स्मृतं ललितम्].. २३..
वाक्यानां प्रीतियुक्तानां प्राप्तानां यदभाषणम् .
व्याजात्स्वभावतो वापि विहृतं नाम तद्भवेत् .. २४..
[प्राप्तानामपि वचसां क्रियते यदभाषणं ह्रिया स्त्रीभिः .
व्याजात्स्वभावतो वाप्येतत्समुदाहृतं विहृतम्]..२५..
शोभा कान्तिश्च दीप्तिश्च तथा माधुर्यमेव च .
धैर्यं प्रागल्भ्यमौदार्यमित्येते स्युरयत्नजाः .. २६..
रूपयौवनलावण्यैरुपभोगोपबृंहितैः .
अलङ्करणमङ्गानां शोभेति परिकीर्तिता.. २७..
विज्ञेया च तथा कान्तिः शोभैवापूर्णमन्मथा .
कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते .. २८..
सर्वावस्थाविशेषेषु दीप्तेषु ललितेषु च .
अनुल्बणत्वं चेष्टाया माधुर्यमिति संज्ञितम् .. २९..
चापलेनानुपहता सर्वार्थेष्वविकत्थना .
स्वाभाविकी चित्तवृत्तिर्धैर्यमित्यभिधीयते .. ३०..
प्रयोगनिस्साध्वसता प्रागल्भ्यं समुदाहृतम् .
औदार्यं प्रश्रयः प्रोक्तः सर्वावस्थानुगो बुधैः .. ३१..
सुकुमारे भवन्त्येते प्रयोगे ललितात्मिके .
विलासललिते हित्वा दीप्तेऽप्येते भवन्ति हि .. ३२..
शोभा विलासो माधुर्यं स्थैर्यं गाम्भीर्यमेव च .
ललितौदार्यतेजांसि सत्त्वभेदास्तु पौरुषाः .. ३३..
दाक्ष्यं शौर्यमथोत्साहो नीचार्थेषु जुगुप्सनम् .
उत्तमैश्च गुणैः स्पर्धा यतः शोभेति सा स्मृता .. ३४..
धीरसंचारिणी दृष्टिर्गतिर्गोवृषभाञ्चिता .
स्मितपूर्वमथालापो विलास इति कीर्तितः .. ३५..
अभ्यासत्करणानां तु श्लिष्टत्वं यत्र जायते .
महत्स्वपि विकारेषु तन्माधुर्यमिति स्मृतम् .. ३६..
धर्र्मार्थकामसंयुक्ताच्छुभाशुभसमुत्थितात् .
व्यवसायादचलनं स्थैर्यमित्यभिसंज्ञितम् .. ३७..
यस्य प्रभावादाकारा हर्षक्रोधभयादिषु .
भावेषु नोपलक्ष्यन्ते तद्गाम्भीर्यमिति स्मृतम् .. ३८..
अबुद्धिपूर्वकं यत्तु निर्विकारस्वभाजम् .
शृङ्गाराकारचेष्टत्वं ललितं तदुदाहृतम् .. ३९..
दानमभ्युपपत्तिश्च तथा च प्रियभाषणम् .
स्वजने च परे वापि तदौदार्यं प्रकीर्तितम् .. ४०..
अधिक्षेपावमानादेः प्रयुक्तस्य परेण यत् .
प्राणत्ययेऽप्यसहनं तत्तेजः समुदाहृतम् .. ४१..
सत्त्वजोऽभिनयोः पूर्वं मया प्रोक्तओ द्विजोत्तमाः .
शारीरं चाप्याभिनयं व्याख्यास्याम्यनुपूर्वशः .. ४२..
षडात्मकस्तु शारीरो वाक्यं सूचाङ्कुरस्तथा .
शाखा नाट्यायितं चैव निवृत्त्यङ्कुर एव च .. ४३..
नानारसार्थयुक्तैर्वृत्तनिबन्धैः कृतः सचूर्णपदैः .
प्राकृतसंस्कृतपाठो वाक्याभिनयो बुधैर्ज्ञेयः .. ४४..
वाक्यर्थो वाक्यं वा सत्त्वाङ्गैः सूच्यते यदा पूर्वम् .
पश्चाद्वाक्याभिनयः सूचेत्यभिसंज्ञिता सा तु .. ४५..
हृदयस्थो निर्वचनैरङ्गाभिनयः कृतो निपुणसाध्यः .
सूचैवोत्पत्तिकृतो विज्ञेयस्त्वङ्कुराभिनयः .. ४६..
यत्तु शिरोमुखजङ्घोरुपाणिपादैर्यथाक्रमं क्रियते .
शाखादर्शनमार्गः शाखाभिनयः स विज्ञेयः .. ४७..
नाट्यायितमुपचारैर्यः क्रियतेऽभिनयसूचया नाट्ये .
कालप्रकर्षहेतोः प्रवेशकैः संगमो यावत् .. ४८..
स्थाने ध्रुवास्वभिनयो यः क्रियते हर्षशोकरोषाद्यैः .
भावरससंप्रयुक्तैर्ज्ञेयं नाट्यायितं तदपि .. ४९..
यत्रान्योक्तं वाक्यं सूचाभिनयेन योजयेदन्यः .
तत्संबन्धार्थकथं भवेन्निवृत्त्यङ्कुरः सोऽथ .. ५०..
एतेषां तु भवेन्मार्गो यथाभावरसान्वितः .
काव्यवस्तुषु निर्दिष्टो द्वादशाभिनयात्मकः .. ५१..
आलापश्च प्रलापश्च विलापः स्यात्तथैव च .
अनुलापोऽथ संलापस्त्वपलापस्तथैव च .. ५२..
सन्देशाश्चातिदेशश्च निर्देशः स्यात्तथापरः .
उपदेशोऽपदेशश्च व्यपदेशश्च कीर्तितः .. ५३..
आभाषणं तु यद्वाक्यमालापो नाम स स्मृतः .
अनर्थकं वचो यत्तु प्रलापः स तु कीर्तितः .. ५४..
करुणप्रभवो यस्तु विलापः स तु कीर्तितः .
बहुशोऽभिहितं वाक्यमनुलाप इति स्मृतः .. ५५..
उक्तिप्रत्युक्तिसंयुक्तः संलाप इति कीर्तितः .
पूर्वोक्तस्यान्यथावादो ह्यपलाप इति स्मृतः .. ५६..
तदिदं वचनं ब्रूहीत्येष सन्देश उच्यते .
यत्त्वयोक्तं मयोक्तं तत्सोऽतिदेश इति स्मृतः .. ५७..
स एषोऽहं ब्रवीमीति निर्देश इति कीर्तितः .
व्याजान्तरेण कथनं व्यपदेश इहोच्यते .. ५८..
इदं कुरु गृहाणेति ह्युपदेशः प्रकीर्तितः .
अन्यार्थकथनं यत् स्यात् सोऽपदेशः प्रकीर्तितः .. ५९..
एते मार्गास्तु विज्ञेयाः सर्वाभिनययोजकाः .
सप्तप्रकारमेतेषां पुनर्वक्ष्यामि लक्षणम् .. ६०..
प्रत्यक्षश्च परोक्षश्च तथा कालकृतास्त्रयः .
आत्मस्थश्च परस्थश्च प्रकाराः सप्त एव तु .. ६१..
एषा ब्रवीमि नाहं भो वदामीति च यद्वचः .
प्रत्यक्षश्च परोक्षश्च वर्तमानश्च तद्भवेत् .. ६२..
अहं करोमि गच्छामि वदामि वचनं तव .
आत्मस्थो वर्तमानश्च प्रत्यक्षश्चैव स स्मृतः .. ६३..
करिष्यामि गमिष्यामि वदिष्यामीति यद्वचः .
आत्मस्थश्च परोक्षश्च भविष्यत्काल एव च .. ६४..
हता जिता च भग्नाश्च मया सर्वे द्विषद्गणाः .
आत्मस्थश्च परोक्षश्च वृत्तकालश्च स स्मृतः .. ६५..
[त्वया हत जिताश्चेति यो वदेन्नाट्यकर्मणि .
परोक्षश्च परस्थश्च वृत्तकालस्तथैव च .. ६६..
एष ब्रवीमि कुरुते गच्छतीत्यादि यद्वचः .
परस्थो वर्तमानश्च (प्रत्यक्षश्च)भवेत्तथा .. ६७..
स गच्छति करोतीति वचनं यदुताहृतम् .
परस्थं वर्तमानं च परोक्षं चैव तद्भवेत् .. ६८..
करिष्यन्ति गमिष्यन्ति वदिष्यन्तीति यद्वचः .
परस्थमेष्यत्कालं च परोक्षं चैव तद्भवेत्].. ६९..
हस्तमन्तरतः कृत्वा यद्वदेन्नाट्यकर्मणि .
आत्मस्थं हृदयस्थं च परोक्षं चैव तन्मतम् .. ७०..
परेषामात्मनश्चैव कालस्य च विशेषणात् .
सप्तप्रकारस्यास्यैव भेदा ज्ञेया अनेकधा .. ७१..
एते प्रयोगा विज्ञेया मार्गाभिनययोजिताः .
एतेष्विह विनिष्पन्नो विविधोऽभिनयो भवेत् .. ७२..
शिरो हस्तकटीवक्षोजङ्घोरुकरणेषु तु .
समः कर्मविभागो यः सामान्याभिनयस्तु सः .. ७३..
ललितैर्हस्तसंचारस्तथा मृद्वङ्गचेष्टितैः .
अभिनेयस्तु नाट्यज्ञै रसभावसमन्वितैः .. ७४..
अनुद्धतमसंभ्रान्तमनाविद्धाङ्गचेष्टितम् .
लयतालकलापातप्रमाणनियतात्मकम् .. ७५..
सुविभक्तपदालापमनिष्ठुरमकाहलम् .
यदीदृशं भवेन्नाट्यं ज्ञेयमाभ्यन्तरं तु तत् .. ७६..
एतदेव विपर्यस्तं स्वच्छन्दगतिचेष्टितम् .
अनिबद्धगीतवाद्यं नाट्यं बाह्यमिति स्मृतम् .. ७७..
लक्षणाभ्यन्तरत्वाद्धि तदाभ्यन्तरमिष्यते .
शास्त्रबाह्यं भवेद्यत्तु तद्बाह्यमिति भण्यते .. ७८..
अनेन लक्ष्यते यस्मात् प्रयोगः कर्म चैव हि .
तस्माल्लक्षणमेतद्धि नाट्येऽस्मिन् संप्रयोजितम् .. ७९..
अनाचार्योषिता ये च ये च शास्त्रबहिष्कृताः .
बाह्यं प्रयुञ्जते ते तु अज्ञात्वाचार्यकीं क्रियाम् .. ८०..
शब्दं स्पर्शं च रूपं च रसं गन्धं तथैव च .
इन्द्रियानीइन्द्रियार्थांश्च भावैरभिनयेद्बुधः .. ८१..
कृत्वा साचीकृतां दृष्टिं शिरः पार्श्वनतं तथा .
तर्जनी कर्णदेशे च बुधः शब्दं विनिर्दिशेत् .. ८२..
किञ्चिदाकुञ्चिते नेत्रे कृत्वा भ्रूक्षेपमेव च .
तथांऽसगण्डयोः स्पर्शात् स्पर्शमेवं विनिर्दिशेत् .. ८३..
कृत्वा पताकौ मूर्धस्थौ किंचित्प्रचलिताननः .
निर्वर्णयन्त्या दृष्ट्या च रूपं त्वभिनयेद् बुधः .. ८४..
किञ्चिदाकुञ्चिते नेत्रे कृत्वोत्फुल्लां च नासिकाम् .
एकोच्छ्वासेन चेष्टौ तु रसगन्धौ विनिर्दिशेत् .. ८५..
पञ्चानामिन्द्रियार्थानां भावा ह्येतेऽनुभाविनः .
श्रोत्रत्वङ्नेत्रजिह्वानां घ्राणस्य च तथैव हि .. ८६..
इन्द्रियार्थाः समनसो भवन्ति ह्यनुभाविनः .
न वेत्ति ह्यमनाः किंचिद्विषयं पञ्चधागतम् .. ८७..
मनसस्त्रिविधो भावो विज्ञेयोऽभिनये बुधैः .
इष्टस्तथा ह्यनिष्टश्च मध्यस्थश्च तथैव हि .. ८८..
प्रह्लादनेन गात्रस्य तथा पुलकितेन च .
वदनस्य विकासेन कुर्यादिष्टनिदर्शनम् .. ८९..
इष्टे शब्दे तथा रूपे स्पर्शे गन्धे तथा रसे .
इन्द्रियैर्मनसा प्राप्तैः सौमुख्यं संप्रदर्शयेत् .. ९०..
परावृत्तेन शिरसा नेत्रनासाविकर्षणैः .
चक्षुषश्चाप्रदानेन ह्यनिष्टमभिनिर्दिशेत् .. ९१..
नातिहृष्टेन मनसा न चात्यर्थजुगुप्सया .
मध्यस्थनैव भावेन मध्यस्थमभिनिर्दिशेत् .. ९२..
तेनेदं तस्य वापीदं स एवं प्रकरोति वा .
परोक्षाभिनयो यस्तु मध्यस्थ इति स स्मृतः .. ९३..
आत्मानुभावी योऽर्थः स्यादात्मस्थ इति स स्मृतः .
परार्थवर्णना यत्र परस्थः स तु संज्ञितः .. ९४..
प्रायेण सर्वभावानां कामान्निष्पत्तिरिष्यते .
स चेच्छागुणसम्पन्नो बहुधा परिकल्पितः .. ९५..
धर्मकामोऽर्थकामश्च मोक्षकामस्तथैव च .
स्त्रीपुंसयोस्तु योगो यः स तु काम इति स्मृतः .. ९६..
सर्वस्यैव हि लोकस्य सुखदुःखनिबर्हणः .
भूयिष्ठं दृष्यते कामः स सुखं व्यसनेष्वपि .. ९७..
यः स्त्रीपुरुषसंयोगो रतिसंभोगकारकः .
स शृङ्गार इति ज्ञेय उपचारकृतः शुभः .. ९८..
भूयिष्ठमेव लोकोऽयं सुखमिच्छति सर्वदा .
सुखस्य हि स्त्रियो मूलं नाना शीलाश्चा ताः पुनः .. ९९..
देवदानवगन्धर्वरक्षोनागपतत्रिणाम् .
पिशाचयक्षव्यालानां नरवानरहस्तिनाम् .. १००..
मृगमीनोष्ट्रमकरखरसूकरवाजिनाम् .
महीषाजगवादीनां तुल्यशीलाः स्त्रियः स्मृताः .. १०१..
स्निग्धैरङ्गैरुपाङ्गैश्च स्थिरा मन्दनिमेषिणि .
अरोगा दीप्त्युपेता च दानसत्त्वार्जवान्विता .. १०२..
अल्पस्वेदा समरता स्वल्पभुक् सुरतप्रिया .
गन्धपुष्परता हृद्या देवशीलाङ्गना स्मृता .. १०३..
अधर्मशाठ्याभिरता स्थिरक्रोधातिनिष्ठुरा .
मद्यमांसप्रिअया नित्यं कोपना चातिमानिनी .. १०४..
चपला चातिलुब्धा च परुषा कलहप्रिया .
ईर्ष्याशीला चलस्नेहा चासुरं शीलमाश्रिता , , १०५..
क्रीडापरा चारुनेत्रा नखदन्तैः सुपुष्पितैः .
स्व~ङ्गी च स्थिरभाषी च मन्दापत्या रतिप्रिया .. १०६..
गीते वाद्ये च नृत्ते च रता हृष्टा मृजावती .
गन्धर्वसत्त्वा विज्ञेया स्निग्धत्वक्केशलोचना .. १०७..
बृहद्व्यायतसर्वाङ्गी रक्तविस्तीर्णलोचना .
खररोमा दिवास्वप्ननिरतात्युच्चभाषिणी .. १०८..
नखदन्तक्षतकरी क्रोधेर्ष्याकलहप्रिया .
निशाविहारशीला च राक्षसं शीलमाश्रिता .. १०९..
तीक्ष्णनासाग्रदशना सुतनुस्ताम्रलोचना .
नीलोत्पलसवर्णा च स्वप्नशीलाऽतिकोपना .. ११०..
तिर्यग्गतिश्चलारम्भा बहुश्वासातिमानिनी .
गन्धमाल्यासवरतानागसत्त्वाऽङ्गना स्मृता .. १११..
अत्यन्तव्यावृतास्या च तीक्ष्णशीला सरित्प्रिया .
सुरासवक्षीररता बह्वपत्या फलप्रिया .. ११२..
नित्यं श्वसनशीलाच तथोद्यानवनप्रिया .
चपला बहुवाक्छीघ्रा शाकुनं सत्त्वमाश्रिता .. ११३..
ऊनाधिकाङ्गुलिकरा रात्रौ निष्कुटचारिणि .
बालोद्वेजनशीला च पिशुना क्लिष्टभाषिणि ..११४..
सुरते कुत्सिताचारा रोमशाङ्गी महास्वना .
पिशाचसत्त्वा विज्ञेया मद्यमांसबलिप्रिया .. ११५..
स्वप्नप्रस्वेदनाङ्गी च स्थिरशय्यासनप्रिया .
मेधाविनी बुद्धिमती मद्यगन्धामिषप्रिया , , ११६, ,
चिरदृष्टेषु हर्षं च कृतज्ञत्वादुपैति सा .
अदीर्घशायिनी चैव यक्षशीलाऽङ्गना स्मृता .. ११७..
तुल्यमानावमाना या परुषत्वक् खरस्वरा .
शठानृतोद्धतकथा व्यालसत्त्वा च पिङ्गदृक् ..११८..
विभक्ताङ्गी कृतज्ञा च गुरुदेवद्विजप्रिया .
धर्मकामार्थनिरता ह्यहङ्काआअरविवर्जिता .
सुहृत्प्रिया सुशीला च मानुषं सत्त्वमाश्रिता .. १२०..
संहताल्पतनुर्हृष्टा पिङ्गरोमा छलप्रिया .
प्रगल्भा चपला तीक्ष्णा वृक्षारामवनप्रिया .. १२१..
स्वल्पमप्युपकारं तु नित्यं या बहुमन्यते .
प्रसह्यरतिशीला च वानरं सत्त्वमाश्रिता .. १२२..
महाहनुललाटा च शरीरोपचयान्विता .
पिङ्गाक्षी रोमशाङ्गी च गन्धमाल्यासवप्रिया .. १२३..
कोपना स्थिरचित्ता च जलोद्यानवनप्रिया .
मधुराभिरता चैव हस्तिसत्त्वा प्रकीर्तिता .. १२४..
स्वल्पोदरी भग्ननासा तनुजङ्घा वनप्रिया .
चलवीस्तीर्णनयना चपला शीघ्रगामिनी .. १२५..
दिवात्रासपरा नित्यं गीतवाद्यरतिप्रिया .
निवासस्थिरचित्ता च मृगसत्त्वा प्रकीर्तिता .. १२६..
दीर्घपीनोन्नतोरस्का चला नातिनिमेषिणी .
बहुभृत्या बहुसुता मत्स्यसत्त्वा जलप्रिया .. १२७..
लम्बोष्ठी स्वेदबहुला किञ्चिद्विकटगामिनी .
कृशोदरी पुष्पफललवणाम्लकटुप्रिया .. १२८..
उद्बन्धकटिपार्श्वा च खरनिष्ठुरभाषिणी .
अत्युन्नतकटीग्रीवा उष्ट्रसत्त्वाऽटवीप्रिया .. १२९..
स्थूलशीर्षाञ्चितग्रीवा दारितास्या महस्वना .
ज्ञेया मकरसत्त्वा च क्रूरा मत्स्यगुणैर्युता .. १३०..
स्थूलजिह्वोष्ठदशना रूक्षत्वक्कटुभाषिणी .
रतियुद्धकरी धृष्टा नखदन्तक्षतप्रिया .. १३१..
सपत्नीद्वेषिणी दक्षा चपला शीघ्रगामिनी .
सरोगा बह्वपत्या च खरसत्त्वा प्रकीर्तिता .. १३२..
दीर्घपृष्ठोदरमुखी रोमशाली बलान्विता .
सुसंक्षिप्तललाटा च कन्दमूलफलप्रिया .. १३३..
कृष्णा दंष्टोत्कटमुखी ह्रस्वोदरशिरोरुहा .
हीनाचारा बह्वपत्या सौकरं सत्त्वमाश्रिता .. १३४..
स्थिरा विभक्तपार्श्वोरुकटीपृष्ठशिरोधरा .
सुभगा दानशीला च ऋजुस्थूलशिरोरुहा .. १३५..
कृशा चञ्चलचित्ता च स्निग्धवाक्छीघ्रगामिनी .
कामक्रोधपरा चैव हयसत्त्वाङ्गना स्मृता .. १३६.
स्थूलपृष्ठाक्षिदशना तनुपार्श्वोदरा स्थिरा .
हरिरोमाञ्चिता रौद्री लोकद्विष्टा रतिप्रिया .. १३७...
किञ्चिदुन्नतवक्त्रा च जलक्रीडावनप्रिया .
बृहल्ललाटा सुश्रोणी माहिषं सत्त्वमाश्रिता .. १३८..
कृशा तनुभुजोरस्का निष्टब्धस्थिरलोचना .
संक्षिप्तपाणिपादा च सूक्ष्मरोमसमाचिता .. १३९..
भयशीला जलोद्विग्ना बह्वपत्या वनप्रिया .
चञ्चला शीघ्रगमना ह्यजसत्त्वा~ङ्गना स्मृता .. १४०..
उद्बन्धगात्रनयना विजृम्भणपरायणा .
दीर्घाल्पवदना स्वल्पपाणिपादविभूषिता .. १४१..
उच्चःस्वना स्वल्पनिद्रा क्रोधना सुकृतप्रिया .
हीनाचारा कृतज्ञा च श्वशीला परिकीर्तिता .. १४२..
पृथुपीनोओन्नतश्रोणी तनुजङ्घाअ सुहृत्प्रिया .
संक्षिप्तपाणिपादा च दृढारम्भा प्रजाहिता .. १४३..
पितृदेवार्चनरता सत्यशौचगुरुप्रिया .
स्थिरा परिक्लेशसहा गवां सत्त्वं समाश्रिता .. १४४..
नानाशीलाः स्त्रियो ज्ञेयाः स्वं स्वं सत्त्वं समाश्रिताः .
विज्ञाय च यथासत्त्वमुपसेवेत ताः पुनः .. १४५..
उपचारो यथासत्त्वं स्त्रीणामल्पोऽपि हर्षदः .
महानप्यन्यथायुक्तो नैव तुष्टिकरो भवेत् .. १४६..
यथा संप्रर्थितावाप्त्या रतिः समुपजायते .
स्त्रीपुंसयोश्च रत्यर्थमुपचारो विधीयते .. १४७..
धर्मार्थं हि तपश्चर्या सुखार्थं धर्म इष्यते .
सुखस्य मूलं प्रमदास्तासु सम्भोग इष्यते .. १४८..
कामोपभागो द्विविधो नाट्यधर्मेऽभिधीयते .
बाह्याभ्यन्तरतश्चैव नारीपुरुषसंश्रयः .. १४९..
आभ्यन्तरः पार्थिवानां स च कार्यस्तु नाटके .
बाह्यो वेश्यागतश्चैव स च प्रकरणे भवेत् .. १५०..
तत्र राजोपभोगं तु व्याख्यास्याम्यनुपूर्वशः .
उपचारविधिं सम्यक् कामतन्त्रसमुत्थितम् .. १५१..
त्रिविधा प्रकृतिः स्त्रीणां नानासत्त्वसमुद्भवा .
बाह्या चाभ्यन्तरा चैव स्याद्बाह्याभ्यन्तरापरा .. १५२..
कुलीनाभ्यन्तरा ज्ञेया बाह्या वेश्याङ्गना स्मृता .
कृतशौचा तु या नारी सा बाह्याभ्यन्तरा स्मृता .. १५३..
अन्तःपुरोपचारे तु कुलजा कन्यकापि वा .
न हि राजोपचारे तु बाह्यस्त्रीभोग इष्यते .. १५४..
आभ्यन्तरो भवेद्राज्ञो बाह्यो बाह्यजनस्य च .
दिव्यवेशाङ्गनानां हि राज्ञां भवति सङ्गमः .. १५५..
कुलजाकामितं यच्च तज्ज्ञेयं कन्यकास्वपि .
या चापि वेश्या साप्यत्र यथैव कुलजा तथा .. १५६..
इह कामसमुत्पतीर्नानाभावसमुद्भवा .
स्त्रीणां वा पुरुषाणां वा उत्तमाधममध्यमा .. १५७..
श्रवणाद्दर्शनाद्रूपादङ्गलीलाविचेष्टितैः .
मधुरैश्च समालापैः कामः समुपजायते .. १५८..
रूपगुणादिसमेतं कलादिविज्ञानयौवनोपेतम् .
दृष्ट्वा पुरुषविशेषं नारी मदनातुरा भवति .. १५९..
ततः कामयमानानां नृणां स्त्रीणामथापि च .
कामाभावेङ्गितानीह तज्ज्ञः समुपलक्षयेत् .. १६०..
ललिता चलपक्ष्मा च तथा च मुकुलेक्षणा .
स्रस्तोत्तरपुटा चैव काम्या दृष्टिर्भवेदिह .. १६१..
[वलितान्ता सलालित्यसंमितैर्व्यञ्जितैरस्तथा .
दृष्टिः सा ललिता नाम स्त्रीणामर्धावलोकने ..]१६१..
ईष्त्संरक्तगण्डस्तु सस्वेदलवचित्रितः .
प्रस्पन्दमानरोमाञ्चो मुखरागो भवेदिह .. १६३..
काम्येनाङ्गविकारेण सकटाक्षनिरीक्षितैः .
तथाभरणसंस्पर्शैः कर्णकण्डुयनैरपि .. १६४..
अङ्गुष्ठाग्रविलिखनैः स्तननाभिप्रदर्शनैः .
नखनिस्तोदनाच्चैव केशसंयमनादपि .. १६५..
वेश्यामेवंविधैर्भावैर्लक्षयेन्मदनातुराम् .
कुलजायास्तथा चैव प्रवक्ष्यामीङ्गितानि तु .. १६६..
प्रहसन्तीव नेत्राभ्यां प्रततं च निरीक्षते .
स्मयते सा निगूढं च वाचं चाधोमुखी वदेत् .. १६७..
स्मितोत्तरा मन्दवाक्या स्वेदाकारनिगूहनी .
प्रस्पन्दिताधरा चैव चकिता च कुलाङ्गना .. १६८..
एवंविधैः कामलिङ्गैरप्राप्तसुरतोत्सवा .
दशस्थानगतं कामं नानाभावैः प्रदर्शयेत् .. १६९..
प्रथमे त्वभिलाषः स्याद् द्वितीये चिन्तनं भवेत् .
अनुस्मृतिस्तृतीये तु चतुर्थे गुणकीर्तनम् .. १७०..
उद्वेगः पञ्चमे प्रोक्तो विलापः षष्ठ उच्यते .
उन्मादः सप्तमे ज्ञेयो भवेद्व्याधिस्तथाष्टमे .. १७१..
नवमे जडता चैव दशमे मरणं भवेत् .
स्त्रीपुंसयोरेष विधिर्लक्षणं च निबोधत .. १७२..
व्यवसायात्समारब्धः संकल्पेच्छासमुद्भवः .
समागमोपायकृतः सोऽभिलाषः प्रकीर्तितः .. १७३..
निर्याति विशति च मुहुः करोति चाकारमेव मदनस्य .
तिष्ठति च दर्शनपथे प्रथमस्थाने स्थिता कामे .. १७४..
केनोपायेन संप्राप्तिः कथं वासौ भवेन्मम .
दूतीनिवेदितैर्भावैरिति चिन्तां निदर्शयेत् .. १७५..
आकेकरार्धविप्रेक्षितानि वलयरशनापरामर्शः .
नीवीनाअभ्याः संस्पर्शनं च कार्यं द्वितीये तु .. १७६..
सुमुहुर्मुहुर्निःश्वसितैर्मनोरथविचिन्तनैः .
प्रद्वेषाच्चान्यकार्याणामनुस्मृतिरुदाहृता .. १७७..
नैवासने न शयने धृतिमुपलभते स्वकर्मणि विहस्ता .
तच्चिन्तोपगतत्वात् तृतीयमेव प्रयुञ्जीत .. १७८..
अङ्गप्रत्यङ्गलीलाभिर्वाक्चेष्टाहसितेक्षितैः .
नास्त्यन्यः सदृशस्तेनेत्येतत् स्याद् गुणकीर्तनम् .. १७९..
गुणकीर्तनोल्लुकसनैरश्रुस्वेदापमार्जनैश्चापि .
दूत्यविरहविस्रम्भैरभिनययोगश्चतुर्थे तु .. १८०..
आसने शयने चापि न तुष्यति न तिष्ठति .
नित्यमेवोत्सुका च स्यादुद्वेगस्थानमाश्रिता .. १८१..
चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च .
कुर्यात्तदेवमत्यन्तमुद्वेगाभिनयेन च .. १८२..
इह स्थित इहासीन इह चोपगतो मया .
इति तैस्तैर्विलपितैर्विलापं संप्रयोजयेत् .. १८३..
उद्विग्नात्यर्थमौत्सुक्यादधृत्या च विलापिनी .
ततस्ततश्च भ्रमति विलापस्थानमाश्रिता .. १८४..
तत्संश्रितां कथां युङ्क्ते सर्वावस्थागतापि हि .
पुंसः प्रद्वेष्टि चाप्यन्यानुन्मादः संप्रकीर्तितः .. १८५..
तिष्ठत्यनिमिषदृष्टिर्दीर्घं निःश्वसिति गच्छति ध्यानम् .
रोदिति विहारकाले नाट्यमिदं स्यात्तथोन्मादे .. १८६..
सामदानार्थसंभोगैः काम्यैः संप्रेषणैरपि .
सर्वैर्निराकृतैः पश्चाद् व्याधिः समुपजायते .. १८७..
मुह्यति हृदयं क्वापि प्रयाति शिरसश्च वेदना तीव्रा .
न धृतिं चाप्युपलभते ह्यष्टममेवं प्रयुञ्जीत .. १८८..
पृष्टा न किञ्चित् प्रब्रते न शृणोति न पश्यति .
हाकष्टवाक्या तूष्णीका जडतायां गतस्मृतिः .. १८९..
अकाण्डे दत्तहुंकारा तथा प्रशिथिलाङ्गिका .
श्वासग्रस्तानना चैव जडताभिनये भवेत् .. १९०..
सर्वैः कृतैः प्रतीकारैर्यदी नास्ति समागमः .
कामाग्निना प्रदीप्ताया जायते मरणं ततः .. १९१..
एवं स्थानानि कार्याणि कामतन्त्रं समीक्ष्य तु .
अप्राप्तौ यानि कामस्य वर्जयित्वा तु नैधनम् .. १९२..
विविधैः पुरुषोऽप्येवं विप्रलम्भसमुद्भवैः .
भावैरेतानि कामस्य नानारूपाणि योजयेत्. .. १९३..
एवं कामयमानानां स्त्रीणा नृणामथापि वा .
सामान्यगुणयोगेन युञ्जीताभिनयं बुधः .. १९४..
चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च .
तथानुगमन्नाच्चापि तथैवाध्वनिरीक्षणात् .. १९५..
आकाशवीक्षणाच्चापि तथा दीनप्रभाषणात् .
स्पर्शनान्मोटनाच्चापि तथा सापाश्रयाश्रयात् .. १९६..
एभिर्नानाश्रयोत्पन्नैर्विप्रलम्भसमुद्भवैः .
कामस्थानानि सर्वाणि भूयिष्ठं सम्प्रयोजयेत् .. १९७..
स्रजो भूषणगन्धांश्च गृहाण्युपवनानि च .
कामाग्निना दह्यमानः शीतलानि निषेवते .. १९८..
प्रदह्यमानः कामार्तो बहुस्थानसमर्दितः .
प्रेषयेत्कामतो दूतीमात्मावस्थाप्रदर्शिनीम् ..१९९..
सन्देशं चैव दूत्यास्तु प्रदद्यान्मदनाश्रयम् .
तस्येयं समवस्थेति कथयेद्विनयेन सा .. २००..
अथावेदितभावार्थो रत्युपायं विचिन्तयेत् .
अयं विधिर्विधानज्ञैः कार्यः प्रच्छन्नकामिते .. २०१..
विधिं राजोपचारस्य पुनर्वक्ष्यामि तत्त्वतः .
अभ्यन्तरगतं सम्यक् कामतन्त्रसमुत्थितम् .. २०२..
सुखदुःखकृतान् भावान् नानाशीलसमुत्थितान् .
यान्यान् प्रकुरुते राजा तान्स्तान् लोकानुवर्तते .. २०३..
न दुर्लभाः पार्थिवानां स्त्र्यर्थमाज्ञाकृताः गुणाः .
दाक्षिण्यात्तु समुद्भूतः कामो रतिकरो भवेत् .. २०४..
बहुमानेन देवीनां वल्लभानां भयेन च .
प्रच्छन्नकामितं राज्ञा कार्यं परिजनं प्रति .. २०५..
यद्यप्यस्ति नरेन्द्राणां कामतन्त्रमनेकधा .
प्रच्छन्नाकामितं यत्तु तद्वै रतिकरं भवेत् .. २०६..
यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते .
दुर्लभत्वं च यन्नार्याः सा कामस्य परा रतिः .. २०७..
राज्ञामन्तःपुरजने दिवासम्भोग इष्यते .
वासोअपचारो यश्चैअषां स रात्रौ परिकीर्तितः .. २०८..
परिपाट्यां फलार्थे वा नवे प्रसव एव वा .
दुःखे चैव प्रमोदे च षडेते वासकाः स्मृताः .. २०९..
उचिते वासके स्त्रीनामृतुकालेऽपि वा नृपैः .
प्रेष्याणामथवेष्टानां कार्यं चैवोपसर्पणम् .२१०..
तत्र वासकसज्जा च विरहोत्कण्ठितापि वा .
स्वाधीनभर्तृका चापि कलहान्तरितापि वा .. २११..
खण्डिता विप्रलब्धा वा तथा प्रोषितभर्तृका .
तथाभिसारिका चैव ज्ञेयास्त्वष्टौ तु नयिकाः .. २१२..
उचिते वासकए या तु रतिसंभोगलालसा .
मण्डनं कुरुते हृष्टा सा वै वासकसज्जिका .. २१३..
अनेककार्यव्यासङ्गाद्यस्या नागच्छति प्रियः .
तदनागतदुःखार्ता विरहोत्कण्ठिता तु सा .. २१४..
सुरतातिरसैर्बद्धो यस्याः पार्श्वे तु नायकः .
सान्द्रामोदगुणप्राप्ता भवेत् स्वाधीनभर्तृका .. २१५..
ईर्ष्याकलहनिष्क्रान्तो यस्या नागच्छति प्रियः .
सामर्षवशसंप्राप्ता कलहान्तरिता भवेत् .. २१६..
व्यासङ्गादुचिते यस्या वासके नागतः प्रियः .
तदनागमदुःखार्ता खण्डिता सा प्रकीर्तिता .. २१७..
यस्या दूतीं प्रियः प्रेष्य दत्त्वा संकेतमेव वा .
नागतः कारणेनेह विप्रलब्धा तु सा भवेत् .. २१८..
नानाकार्याणि सन्धाय यस्या वै प्रोषितः प्रियः .
सारूढालककेशान्ता भवेत् प्रोषितभर्तृका .. २१९..
हित्वा लज्जां तु या श्लिष्टा मदेन मदनेन च .
अभिसारयते कान्तं सा भवेदभिसारिका .. २२०..
आस्ववस्थासु विज्ञेया नायिका नाटकाश्रया .
एतासां चैव वक्ष्यामि कामतन्त्रमनेकधा .. २२१..
चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च .
सखीभिः सह संलापैरात्मावस्थावलोकनैः .. २२२..
ग्लानिदैन्याश्रुपातैश्च रोषस्यागमनेन च .
निर्भूषणमृजात्वेन दुःखेन रुदितेन च .. २२३..
खण्डिता विप्रलब्धा वा कलहान्तरितापि वा .
तथा प्रोषितकान्ता च भावानेतान् प्रयोजयेत् .. २२४..
विचित्रोज्ज्वलवेषा तु प्रमोदोद्योतिताअनना .
उदीर्णशोभा च तथा कार्या स्वाधीनभर्तृका .. २२५..
वेश्यायाः कुलजायायाश्च प्रेष्यायाश्च प्रयोक्तृभिः .
एभिर्भावविशेषैस्तु कर्तव्यमभिसारणम् .. २२६..
समदा मृदुचेष्टा च तथा परिजनावृता .
नानाभरणचित्राङ्गी गच्छेद्वेश्याङ्गना शनैः .. २२७..
संलीना स्वेषु गात्रेषु त्रस्ता विनमितानना .
अवकुण्ठनसंविता हच्छेत्तु कुलजाङ्गना .. २२८..
मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना .
आविद्धगतिसंचारा गच्छेत्प्रेष्या समुद्धतम् .. २२९..
गत्वा सा चेद्यदा तत्र पश्येत्सुप्तं प्रियं तदा .
अनेन तूपचारेण तस्य कुर्यात्प्रबोधनम् .. २३०..
अलङ्कारेण कुलजा वेश्या गन्धैस्तु शीतलैः .
प्रेष्या तु वस्त्रव्यजनैः कुर्वीत प्रतिबोधनम् .. २३१..
कुलाङ्गनानामेवायं नोक्तः कामाश्रयो विधिः .
सर्वावस्थानुभाव्यं हि यस्माद्भवति नाटकम् .. २३२..
नवकामप्रवृत्ताया क्रुद्धाया वा समागमे .
सापदेशैरुपायैस्तु वासकं संप्रयोजयेत् .. २३३..
नानालङ्करवस्त्राणि गन्धमाल्यानि चैव हि .
प्रिययोजितभुक्तानि निषेवेत मुदान्वितः .. २३४..
न तथा भवति मनुष्यो मदनवशः कामिनीमलभमानः .
द्विगुणोपजातहर्षो भवति यथ सङ्गतः प्रियया .. २३५..
विलासभावेङ्गितवाक्यलीलामाधुर्यविस्तारगुणोपपन्नः .
परस्परप्रेमनिरीक्षितेन समागमः कामकृतस्तु कार्यः .. २३६..
ततः प्रवृत्ते मदने उपचारसमुद्भवे .
वासोपचारः कर्तव्यो नायकागमनं प्रति .. २३७..
गन्धमाल्ये गृहीत्वा तु चूर्णवासस्तथैव च .
आदर्शो लीलया गृह्यश्छन्दतो वा पुनः पुनः .. २३८..
वासोपचारे नात्यर्थं भूषणग्रहणं भवेत् .
रशनानूपुरप्रायं स्वनवच्च प्रशस्यते .. २३९..
नाम्बरग्रहणं रङ्गे न स्नानं न विलेपनम् .
नाञ्जनं नाङ्गरागश्च केशसंयमनं तथा .. १४०..
नाप्रावृत्ता नैकवस्त्रा न रागमधरस्य तु .
उत्तमा मध्यमा वापि कुर्वीत प्रमदा क्वचित् .. २४१..
अधमानां भवेदेष सर्व एव विधिः सदा .
कारणान्तरमासाद्य तस्मादपि न कारयेत् .. २४२..
प्रेष्यादीनां च नारीणां नराणां वापि नाटके .
भूषणग्रहणं कार्यं पुष्पग्रहणमेव च .. २४३..
गृहीतमण्डना चापि प्रतीक्षेत प्रियागमम् .
लीलया मण्डितं वेषं कुर्याद्यन्न विरुध्यते .. २४४..
विधिवद्वासकं कुर्यान्नायिका नायकागमे .
प्रतीक्षमाणा च ततो नालिकाशब्दमादिशेत् .. २४५..
श्रुत्वा तु नालिकाशब्दं नायकागमविक्लवा .
विषण्णा वेपमाना च गच्छेत्तोरणमेव च .. २४६..
तोरणं वामहस्तेन कवाटं दक्षिणेन च .
गृहीत्वा तोरणाश्लिष्टा संप्रतीक्षेत नायकम् .. २४७..
शङ्कां चिन्तां भयं चैव प्रकुर्यात्तोरणाश्रिता .
अदृष्ट्वा रमणं नारी विषण्णा च क्षणं भवेत् .. २४८..
दीर्घं चैव विनिःश्वस्य नयनाम्बु निपातयेत् .
सन्नं च हृदयं कृत्वा विसृजेतदङ्गमासने .. २४९..
व्याक्षेपाद्विमृशेच्चापि नायकागमनं प्रति .
तैस्तैर्विचारणोपायैः शुभाशुभसमुत्थितैः .. २५०..
गुरुकार्येण मित्रैर्वा मन्त्रिणा राज्यचिन्तया .
अनुबद्धः प्रियं किं नु वृतो वल्लभयापि वा .. २५१..
उत्पातान्निर्दिशेच्चापि शुभाशुभसमुत्थितान् .
निमितैरात्मसंस्थैस्तु स्फुरितैः स्पन्दिअतैस्तथा .. २५२..
शोभनेषु तु कार्येषु निमित्तं वामतः स्त्रियाः .
अनिष्टेष्वथ सर्वेषु निमित्तं दक्षिणं भवेत् .. २५३..
सव्यं नेत्रं ललाटं च भ्रूनासोष्ठं तथैव च .
उरुबाहुस्तनं चैव स्फुरेद्यदि समागमः .. २५४..
एतेषमन्यथाभावे दुर्निमित्तं विनिर्दिशेत् .
दर्शने दुर्निमित्तस्य मोहं गच्छेत्क्षणं ततः .. २५५..
अनागमे नायकस्य कार्यो गण्डाश्रयः करः .
भूषणे चाप्यवज्ञानं रोदनं च समाचरेत् .. २५६..
अथ चेच्छोभनं तत्स्यान्निमित्तं नायकागमे .
सूच्यो नायिकयासन्नो गन्धाघ्राणेन नायकः .. २५७..
दृष्ट्वा चोत्थाय संहृष्टा प्रत्युद्गच्छेद्यथाविधि .
ततः कान्तं निरीक्षेत प्रहर्षोत्फुल्ललोचना .. २५८..
सखीस्कन्धार्पितकरा कृत्वा स्थानकमायतम् .
दर्शयेत ततः कान्तं सचिह्नं सरसव्रणम् .. १५९..
यदि स्यादपराद्धस्तु कृतैस्तैस्तैरुपक्रमैः .
उपालम्भकृअतैर्वाक्यैरुपालभ्यस्तु नायकः .. २६०..
मानापमानसंमोहैरवहित्थभयक्रमैः .
वचनस्य समुत्पत्तिः स्त्रीणामीर्ष्याकृता भवेत् .. २६१..
विस्रंभस्नेहरागेषु सन्देहे प्रणये तथा .
परितोषे च घर्षे च दाक्षिण्याक्षेपविभ्रमे .. २६२..
धर्मार्थकामयोगेषु प्रच्छन्नवचनेषु च .
हास्ये कुतूहले चैव संभ्रमे व्यसने तथा .. २६३..
स्त्रीपुंसयोः क्रोधकृते पृथङ्मिश्रे तथापि वा .
अनाभाष्योऽपि संभाष्यः प्रिय एभिस्तु कारणैः .. २६४..
यत्र स्नेहो भवेत्तत्र हीर्ष्या मदनसंभवा .
चतस्रो योनयस्तस्याः कीर्त्यमाना निबोधत .. २६५..
वैमनस्यं व्यलीकं च विप्रियं मन्युरेव च .
एतेषां संप्रवक्ष्यामि लक्षणानि यथाक्रमम् .. २६६..
निद्राखेदालसगतिं सचिह्नं सरसव्रणम् .
एवविधं प्रियं दृष्ट्वा वैमनस्यं भवेत् स्त्रियाः .. २६७..
निद्राभ्यसूयितावेक्षणेन रोषप्रकम्पमानाङ्ग्या .
साध्विति सुष्ठ्विति वचनैः शोभत इत्येवमभिनेयम् .. २६८..
बहुधा वार्यमाणोऽपि यस्तस्मिन्नेव दृश्यते .
संघर्षमत्सरात्तत्र व्यलीकं जायते स्त्रियाः .. २६९..
कृत्वोरसि वामकरं दक्षिणहस्तं तथा विधुन्वन्त्या .
चरणविनिष्ठम्भेन च कार्योऽभिनयो व्यलीके तु .. २७०..
जीवन्त्या त्वयि जीवामि दासोऽहं त्वं च मे प्रिया .
उक्त्वैवं योऽन्यथा कुर्याद्विप्रियं तत्र जायते .. २७१..
दूतीलेखप्रतिवचनभेदनैः क्रोधहसितरुदितैश्च .
विप्रियकरणेऽभिनयः सशिरःकम्पैश्च कर्तव्यः .. २७२..
प्रतिपक्षसकाशात्तु यः सौभाग्यविकत्थनः .
उपसर्पेत् सचिन्ह्नस्तु मन्युस्तत्रोपजायते .. २७३..
वलयपरिवर्तनैरथ सुशिथलमुत्क्षेपेणेन रशनायाः .
मन्युस्त्वभिनेतव्यः सशङ्कितं बाष्पपूर्णाक्ष्या .. २७४..
दृष्ट्वा स्थितं प्रियतमं सशङ्कितं सापराधमतिलज्जम् .
ईर्ष्यावचनसमुत्थैः खेदयितव्यो ह्युपालम्भैः .. २७५..
न च निष्ठुरमभिभाष्यो न चाप्यतिक्रोधनस्तु परिहासः .
बाष्पोन्मिश्रैर्वचनैरात्मोपन्याससंयुक्तैः .. २७६..
मध्याङ्गुल्यङ्गुष्ठाग्रविच्यवात्पाणिनोरसि कृतेन .
उद्वर्तितनेत्रतया प्रततैरभिवीक्षणैश्चापि .. २७७..
कटिहस्तविवर्तनया विच्छिन्नतया तथाञ्जलेः करणात् .
मूर्धभ्रमणनिहञ्चितनिपातसंश्लेअष्णाच्चापि .. २७८..
अवहित्थवीक्षणाद्वा अङ्गुलिभङ्गेन तर्जनैललितैः .
एभिर्भावविशेषैरनुनयनेष्वभिनयः कार्यः .. २७९..
शोभसे साधु दृष्टोऽसि गच्छ त्वं किंं विलम्बसे .
मा मां स्प्राक्षीः प्रिया यत्र तत्र या ते हृदि स्थिता .. २८०..
गच्छेत्युक्त्वा परावृत्य विनिवृत्तान्तरेण तु .
केनचिद्वचनार्थेन प्रहर्षं योजयेत्पुनः .. २८१..
रभसग्रहणाच्चापि हस्ते वस्त्रे च मूर्धनि .
कार्यं प्रसादनं नार्या ह्यपराधं समीक्ष्य तु .. २८२..
हस्ते वस्त्रेऽथ केशान्ते नार्याप्यथ गृहीतया .
कान्तमेवोपसर्पन्त्या कर्तव्यं मोक्षणं शनैः .. २८३..
गृहीतायाथ केशान्ते हस्ते वस्त्रेऽथवा पुनः .
हुं मुञ्चेत्युपसर्पन्त्या वाच्यः स्पर्शालसं प्रियः .. २८४..
पादाग्रस्थितया नार्या किंचित्कुट्टमितोत्कटम् .
अश्वक्रान्तेन कर्तव्यं केशानां मोक्षणं शनैः .. २८५..
अमुच्यमाने केशान्ते संजातस्वेदलेशया .
हं हु मुञ्चापसर्पेति वाच्यः स्पर्शालसाङ्गया .. २८६..
गच्छेति रोषवाक्येन गत्वा प्रतिनिवृत्य च .
केनचिद्वचनार्थेन वाच्यं यास्यसि नेति च .. २८७..
विधूननेन हस्तेन हुंकारं संप्रयोजयेत् .
स चावधूनने कार्यः शपथैर्व्याज एव च .. २८८..
अक्ष्णोः संवरणे कार्यं पृष्ठतश्चोपगूहनम् .
नार्यास्त्वपहृते वस्त्रे दीपच्छादनमेव च .. २८९..
तावत् खेदयितव्यस्तु यावत्पादगतो भवेत् .
ततश्चरणयोर्याते कुर्याद्दूतीनिरीक्षणम् .. २९०..
उत्थाप्यालिङ्गयेच्चैव नायिका नायकं ततः .
रतिभोगगता हृष्टा शयनाभिमुखी व्रजेत् .. २९१..
एतद्गीतविधानेन सुकुमारेण योजयेत् .
यदा शृङ्गारसंयुक्तं रतिसम्भोगकारणम् .. २९२..
यदा चाकाशपुरुषपरस्थवचनाश्रयम् .
भवेत्काव्यं तदा ह्येष कर्तव्योऽभिनयः स्त्रिया .. २९३..
यदन्तपुरसम्बन्धं कार्यं भवति नाटके .
शृङ्गाररससंयुक्तं तत्राप्येष विधिर्भवेत्.. २९४..
न कार्यं शयनं रङ्गे नाट्यधर्मं विजानता .
केनचिद्वचनार्थेन अङ्कच्छेदो विधीयते .. २९५..
यद्वा शयीतार्थवशादेकाकी सहितोऽपि वा .
चुम्बनालिङ्गनं चैव तथ गुह्यं च यद्भवेत् .. २९६..
दन्तच्छेद्यं नखच्छेद्यं नीवीस्रंसनमेव च .
स्तनान्तरविमर्दं च रङ्गमध्ये न कारयेत् .. २९७..
भोजनं सलिलक्रीडा तथा लज्जाकरं च यत् .
एवंविधं भवेद्यद्यत्तत्तद्रङ्गे न कारयेत् .. २९८..
पितापुत्रस्नुषाश्वश्रूदृश्यं यस्मात्तु नाटकम् .
तस्मादेतानि सर्वाणि वर्जनीयानि यत्नतः .. २९९..
वाक्यैः सातिशयैः श्रव्यैर्मधुरैर्नातिनिष्ठुरैः .
हितोपदेशसंयुक्तैस्तज्ज्ञः कुर्यात्तु नाटकम् .. ३००..
एवमन्तःपुरकृतः कार्यस्त्वभिनयो बुधः .
समागमेऽथ नारीणां वाच्यानि मदनाश्रये .. ३०१..
प्रियेषु वचनानीह यानि तानि निबोधत .
प्रिअयः कान्तो विनीतश्च नाथः स्वाम्यथ जीवितम् .. ३०२..
नन्दनश्चेत्यभिप्रीते वचनानि भवन्ति हि .
दुःशीलोऽथ दुराचारः शठो वामो विकत्थनः .. ३०३..
निर्लज्जो निष्ठुरश्चैअव प्रियः क्रोधेऽभिधीयते .
यो विप्रियं न कुरुते न चायुक्तं प्रभाषते .. ३०४..
तथार्जवसमाचारः स प्रियस्त्वभिधीयते .
अन्यनारीसमुद्भूतं चिह्नं यस्य न दृष्यते .. ३०५..
अधरे वा शरीरे वा स कान्त इति भाष्यते .
संक्रुद्धेऽपि हि यो नार्या नोत्तरं प्रतिपद्यते .. ३०६..
परुषं वा न वदति विनीतः साऽभिधीयते .
हितैषी रक्षणे शक्तो न मानी न च मत्सरी .. ३०७..
सर्वकार्येष्वसंमूढः स नाथ इति संज्ञितः .
सामदानार्थसंभोगैस्तथा लालनपालनैः .. ३०८..
नारीं निषेवते यस्तु स स्वामीत्यभिधीयते .
नारीप्सितैरभिप्रायैर्निपुणं शयनक्रियाम् .. ३०९..
करोति यस्तु संभोगे स जीवितमिति स्मृतः .
कुलीनो धृतिमान्दक्षो दक्षिणो वाग्विशारदः .. ३१०..
श्लाघनीयः सखीमध्ये नन्दनः सोऽभिधीयते .
एते वचनविन्यासा रतिप्रीतिकराः स्मृताः .. ३११..
तथा चाप्रीतिवाक्यानि गदतो मे निबोधत .
निष्ठुरश्चाहिष्णुश्च मानि धृष्टो विकत्थनः .. ३१२..
अनवस्थितचित्तश्च दुःशील इति स स्मृतः .
ताडनं बन्धनं चापि यो विमृश्य समाचरेत् .. ३१३..
तथा परुषवाक्यश्च दुराचारः स तन्यते .
वाचैअव मधुरो यस्तु कर्मण नोपपादकः .. ३१४..
योषितः किञ्चिदप्यर्थं स शठः परिभाष्यते .
वार्यते यत्र यत्रार्थे तत्तदेव करोति यः .. ३१५..
विपरीतनिवेशी च स वाम इति संज्ञितः .
सरसव्रणचिह्नो यः स्त्रीसौभाग्यविकत्थनः .. ३१६..
अतिमानी तथा स्तब्धो विकत्थन इति स्मृतः .
वार्यमाणो दृढतरं यो नारीमुपसर्पति .. ३१७..
सचिह्नाः सापराधश्च स निर्लज्ज इति स्मृतः .
योऽपराद्धस्तु सहसा नारीं सेवितुमिच्छति .. ३१८..
अप्रसादनबुद्धिश्च निष्ठुरः सोऽभिधीयते .
एते वचनविन्यासाः प्रियाप्रियविभाषिताः .. ३१९..
नर्तकीसंश्रिताः कार्या बहवोऽन्येऽपि नाटके .
एष गीतविधाने तु सुकुमारे विधिर्भवेत् .. ३२०..
शृङ्गाररससंभूतो रतिसंभोगखेदनः .
यच्चैवाकाशपुरुषं परस्थवचनाश्रयम् .. ३२१..
शृङ्गार एवं वाच्यं स्यात्तत्राप्येष क्रमो भवेत् .
यद्वा पुरुसंबन्धं कार्यं भवति नाटके .. ३२२..
शृङ्गाररससंयुक्तं तत्राप्येष क्रमो भवेत् .
एवमन्तःपुरगतः प्रयोज्योऽभिनयो भवेत् .. ३२३..
दिव्याङ्गनानां तु विधिं व्याख्यास्यम्यनुपूर्वशः .
नित्यमेवोज्वलो वेषो नित्यं प्रमुदितं मनः .. ३२४..
नित्यमेव सुखः कालो देवानां ललिताश्रयः .
न चैर्ष्या नैव च क्रोधो नासूया न प्रसादनम् .. ३२५..
दिव्यानां दृष्यते पुंसां शृङ्गारे योषितां तथा .
ये भावा मानुषाणां स्युर्यदङ्गं यच्च चेष्टितम् ..३२६..
सर्वं तदेव कर्तव्यं दिव्यैर्मानुषसङ्गमे .
यदा मानुषसंभोगो दिव्यानां योषितां भवत् .. ३२७..
तदा सर्वाः प्रकर्तव्या ये भावा मानुषाश्रयाः .
शापभ्रंशात्तु दिव्यानां तथा चापत्यलिप्सया .. ३२८..
कार्यो मानुषसंयोगः शृङ्गाररससंश्रयः .
पुष्पैर्भूषणजैः शब्दैरदृश्यापि प्रलोभयेत् .. ३२९..
पुनः संदर्शनं दत्त्वा क्षणादन्तरिता भवेत् .
वस्त्राभरणमाल्याद्यैर्लेखसंप्रेषणैरपि .. ३३०..
ईदृशैरुपचारैस्तु समुन्माद्यस्तु नायकः .
उन्मादनात्समुद्भूतः कामो रतिकरो भवेत् .. ३३१..
स्वभावोपगतो यस्तु नासावत्यर्थभाविकः .
एवं राजोपचारो हि कर्तव्योऽभ्यन्तराश्रयः .. ३३२..
बाह्यमप्युपचारं तु प्रवक्ष्याम्यथ वैशिके .
इति भारतीये नाट्यशास्त्रे सामान्याभिनयो नामाध्यायो द्वाविंशः ..
Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com
यह ब्लॉग नाटक और रंगमंच को समर्पित है...कोशिश यही रहेगी ज्यादा से ज्यादा रंगमंच संदर्भित जानकारी संप्रेषित कि जा सकें...
गुरुवार, 7 अप्रैल 2011
नाट्यशास्त्रम् अध्याय २२
सदस्यता लें
टिप्पणियाँ भेजें (Atom)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें