गुरुवार, 7 अप्रैल 2011

नाट्यशास्त्र अध्याय ८


    .. नाट्यशास्त्रम् अध्याय ८ ..
    .. श्रीरस्तु ..
    भरतमुनिप्रणीतं नाट्यशास्त्रम्
    अष्टमोऽध्यायः

    ऋषयः ऊचुः .
    भावानां च रसाआं च समुत्थानं यथाक्रमम् .
    त्वत्प्रसादाच्छ्रुतं सर्वमिच्छामो वेदितुं पुनः ..१..
    नाट्ये कतिविधः कार्यः तज्ज्ञैरभिनयक्रमः .
    कतं वाभिनयो ह्येष कतिभेदस्तु कीर्तितः .. २..
    सर्वमेतद्यथातत्त्वं कथयस्व महामुने .
    यो यथाभिनयो यस्मिन् योक्तव्यः सिद्धिमिच्छता .. ३..
    तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः .
    प्रत्युवाच पुनर्वाक्यं चतुरोऽभिनयान् प्रति .. ४..
    अहं वः कथयिष्यामि निखिलेन तपोधनाः .
    यस्मादभिनयो ह्येष विधिवत् समुदाहृतम् .. ५..
    यदुक्तं चत्वारोऽभिनय इति तान् वर्णयिष्यामः . अत्राह --अभिनय इति कस्मात् . अत्रोच्यते --अभीत्युपसर्गः णीञ् इति प्रापणार्थको धातुः . अस्याभिनीत्येवं व्यवस्थितस्य एरजित्यच्प्रत्यत्ययान्तस्याभिनय इत्येवं रूपं सिद्धम् . एतच्च धात्वर्थानुवचनेनावधार्यं भवति .
    अत्र श्लोकौ --
    अभिपूर्वस्तु णीञ् धातुराभिमुख्यार्थनिर्णये .
    यस्मात्पदार्थान्नयति तस्मादभिनयः स्मृतः .. ६..
    विभावयति यस्माच्च नानार्थान् हि प्रयोगतः .
    शाखाङ्गोपाङ्गसंयुक्तस्तस्मादभिनयः स्मृतः .. ७..
    चतुर्विधश्चैव भवेन्नाट्यस्याभिनयो द्विजाः .
    अनेकभेदवाहूयं नाट्यं ह्यस्मिन् प्रतिष्ठितम् .. ८..
    आङ्गिको वाअचिकश्चैव ह्याहार्यः सात्त्विकस्तथा .
    ज्ञेयस्त्वभिनयो विप्राः चतुर्धा परिकल्पितः .. ९..
    सात्त्विकः पूर्वमुक्तस्तु भावैश्च सहितो मया .
    अङ्गाभिनयमेवादौ गदतो मे निबोधत .. १०..
    त्रिविधस्त्वाङ्गिको द्य्नेयः शारीरो मुखजस्तथा .
    तथा चेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः .. ११..
    शिरोहस्तकटीदक्षः पार्श्वपादसमन्वितः .
    अङ्गप्रत्यङ्गसंयुक्तः षडङ्गो नाट्यसंग्रहः .. १२..
    तस्य शिरोहस्तोरःपार्श्वकटीपादतः षडङ्गानि .
    नेत्रभ्रूनासाधरकपोलचिबुकान्युपाङ्गानि .. १३..
    अस्य शाखा च नृत्तं च तथैवाङ्कुर एव च .
    वस्तून्यभिनयस्येह विज्ञेयानि प्रयोक्तृभिः .. १४..
    आङ्गिकस्तु भवेच्छाखा ह्यङ्कुरः सूचना भवेत् .
    अङ्गहारविनिष्पन्नं नृत्तं तु करणाश्रयम् .. १५..
    मुखजेऽभिनये विप्रा!नानाभावरसाश्रये .
    शिरसः प्रथमं कर्म गदतो मे निबोधत .. १६..
    आकम्पितं कम्पितं च धूतं विधुतमेव च .
    परिवाहितमाधूतमवधूतं तथाञ्चितम् .. १७..
    निहञ्चितं परावृत्तमुत्क्षिप्तं चाप्यधोगतम् .
    लोलितं चैव विज्ञेयं त्रयोदशविधं शिरः .. १८..
    शनैराकम्पनादूर्ध्वमधश्चाकम्पितं भवेत् .
    द्रुतं तदेव बहुशः कम्पितं कम्पितं शिरः .. १९..
    ऋजुस्थितस्य चोर्ध्वाधः क्षेपादाकम्पितं भवेत् .
    बहुशश्चलितं यच्च तत्कम्पितमिहोच्यते .. २०..
    संज्ञोपदेशपृच्छासु स्वभावाभाषणे तथा .
    निर्देशावाहने चैव भवेदाकम्पितं शिरः .. २१..
    रोषे वितर्के विज्ञाने प्रतिज्ञानेऽथ तर्जने .
    प्रश्नातिशयवाक्येषु शिरः कम्पितमिष्यते .. २२..
    शिरसो रेचनं यत्तु शनैस्तद् धुतमिष्यते .
    द्रुतमारेचनादेतद्विधुतं तु भवेच्छिरः..२३..
    अनीप्सिते विषादे च विस्मये प्रत्ययं तथा .
    पार्श्वावलोकने शून्ये प्रतिषेधे धुतं शिरः .. २४..
    शीतग्रस्ते भयार्ते च त्रासिते ज्वरिते तथा .
    पीतमात्रे तथा मद्ये विधुतं तु भवेच्छिरः .. २५..
    पर्यायशः पार्श्वगतं शिरः स्यात् परिवाहितम् .
    आधूतमुच्यते तिर्यक् सकृदुद्वाहितं तु यत् .. २६..
    साधने विस्मये हर्षे स्मिते चामर्षिते तथा .
    विचारे विहृते चैव लीलायां परिवाहितम् .. २७..
    गर्वेच्छादर्शने चैव पार्श्वस्थोर्ध्वनिरीक्षणे
    आधुतं तु शिरो ज्ञेयमात्मसम्भावनादिषु .. २८..
    यदधः सकृदाक्षिप्तमवधूतं तु तच्छिरः .
    सन्देशावाहनालापसंज्ञादिषु नदिष्यते .. २९..
    किञ्चित् पार्श्वनतग्रीवं शिरो विज्ञेयमञ्चितम् .
    व्याधिते मूर्छिते मत्ते चिन्तायां हनुधारणम् .. ३०..
    उत्क्षिपांसावसक्तं यत्कुञ्चितभ्रूलतं शिरः .
    निहञ्चितं तु विज्ञेयं स्त्रीणामेतत् प्रयोजयेत् .. ३१..
    गर्वे माने विलासे च बिव्वोके किलकिञ्चिते .
    मोट्टायिते कुट्टमिते स्तम्भमाने निहञ्चितम् .. ३२..
    परावृत्तानुकरणात् परावृत्तमिहोच्यते .
    तत् स्यान्मुखापहरणे पृष्ठतः प्रेक्षणादिषु .. ३३..
    उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः .
    प्रांशुदिव्यास्त्रयोगेषु स्यादुत्क्षिप्तं प्रयोगतः .. ३४..
    अधोमुखं स्थितं चापि बुधाः प्राहुरधोगतम् .
    लज्जायां च प्रणामे च दुःखे चाधोगतं शिरः .. ३५..
    सर्वतो भ्रमणाच्चैव शिरः स्यात् परिलोलितम् .
    मूर्च्छाव्याधिमदावेशग्रहनिद्रादिषु स्मृतम् ..३६..
    ऋजुस्वभावसंस्थानं प्राकृतं तु स्वभावजम् .
    मंगल्याध्ययनध्यानस्वभावजयकर्मसु .. ३७..
    एभ्योऽन्ये बहवो भेदा लोकाभिनयसंश्रिताः .
    ते च लोकस्वभावेन प्रयोक्तव्या प्रयोक्तृभिः .. ३८..
    त्रयोदशविधं ह्येतच्छिरःकर्म मयोदितम् .
    अतः परं प्रवक्ष्यामि दृष्टीनामिह लक्षणम् .. ३९..
    कान्ता भयानका हास्या करुणा चाद्भुता तथा .
    रौद्रो वीरा च बीभत्सा विज्ञेया रसदृष्टयः .. ४०..
    स्निग्धा हृष्टा च दीना च क्रुद्धा दृप्ता भयान्विता .
    जुगुप्सिता विस्मिता च स्थायिभावेषु दृष्टयः .. ४१..
    शून्या च मलिना चैव श्रान्ता लज्जान्विता तथा .
    ग्लाना च शङ्किता चैव विषण्णा मुकुला तथा .. ४२..
    कुञ्चिता चाभितप्ता च जिह्मा सललिता तथा .
    वितर्कितार्धमुकुला विभ्रान्ता विलुप्ता तथा .. ४३..
    आकेकरा विकोशा च त्रस्ता च मदिरा तथा .
    षट्त्रिंशद् दृष्टयो ह्येता तासु नाट्यं प्रतिष्ठितम् .. ४४..
    अस्य दृष्टिविधानस्य नानाभावरसाश्रयम् .
    लक्षणं सम्प्रवक्ष्यमि यथाकर्म प्रयोगतः .. ४५..
    हर्षप्रसादजनिता कान्तात्यर्थं समन्यथा .
    सभ्रूक्षेपकटाक्षा च शृङ्गारे दृष्टिरिक्ष्यते .. ४६..
    प्रोद्वृत्तनिष्टब्धपुटा स्फुरदुद्वृत्ततारका .
    दृष्टिर्भयानाकात्यर्थं भीता ज्ञेया भयानके .. ४७..
    क्रमादाकुञ्चितपुटा विभ्रान्ताकुलतारका .
    हास्या दृष्टिस्तु कर्तव्या कुहकाभिनयं प्रति .. ४८..
    पतितोर्ध्वपुटा सास्रा मन्युमन्थरतारका .
    नासाग्रानुगता दृष्टिः करुणा करुणे रसे .. ४९..
    या त्वाकुञ्चितपक्ष्माग्रा साश्चर्योद्धत्ततारका .
    सौम्या विकसितान्ता च साद्भुता दृष्टिरद्भुते.. ५०
    क्रूरा रूक्षारुणोद्वृतनिष्टब्धपुटतारका .
    भ्रुकुटीकुटिला दृष्टिः रौद्रे रौद्री रसा स्मृता .. ५१..
    दीप्ता विकसिता क्षुब्धा गम्भीरा समतारका .
    उत्फुल्लमध्या दृष्टिस्तु वीरा वीररसाश्रया .. ५२..
    निकुञ्चितपुटापाङ्गा घूर्णोपप्लुततारका .
    संश्लिष्टस्थिरपक्ष्मा च बीभत्सा दृष्टिरिष्यते .. ५३..
    नासाग्रसक्ता निमिषा तथाधोभागचारिणी .
    आकेकरपुटा शान्ते शान्ता दृष्टिर्भवेदसौ .. ५४..
    रसजा दृष्टयो ह्येता विज्ञेया लक्षणान्विता .
    अतः परं प्रवक्ष्यामि स्थायिभावसमाश्रयाः .. ५५..
    व्याकोशमध्या मधुरा स्थितताराभिलाषिणी .
    सानन्दाश्रुप्लुता दृष्टिः स्निग्धेयं रतिभावजा .. ५६..
    चला हसितगर्भा च विशत्तारानिमेषिणी .
    किञ्चिदाकुञ्चिता दृष्टिः हृष्टा हासे प्रकीर्तिता .. ५७..
    अवस्रस्तोत्तरपुटा किञ्चित्सरंब्धतारका .
    मन्दसञ्चारिणी दीना सा शोके दृष्टिरिष्यते .. ५८..
    रूक्षा स्थिरोद्धतपुटा निष्टब्धोद्धृत्ततारका .
    कुटिला भ्रुकुटिर्दृष्टिः क्रुद्धा क्रोधे विधीयते .. ५९..
    संस्थिते तार्के यस्याः स्थिता विकसिता तथा .
    सत्त्वमुद्गिरती दृप्ता दृष्टिरुत्साहसंभवा .. ६०..
    विस्फारितोभयपुटा भयकम्पिततारका .
    निष्क्रान्तमध्या दृष्टिस्तु भयभावे भयान्विता .. ६१..
    संकोचितपुटाध्यामा दृष्टिर्मीलिततारका .
    पक्ष्मोद्देशात् समुद्विग्ना जुगुप्सायां जुगुप्सिता .. ६२..
    भृशमुद्वृत्ततारा च नष्टोभयपुटान्विता .
    समा विकसिता दृष्टिर्विस्मिता विस्मये स्मृता .. ६३..
    स्थायिभावाश्रया ह्येता विज्ञेयाः दृष्टयो बुधैः .
    संचारिणीनां दृष्टीनां सम्प्रवक्ष्यामि लक्षणम् .. ६४..
    समतारा समपुटा निष्कम्पा शून्यदर्शना .
    बाह्यार्थाग्राहिणी ध्यामा शून्या दृष्टिः प्रकीर्तिता .. ६५..
    प्रस्पन्दमानपक्ष्माग्रा नात्यर्थमुकुलैः पुटैः .
    मलिनान्ता च मलिना दृष्टिर्विस्मिततारका .. ६६..
    श्रमप्रम्लापितपुटा क्षामा कुञ्चितलोचना .
    सन्ना पतिततारा च श्रान्ता दृष्टिः प्रकीर्तिता .. ६७..
    किञ्चिदञ्चितपक्ष्माग्रा पतितोर्ध्वपुटा ह्रिया .
    त्रपाधोगततारा च दृष्टिर्लज्जान्विता तु सा .. ६८..
    म्लानभ्रुपुटपक्ष्मा या शिथिला मन्दचारिणी .
    क्रमप्रवृष्टतारा च ग्लाना दृष्टिस्तु सा स्मृता..६९..
    किञ्चिच्चला स्थिरा किञ्चिदुद्गता तिर्यगायता .
    गूढा चकिततारा च शङ्किता दृष्टिरिष्यते..७०..
    विषादविस्तीर्णपुटा पर्यस्तान्ता निमेषिणी .
    किञ्चिन्निष्टब्धतारा च कार्या दृष्टीर्विषादिनी .. ७१..
    स्फुरदाश्लिष्टपक्ष्माग्रा मुकुलोर्ध्वपुटाञ्चिता .
    सुखोन्मीलिततारा च मुकुला दृष्टिरिष्यते..७२..
    आनिकुञ्चितपक्ष्माग्रा पुटैराकुञ्चितैस्तथा .
    संनिकुञ्चिततारा च कुञ्चिता दृष्टिरिष्यते .. ७३..
    मन्दायमानतारा या पुटैः प्रचलितैस्तथा .
    सन्तापोपप्लुता दृष्टिरभितप्ता तु सव्यथा .. ७४..
    लम्बिताकुञ्चितपुटा शनैस्तिर्यङ् निरीक्षिणी .
    निगूढा गूढतारा च जिह्मा दृष्टिरुदाहृता .. ७५..
    मधुराकुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता .
    सममन्यविकारा च दृष्टिः सा ललिता स्मृता .. ७६..
    वितर्कोद्वर्तितपुटा तथैवोत्फुल्लतारका .
    अधोगतविचारा च दृष्टिरेषा वितर्किता..७७..
    अर्धव्याकोशपक्ष्मा च ह्लादार्धमुकुलैः पुटैः .
    स्मितार्शमुकुला दृष्टिः किञ्चिल्लुलिततारका .. ७८..
    अनवस्थिततारा च विभ्रान्ताकुलदर्शना .
    विस्तीर्णोत्फुल्लमध्या च विभ्रान्ता दृष्टिरुच्यते .. ७९..
    पुटौ प्रस्फुरितौ यस्य निष्टब्धौ पतितौ पुनः .
    विलुप्तोद्वृत्ततारा च दृष्टिरेषा तु विप्लुता .. ८०..
    आकुञ्चितपुटापाङ्गा सङ्गतार्धनिमेषिणी .
    मुहुर्व्यावृत्ततारा च दृष्टिराकेकरा स्मृता .. ८१..
    विकोशितोभयपुटा प्रोत्फुल्ला चानिमेषिणी .
    अनवस्थितसञ्चारा विकोशा दृष्टिरुच्यते .. ८२..
    त्रासोद्वृत्तपुटा या तु तथोत्कम्पिततारका .
    सन्त्रासोत्फुल्लमध्या च त्रस्ता दृष्टिरुदाहृता .. ८३..
    आघुर्णमानमध्या या क्षामान्ताञ्चितलोचना .
    दृष्टिर्विकसितापाङ्गा मदिरा तरुणे मदे .. ८४..
    किञ्चिदाकु~चितपुटा ह्यनवस्थिततारका .
    तथा चलितपक्ष्मा च दृष्टिर्मध्यमदे भवेत् .. ८५..
    सनिमेषानिमेषा च किञ्चिद् दर्शिततारका .
    अधोभागचरी दृष्टिरधमे तु मदे स्मृता .. ८६..
    इत्येवं लक्षिता ह्येता षटत्रिंशद् दृष्टयो मया .
    रसजा सहजाश्चासां विनियोगं निबोधत .. ८७..
    रसजास्स्तु रसेष्वेव स्थायिषु स्थायिदृष्टयः .
    शृणुत व्यभिचारिण्यः सञ्चारिषु यथास्थिताः .. ८८..
    शून्या दृष्टिस्तु चिन्तायां स्तम्भे चापि प्रकीर्तिता .
    निर्वेदे चापि मलिना वैवर्ण्ये च विधीयते .. ८९..
    श्रान्ता श्रमार्ते स्वेदे च लजायां ललिता तथा .
    अपस्मारे तथा व्याधौ ग्लान्यां ग्लाना विधीयते .. ९०..
    शङ्कायां शङ्किता ज्ञेया विषादार्थे विषादिनी .
    निद्रास्वप्नसुखार्थेषु मुकुला दृष्टिरिष्यते .. ९१..
    कुञ्चितासूयितानिष्टदुष्प्रेक्षाक्षिव्यथाषु च .
    अभितप्ता च निर्वेदे ह्यभिघाताभितापयोः .. ९२..
    जिह्मा दृष्टिरसूयायां जडतालस्ययोस्तथा .
    धृतौ हर्षे सललिता स्मृतौ तर्के च तर्किता .. ९३..
    आल्हादिष्वर्धमुकुला गन्धस्पर्शसुखादिषु .
    विभ्रान्ता दृष्टिरावेगे सम्भ्रमे विभ्रमे तथा .. ९४..
    विलुप्ता चपलोन्माददुःखार्तिमरणादिषु .
    आकेकरा दुरालोके विच्छेदप्रेअक्षितेषु च .. ९५..
    विबोधगर्वामर्शौग्र्यमतिषु स्याद्विकोशिता .
    त्रस्ता त्रासे भवेद् दृष्टिर्मदिरा च मदेष्विति .. ९६..
    षटत्रिंशद् दृष्टयो ह्येता यथावत् समुदाहृताः .
    रसजानां तु दृष्टीनां भावजानां तथैअव च .. ९७..
    तारापुटभ्रुवां कर्म गदतो मे निबोधत .
    भ्रमणं वलनं पातश्चलनं सम्प्रवेशनम् .. ९८..
    विवर्तनं समुद्वृत्तं निष्क्रामः प्राकृतं तथा .
    पुटान्तर्मण्डलावृत्तिस्तारयोर्भ्रमणं स्मृतम् .. ९९..
    वलनं गमनं त्र्यस्रं पातनं स्रस्तता तथा .
    चलनं कम्पनं ज्ञेयं प्रवेशोऽन्तःप्रवेशनम् .. १००..
    विवर्तनं कटाक्षस्तु समुद्वृत्तं समुन्नतिः .
    निष्क्रामो निर्गमः प्रोक्तः प्राकृतं तु स्वभावजम् .. १०१..
    अथैषां रसभावेषु विनियोगं निबोधत .
    भ्रमणं चलनोद्वृत्ते निष्क्रामो वीररौद्रयोः .. १०२..
    निष्क्रामणं संवलनं कर्तव्यं तु भयानके .
    हास्यबीभत्सयोश्चापि प्रवेशनमिहेष्यते .. १०३..
    पातनं करुणे कार्यं निष्क्रामणमथाद्भुते .
    प्राकृतं शेषभावेषु शृङ्गारे च विवर्तितम् .. १०४..
    स्वभावसिद्धमेवैतत् कर्मं लोकक्रियाश्रयम् .
    एवं रसेषु भावेषु ताराकर्माणि योजयेत् .. १०५..
    अथाऽत्रैव प्रवक्ष्यामि प्रकारन् दर्शनस्य तु .
    समं साचय्नुवृत्ते च ह्यालोकितविलोकिते .. १०६..
    प्रलोकितोल्लोकिते चाप्यवलोकितमेव च .
    समतारं च सौम्यं च यद्दृष्टं तत् समं स्मृतम् .. १०७..
    पक्ष्मान्तरगततारं च त्र्यस्रं साचीकृतं तु तत् .
    रूपनिर्वर्णना युक्तमनुवृत्तमिति स्मृतम् .. १०८..
    सहसा दर्शनं यत् स्यात्तदालोकितमुच्यते .
    विलोकितं पृष्टतस्तु पार्श्वाभ्यां तु प्रलोकितम् .. १०९..
    ऊर्ध्वमुल्लोकितं ज्ञेयमवलोकितमप्यधः .
    इत्येषु दर्शनविधिः सर्वभावरसाश्रयः .. ११०..
    ताराकृतोऽस्यानुगतं पुटकर्म निबोधत .
    उन्मेषश्च निमेषश्च प्रसृतं कुञ्चितं समम् .. १११..
    विवर्तितं स स्फुरितं पिहितं सविताडितम् .
    विश्लेषः पुटयोर्यस्तु स तून्मेषः प्रकीर्तितः .. ११२..
    समागमो निमेषः स्यादायामः प्रसृतं भवेत् .
    आकु~चितं कुञ्चितं स्यात् समं स्वाभाविकं स्मृतम् .. ११३..
    विवर्तितं समुद्वृत्तं स्फुरितं स्पन्दितं तथा .
    स्थगितं पिहितं प्रोक्तमाहतं तु विताडितम् .. ११४..
    अथैषं रसभावेषु विनियोगं निबोधत .
    क्रोधे विवर्तितं कार्यो निमेषोन्मेषणैः सह .. ११५..
    विस्मयार्थेषु हर्षे च वीरे च प्रसृतं स्मृतम् .
    अनिष्टदर्शने गन्धे रसे स्पर्शे च कुञ्चितम् .. ११६..
    शृङ्गारे च समं कार्यमीर्ष्यासु स्फुरितं तथा .
    सुप्तमूर्च्छितवातोष्णधूमवर्षाञ्जनार्तिषु .. ११७..
    नेत्ररोगे च पिहितमभिघाते विताडितम् .
    इत्येवं रसभावेषु तारकापुटयोर्विधिः .. ११८..
    कार्यानुगतमस्यैव भ्रुवोः कर्म निबोधत .
    उत्क्षेपः पातनश्चैव भ्रुकुटी चतुरं भ्रुवोः ..११९..
    कुञ्चितं रेचितं चैव सहजं चेति सप्तधा .
    भ्रुवोरुन्नतिरुत्क्षेपः सममेकैकशोऽपि वा..१२०..
    अनेनैव क्रमेणैव पातनं स्यादधोमुखम् .
    भ्रुवोर्मूलसमुत्क्षेपात् भ्रुकुटी परिकीर्तिता .. १२१..
    चतुरं कि~चिदुच्छ्वासान्मधुरायतया भ्रुवोः .
    एकस्या उभयोर्वापि मृदुभङ्गस्तु कुञ्चितम् .. १२२..
    एकस्या एव ललितादुत्क्षेपाद्रेचितं भ्रुवः .
    सहजातं तु सहजं कर्म स्वाभाविकं स्मृतम् .. १२३..
    अथैषां सम्प्रवक्ष्यामि रसभावप्रयोजनम् .
    कोपे वितर्के हेलायां लीलादौ सहजे तथा .. १२४..
    श्रवणे दर्शने चैव भ्रुवमेकां समुत्क्षिपेत् .
    उत्क्षेपो विस्मये हर्षे रोषे चैअव द्वयोरपि .. १२५..
    आसूयितजुगुप्सायां हास्ये घ्राणे च पातनम् .
    क्रोधस्थानेषु दीप्तेषु योजयेत् भ्रुकुटिं बुधः .. १२६..
    शृङ्गारे ललिते सौम्ये सुखे स्पर्शे प्रबोधने .
    एवं विधेषु भावेषु चतुरं तु प्रयोजयेत् .. १२७..
    स्त्रीपुरुषयोश्च संलापे नानावस्थान्तरात्मके .
    मोट्टायिते कुट्टमिते विलासे किलकिञ्चिते .. १२८..
    निकुञ्चितं तु कर्तव्यं नृत्ते योज्यं तु रेचितम् .
    अनाविद्धेषु भावेषु विद्यात् स्वाभाविकं बुधः..१२९..
    इत्येवं तु भ्रुवः प्रोक्तं नासाकर्म निबोधत .
    नता मन्दा विकृष्टा च सोच्छ्वासा च विकूणिता .. १३०..
    स्वाभाविका चेति बुधैः षड्विधा नासिका स्मृता .
    नता मुहुःश्लिष्टपुटा मन्दा तु निभृता स्मृता .. १३१..
    विकृष्टोत्फुल्लितपुटा सोच्छ्वासा कृष्टमारुता .
    विकूणिता संकुचिता समा स्वाभाविका स्मृता .. १३२..
    नासिकालक्षणं ह्येतत् विनियोगं निबोधत .
    मदोत्कम्पसमायुक्ते नारीणामनुरोधने .. १३३..
    निःश्वासे च नता कार्या नासिका नाट्ययोक्तृभिः .
    विच्छिन्नमन्दरुदिते सोच्छ्वासे च नता स्मृता .. १३४..
    निर्वेगौत्सुक्यचिन्तासु मन्दा शोके च योजयेत् .
    तीव्रगन्धे विकृष्टां तौ रौद्रे वीरे तथैव च .. १३५..
    इष्टघ्राणे तथोच्छ्वासे दीर्घोच्छ्वासां प्रयोजयेत् .
    विकूणिता च कर्तव्या जुगुप्सायामसूयादिषु .. १३६..
    कार्या शेषु भावेषु तज्ञैः स्वाभाविका तथा .
    क्षामं फुल्लं च घूर्णं च कम्पितं कुञ्चितं समम् .. १३७..
    षड्विधं गण्डमुद्दिष्टं तस्य लक्षणमुच्यते .
    क्षामं चावनतं ज्ञेयं फुल्लं विकसितं भवेत् .. १३८..
    विततं घूर्णमत्रोक्तं कम्पितं स्फुरितं भवेत् .
    स्यात् कुञ्चितं संकुञ्चितं समं प्राकृतमुच्यते .. १३९..
    गण्डयोर्लक्षणं प्रोक्तं विनियोगं निबोधत .
    क्षामं दुःखेषु कर्तव्यं प्रहर्षे फुल्लमेव च .. १४०..
    पूर्णमुत्साहगर्वेषु रोमहर्षेषु कम्पितम् .
    कुञ्चितं च सरोमाञ्चं स्पर्शे शीते भये ज्वरे.. १४१..
    प्राकृतं शेषभावेषु गण्डकर्म भवेदिति .
    विवर्तनं कम्पनं च विसर्गो विनिगूहनम्..१४२..
    सन्दष्टकं समुद्गं च षट् कर्माण्यधरस्य तु .
    विकूणितं विवर्तस्तु वेपनं कम्पनं स्मृतम् .. १४३..
    विनिष्क्रामो विसर्गस्तु प्रवेशो विनिगूहनम् .
    सन्दष्टकं द्विजैअर्दष्टं समुद्गः सहजोन्नति .. १४४..
    इत्योष्ठलक्षणं प्रोक्तं विनियोगं निबोधत .
    असूयावेदनावज्ञाभयादिषु विवर्तनम् .. १४५..
    कम्पनं वेपनं शीतभयरोषजवादिषु .
    स्त्रीअणां विलासे विव्वोके विसर्गो रञ्जने तथा .. १४६..
    विनिगूहनमायासे सन्दष्टं क्रोधकर्मसु .
    समुद्गस्त्वनुकम्पायां चुम्बने चाभिनन्दने ..१४७..
    इत्योष्ठकर्माण्युक्तानि चिबुकस्य निबोधत .
    कुट्टनं खण्डनं छिन्नं चुक्कितं लेहनं समम् .. १४८..
    दष्टं च दन्तक्रियया चिबुकं त्विह लक्ष्यते .
    कुट्टनं दन्तसंघर्षः संस्फोटः खण्डनं मुहुः .. १४९..
    छिन्नं तु गाढसंश्लेषश्चुक्कितं दूरविच्युतिः .
    लेहनं जिह्वया लेहः किञ्चित् श्लेषः समं भवेत् ..१५०..
    दन्तैर्दष्टेऽधरे दष्टमित्येषां विनियोजनम् .
    भयशीतज्वरक्रोधग्रस्तानां कुट्टनं भवेत् .. १५१.. जपाध्ययनसंलापभक्ष्ययोगे च खण्डनम् .
    छिन्नं व्याधौ भये शीते व्यायामे रुदिते मृते .. १५२..
    जृम्भणे चुक्कितं कार्यं तथा लेह्ये च लेहनम् .
    समं स्वभावभावेषु सन्दष्टं क्रोधकर्मसु .. १५३..
    इति दन्तोष्ठजिह्वानां करणाच्चिबुकक्रिया .
    विधुतं विनिवृत्तं च निर्भुग्नं भुग्नमेव च .. १५४..
    विवृतं च तथोद्वाहि कर्माण्यत्रास्यजानि तु .
    व्यावृत्तं विनिवृत्तं स्याद्विधुतं तिर्यगायतम्.. १५५..
    अवाङ्मुखत्वं निर्भुग्नं व्याभुग्नं किञ्चिदायतम् .
    विश्लिष्टोष्ठं च विवृतमुद्वाह्युत्क्षिप्तमेव च .. १५६..
    विनिवृत्तमसूयायामीर्ष्याक्रोधकृतेन च .
    अवज्ञाविवृतादौ च स्त्रीणा कार्या प्रयोक्तृभिः .. १५७..
    विधुतं वारणे चैव नैवमित्येवमादिषु .
    निर्भुग्नं चापि विज्ञेयं गम्भीरालोकनादिषु .. १५८..
    भुग्नं लजान्विते योज्यं यतीनां तु स्वभावजम् .
    निर्वेदौत्सुक्यचिन्तासु नये च विनिमन्त्रणे .. १५९..
    विवृत्तं चापि विज्ञेयं हास्यशोकभयादिषु .
    स्त्रीणामुद्वाहि लीलायां गर्वे गच्छत्यनादरे ..१६०..
    एव नामेति कार्यं च कोपवाक्ये विचक्षणैः .
    समं साच्यनुवृत्तादि यच्च दृष्टिविकल्पितम् .. १६१..
    तज्ज्ञैस्तेनानुसारेण कार्यं तदनुगं मुखम् .
    अथातो मुखरागस्तु चतुर्धा परिकीर्तितः .. १६२..
    स्वाभाविकः प्रसन्नश्च रक्तः श्यामोऽर्थसंश्रयः .
    स्वाभाविकस्तु कर्तव्यः स्वभावाभिनयाश्रयः .. १६३..
    मध्यस्थादिषु भावेषु मुखरागः प्रयोक्तृभिः .
    प्रसन्नस्त्वद्भुते कार्यो हास्यशृङ्गारयोस्तथा .. १६४..
    वीररौद्रमदाद्येषु रक्तः स्यात् करुणे तथा .
    भयानके सबीभत्से श्यामं सञ्जायते मुखम् .. १६५५..
    एवं भावरसार्थेषु मुखरागं प्रयोजयेत् .
    शाखाङ्गोपाङ्गसंयुक्तः कृतोऽप्यभिनयः शुभः .. १६६..
    मुखरागविहीनस्तु नैव शोभान्वितो भवेत् .
    शरीराभिनयोऽल्पोऽपि मुखरागसम्न्वितः .. १६७..
    द्विगुणां लभते शोभां रात्राविव निशाकरः .
    नयनाभिनयोऽपि स्यान्नानाभावरसास्फुटः .. १६८..
    मुखरागान्वितो यस्मान्नाट्यमत्र प्रतिष्ठितम् .
    यथा नेत्रं प्रसर्पेत मुखभूदृष्टिसंयुतम् .. १६९..
    तथा भावरसोपेतं मुखरागं प्रयोजयेत् .
    इत्येवं मुखरागस्तु प्रोक्तो भावरसाश्रयः .. १७०..
    अतः परं प्रवक्ष्यामि ग्रीवाकर्माणि वै द्विजाः !.
    समा नतोन्नता त्र्यस्रा रेचिता कुञ्चिताञ्चिता .. १७१..
    वलिता च निवृत्ता च ग्रीवा नवविधार्थतः .
    समा स्वाभाविकी ध्यानस्वभाजपकर्मसु .. १७२..
    नता नतास्यालङ्कारबन्धे कण्ठावलम्बने ,
    उन्नताभ्युन्नतमुखी ग्रीवा चोर्ध्वनिवेशने .. १७३..
    त्र्यस्रा पार्श्वगता ज्ञेया स्कन्धभारेऽति दुःखिते .
    रेचिता विधुतभ्रान्ता हावे मथनृत्तयोः .. १७४..
    कुञ्चिताकुञ्चिते मूर्ध्नि धारिते गलरक्षणे .
    अञ्चितापसृतोद्बन्धकेशकर्षोर्ध्वदर्शने .. १७५..
    पार्श्वोन्मुखी स्याद्वलिता ग्रीवाभेदैश्च वीक्षणे .
    निवृताभिमुखीभूता स्वस्थानाभिमुखादिषु .. १७६..
    इत्यादि लोकभावार्था ग्रीवाभङ्गैरनेकधा .
    ग्रीवाकर्माणि सर्वाणि शिरः कर्मानुगानि हि ..१७७..
    शिरसः कर्मणः कर्म ग्रीवायाः सम्प्रवर्तते .
    इत्येतल्लक्षणं प्रोक्तं शीर्षोपाङ्गसमाश्रयम् .
    अङ्गकर्माणि शेषाणि गदतो मे निबोधत .. १७९..

    इति भारतीये नाट्यशाश्त्रे उपाङ्गविधानं नाम अष्टमोऽध्यायः .

    Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com

कोई टिप्पणी नहीं: