गुरुवार, 7 अप्रैल 2011

नाट्यशास्त्र सप्तम अध्याय


    ||नाट्यशास्त्रम् अध्याय ७ ||
    ||श्रीरस्तु ||
    भरतमुनिप्रणीतं नाट्यशास्त्रम्
    अथ सप्तमोऽध्यायः |
    भावानिदानीं व्याख्यास्यामः | अत्राह- भावा इति कस्मात् |
    किं भवन्तीति भावाः किं वा भावयन्तीति भावाः | उच्यते -
    वागङ्गसत्त्वोपेतान्काव्यार्थान्भावयन्तीति भावा इति |
    भू इति करणे धातुस्तथा च भावितं वासितं
    कृतमित्यनर्थान्तरम् |
    लोकेऽपि च प्रसिद्धम् | अहो ह्यनेन गन्धेन रसेन वा सर्वमेव
    भावितमिति |
    तच्च व्याप्त्यर्थम् |
    श्लोकाश्चात्र-
    विभावेनाहृतो योऽर्थो ह्यनुभावैस्तु गम्यते |
    वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः ||१||
    वागङ्गमुखरागेण सत्त्वेनाभिनयेन च |
    कवेरन्तर्गतं भावं भावयन्भाव उच्यते ||२||
    नानाभिनयसम्बद्धान्भावयन्ति रसानिमान् |
    यस्मातस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ||३||
    अथ विभाव इति कस्मात् | उच्यते- विभवो विज्ञानार्थः |
    विभावः कारणं निमित्तं हेतुरिति पर्यायाः | विभाव्यतेऽनेन
    वागङ्गसत्त्वाभिनया इत्यतो विभावः | यथा विभावितं विज्ञा-
    तमित्यनर्थान्तरम् |
    अत्र श्लोकः -
    बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः |
    अनेन यस्मात्तेनायं विभाव इति संज्ञितः ||४||
    अथानुभाव इति कस्मात् | उच्यते-
    अनुभाव्यतेऽनेन वागङ्गसत्त्वकृतोऽभिनय इति |
    अत्र श्लोकः -
    वागङ्गाभिनयेनेह यतस्त्वर्थोऽनुभाव्यते |
    शाखाङ्गोपाङ्गसंयुक्तस्त्वनुभावस्ततः स्मृतः ||५ ||
    एवं ते विभावानुभावसंयुक्ता भावा इति व्याख्याताः | अतो
    ह्येषां भावानां सिद्धिर्भवति | तस्मादेषां भावानां
    विभावानुभावसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः |
    तत्र विभावानुभावौ लोकप्रसिद्धौ |
    लोकस्वभावानुगतत्वाच्च तयोर्लक्षणं
    नोच्यतेऽतिप्रसङ्गनिवृत्यर्थम् |
    भवति चात्र श्लोकः -
    लोकस्वभावसंसिद्धा लोकयात्रानुगामिनः |
    अनुभावा विभावाश्च ज्ञेयास्त्वभिनये बुधैः ||६||
    तत्राष्टौ भावाः स्थायिनः | त्रयस्त्रिंशद्व्यभिचारिणः |
    अष्टौ
    सात्विका इति भेदाः | एवमेते काव्यरसाभिव्यक्तिहेतव
    एकोनपञ्चाशद्भावाः
    प्रत्यवगन्तव्याः | एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते |
    अत्र श्लोकः-
    योऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः |
    शरीरं व्याप्यते तेन शुष्कं काष्ठमिवाग्निना ||७||
    अत्राह- यदि
    काव्यार्थसंश्रितैर्विभावानुभावव्यञ्जितैरेकोनपञ्चाशद्भावैः
    सामान्यगुणयोगेनाभिनिष्पद्यन्ते रसास्तत्कथं स्थायिन एव भावा
    रसत्वमाप्नुअवन्ति | उच्यते- यथा हि
    समानलक्षणास्तुल्यपाणिपादोदरशरीराः
    समानाङ्गप्रत्यङ्गा अपि पुरुषाः
    कुलशीलविद्याकर्मशिल्पविचक्षणत्वाद्राज-
    त्वमाप्नुवन्ति तत्रैव चान्येऽल्पबुद्धयस्तेषामेवानुचरा भवन्ति
    तथा
    विभावानुभावव्यभिचारिणः स्थायिभावानुपाश्रिता भवन्ति |
    बह्वाश्रयत्वास्वामिभूताः स्थायिनो भावाः |
    तद्वत्स्थानीयपुरुषगुणभूता अन्ये भावास्तान्गुणतया श्रयन्ते |
    स्थायिभावा रसत्वमाप्नुवन्ति | परिजनभूता व्यभिचारिणो
    भावाः |
    अत्राह- को दृष्टान्त इति | यथा नरेन्द्रो बहुजनपरिवारोऽपि स
    एव नाम
    लभते नान्यः सुमहानपि पुरुषः तथा
    विभावानुभावव्यभिचारिपरिवृतः
    स्थायी भावो रसनाम लभते |
    भवति चात्र श्लोकः -
    यथा नराणां नृपतिः शिष्याणां च यथा गुरुः |
    एवं हि सर्वभावानां भावः स्थायि महानिह ||८||
    लक्षणं खलु पूर्वमभिहितमेषां रससंज्ञकानाम् | इदानीं
    भावसामान्यलक्षणमभिधास्यामः | तत्र स्थायिभावान्वक्ष्यामः -

    रतिर्नाम प्रमोदात्मिका
    ऋतुमाल्यानुलेपनाभरणभोजनवरभवनानुभवना-
    प्रातिकूल्यादिभिर्विभावैः समुत्पद्यते |
    तामभिनयेत्स्मितवदनमधुरकथन-
    भ्रूक्षेपकटाक्षादिभिरनुभावैः | अत्र श्लोकः -
    इष्टार्थविषयप्राप्त्या रतिरित्युपजायते |
    सौम्यत्वादभिनेया सा वाङ्माधुर्याङ्गचेष्टितैः ||९||

    हासो नाम
    परचेष्टानुकरणकुहकासम्बद्धप्रलापपौरोभाग्यमौर्ख्यादिभिर्विभावैः
    समुत्पद्यते | तमभिनयेत्पूर्वोक्तैर्हसितादिभिरनुभावैः |
    भवति चात्र श्लोकः -
    परचेष्टानुकरणाद्धासः समुपजायते |
    स्मितहासातिहसितैरभिनेयः स पण्डितैः ||१०||

    शोको नाम
    इष्टजनवियोगविभवनाशवधबन्धदुःखानुभनवनादिभिर्विभावैः
    समुत्पद्यते.
    तस्यास्रपातपरिदेवितविलपितवैवर्ण्यस्वरभेदस्रस्तगात्रताभूमि-
    पतनसस्वनरुदिताक्रन्दितदीर्घनिःश्वसितजडतोन्मादमोहमरणादिभिरनुभा-
    वैरभिनयः प्रयोक्तव्यः |
    रुदितमत्र त्रिविधम् - आनन्दजमार्तिजमीर्ष्यासमुद्भवं चेति |
    भवन्ति चात्रार्याः -
    [आनन्देऽप्यार्तिकृतं त्रिविधं रुदितं सदा बुधैर्ज्ञेयम् |
    तस्य त्वभिनययोगान्विभावगतितः प्रवक्ष्यामि ||]
    हर्षोत्फुल्लकपोलं सानुस्मरणादपाङ्गविसृतास्रम् |
    रोमाञ्चगात्रमनिभृतमानन्दसमुद्भवं भवति ||११||
    पर्याप्तविमुक्तास्रं सस्वनमस्वस्थगात्रगतिचेष्टम् |
    भूमिनिपातनिवर्तितविलपितमित्यार्तिजं भवति ||१२||
    प्रस्फुरितौष्ठकपोलं सशिरःकम्पं तथा सनिःश्वासम् |
    भ्रुकुटीकटाक्षकुटिलं स्त्रीणामीर्ष्याकृतं भवति ||१३||
    स्त्रीनीचप्रकृतिष्वेष शोको व्यसनसम्भवः |
    धैर्येणोत्तममध्यानां नीचानां रुदितेन च ||१४||
    क्रोधो नाम
    आधर्षणाक्रुष्टकलहविवादप्रतिकूलादिभिर्विभावैः
    समुत्पद्यते | अस्य
    विकृष्टनासापुटोद्वृत्तनयनसंदष्ठोष्ठपुट-
    गण्डस्फुरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः |
    रिपुजो गुरुजश्चैव प्रणयिप्रभवस्तथा |
    भृत्यजः कृतकश्चेति क्रोधः पञ्चविधः स्मृतः||१५||
    अत्रार्या भवन्ति -
    भृकुटीकुटिलोत्कटमुखः सन्दष्ठोष्ठः स्पृशन्करेण करम् |
    क्रुद्धः स्वभुजाप्रेक्षी शत्रौ निर्यन्त्रणं रुष्येत् ||१६||
    किञ्चिदवाङ्ग्मुखदृष्टिः सास्रस्वेदापमार्जनपरश्च |
    अव्यक्तोल्बणचेष्टो गुरौ विनययन्त्रितो रुष्येत् ||१७||
    अल्पप्रतरविचारो विकिरन्नश्रूण्यपाङ्गविक्षेपैः |
    सभ्रुकुटिस्फुरितोष्ठः प्रणयोपगतां प्रिया रुष्येत् ||१८||
    अथ परिजने तु रोषस्तर्जननिर्भर्त्सनाक्षिविस्तारैः |
    विप्रेक्षणैश्च विविधैरभिनेयः क्रूरतारहितः ||१९||
    कारणमवेक्षमाणः प्रायेणायासलिङ्गसंयुक्तः |
    वीररसान्तरचारी कार्यः कृतको भवति कोपः ||२०||

    उत्साहो नाम उत्तमप्रकृतिः. स
    चाविषादशक्तिधैर्यशौर्यादिभिर्विभावै-
    रुत्पद्यते. तस्य धैर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः
    प्रयोक्तव्यः |
    अत्र श्लोकः -
    असम्मोहादिभिर्व्यक्तो व्यवसायनयात्मकः |
    उत्साहस्त्वभिनेयः स्यादप्रमादोत्थितादिभिः ||२१||

    भयं नाम स्त्रीनीचप्रकृतिकम् |
    गुरुराजापराधश्वापदशून्यागाराटवीपर्वतगहनगजाहिदर्शननिर्भर्त्सन- कान्तारदुर्दिननिशान्धकरोलूकनक्तञ्चरारावश्रवणादिभिर्विभावैः
    समुत्पद्यते |
    तस्य
    प्रकम्पितकरचरणहृदयकम्पनस्तम्भमुखशोषजिह्वापरिलेहन-
    स्वेदवेपथुत्राससपरित्राणान्वेषणधावनोत्कृष्टादिभिरनुभवैरभिनयः
    प्रयोक्तव्यः |
    अत्र श्लोकाः -
    गुरुराजापराधेन रौद्राणां चापि दर्शनात् |
    श्रवणादपि घोराणां भयं मोहेन जायते ||२२||
    गात्रकम्पनवित्रासैर्वक्त्रशोषणसम्भ्रमैः
    विस्फारितैक्षणैः कार्यमभिनेयक्रियागुणैः ||२३||
    सत्त्ववित्रासनोद्भूतं भयमुत्पद्यते नृणाम् |
    स्रस्ताङ्गाक्षिनिमेषैस्तदभिनेयं तु नर्तकैः ||२४||
    अत्रार्या भवति -
    करचरणहृदयकम्पैर्मुखशोषणवदनलेहनस्तम्भैः |
    सम्भ्रान्तवदनवेपथुसंत्रासकृतैरभिनयोऽस्य ||२५||

    जुगुप्सा नाम स्त्रीनीचप्रकृतिका | सा
    चाहृद्यदर्शनश्रवणादिभिर्विभावैः
    समुत्पद्यते | तस्याः
    सर्वाङ्गसङ्कोचनिष्ठीवनमुखविकूणनहृल्लेखादि-
    भिरनुभावैरभिनयः प्रयोक्तव्यः |
    भवति चात्र श्लोकः -
    नासाप्रच्छादनेनेह गात्रसङ्कोचनेन च |
    उद्वेजनैः सहृल्लेखैर्जुगुप्सामभिनिर्दिशेत् ||२६||

    विस्मयो नाम
    मायेन्द्रजालमानुषकर्मातिशयचित्रपुस्तशिल्पविद्यातिशयादिभिर्विभावैः
    समुत्पद्यते | तस्य
    नयनविस्तारानिमेषप्रेक्षितभ्रूक्षेपरोमहर्षणशिरःकम्पसाधुवादादिभि-
    रनुभावैरभिनयः प्रयोक्तव्यः |
    भवति चात्र श्लोकः -
    कर्मातिशयनिर्वृत्तो विस्मयो हर्षसम्भवः |
    सिद्धिस्थाने त्वसौ साध्यः प्रहर्षपुलकादिभिः ||२७||

    एवमेते स्थायिनो भावा रससंज्ञाः प्रत्यवगन्तव्याः |

    व्यभिचारिण इदानीं व्याख्यास्यामः | अत्राह - व्यभिचारिण इति
    कस्मात् |
    उच्यते - वि अभि इत्येतावुपसर्गौ | चर इति गत्यर्थो धातुः |
    विविधमाभिमुख्येन
    रसेषु चरन्तीति व्यभिचारिणः | वागङ्गसत्त्वोपेताः प्रयोगे
    रसान्नयन्तीति
    व्यभिचारिणः | अत्राह - कथं नयन्तीति | उच्यते - लोकसिद्धान्त
    एषः -
    यथा सूर्य इदं दिनं नक्षत्रं वा नयतीति | न च तेन
    बाहुभ्यां स्कन्धेन
    वा नीयते | किं तु लोकप्रसिद्धमेतत् | यथेदं सूर्यो नक्षत्रं दिन
    वा नयतीति |
    एवमेते व्यभिचारिण इत्यवगन्तव्याः | तानिह सङ्ग्रहाभिहितांस्त्र-
    यस्त्रिंशद्व्यभिचारिणो भावान् वर्णयिष्यामः |

    तत्र निर्वेदो नाम
    दारिद्र्यव्याध्यवमानाधिक्षेपाक्रुष्टक्रोधताडनेष्टजन-
    वियोगतत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते स्त्रीनीचकुसत्त्वानाम्
    .
    रुदितनिःश्वसितोच्छ्वसितसम्प्रधारणादिभिरनुभावैस्तमभिनयेत् |
    अत्र श्लोकः -
    दारिद्र्येष्टवियोगाद्यैः निर्वेदो नाम जायते |
    सम्प्रधारणनिःश्वासैस्तस्य त्वभिनयो भवेत् ||२८||
    अत्रानुवंश्ये आर्ये भवतः -
    इष्टजनविप्रयोगाद्दारिद्र्याद्व्याधितस्तथा दुःखात् |
    ऋद्धिं परस्य दृष्ट्वा निर्वेदो नाम सम्भवति ||२९||
    बाष्पपरिप्लुतनयनः पुनश्च निःश्वासनदीनमुखनेत्रः |
    योगीव ध्यानपरो भवति हि निर्वेदवान्पुरुषः ||३०||

    ग्लानिर्नाम वान्तविरिक्तव्याधितपोनियमोपवासमनस्तापातिशयमदन-
    सेवनातिव्यायामाध्वगमनक्षुत्पिपासानिद्राच्छेदादिभिर्विभावैः
    समुत्पद्यते | तस्याः क्षामवाक्यनयनकपोलोदरमन्दपदोत्क्षेपणवेपना-
    नुत्साहतनुगात्रवैवर्ण्यस्वरभेदाभिरनुभावैरभिनयः प्रयोक्तव्यः
    .
    अत्रार्ये भवतः -
    वान्तविरिक्तव्याधिषु तपसा जरसा च जायते ग्लानिः |
    कार्श्येन साभिनेया मन्दभ्रमणेन कम्पेन ||३१||
    गदितैः क्षामक्षामैर्नेत्रविकारैश्च दीनसञ्चारैः |
    श्लथभावेनाङ्गानां मुहुर्मुहुर्निर्दिशेद् ग्लानिम् ||३२||

    शङ्का नाम सन्देहात्मिका स्त्रीनीचप्रभवा | चौर्याभिग्रहण-
    नृपापराधपापकर्मकरणादिभिर्विभावैः समुत्पद्यते | तस्या
    मुहुर्मुहुरवलोकनावकुण्ठनमुखशोषणजिह्वालेहनमुखवैवर्ण्य-
    स्वरभेदवेपथुशुष्कोष्ठकण्ठायाससाधर्म्यादिभिरनुभावैरभिनयः
    प्रयोक्तव्यः |
    चौर्यादिजनिता शङ्का प्रायः कार्या भयानके |
    प्रियव्यलीकजनिता तथा शृङ्गारिणी मता ||३३||
    अत्राकारसंवरणमपि केचिदिच्छन्ति | तच्च
    कुशलैरुपाधिभिरिङ्गितैश्चोपलक्ष्यम् |
    अत्रार्ये भवतः -
    द्विविधा शङ्का कार्याह्यात्मसमुत्था च परसमुत्था च |
    या तत्रात्मसमुत्था सा ज्ञेया दृष्टिचेष्टाभिः ||३४||
    किञ्चित्प्रवेपिताङ्गस्त्वधोमुखो वीक्षते च पार्श्वानि |
    गुरुसज्जमानजिह्वः श्यामास्यः शङ्कितः पुरुषः ||३५||

    असूया नाम
    नानापराधद्वेषपरैश्वर्यसौभाग्यमेधाविद्यालीलादिभिर्विभावैः
    समुत्पद्यते | तस्याश्च परिषदि
    दोषप्रख्यापनगुणोपघातेर्ष्याचक्षुःप्रदा-
    नाधोमुखभ्रुकुटीक्रियावज्ञानकुत्सनादिभिरनुभावैरभिनयः
    प्रयोक्तव्यः |
    अत्रार्ये भवतः -
    परसौभाग्येश्वरतामेधालीलासमुच्छ्रयान्दृष्ट्वा |
    उत्पद्यते ह्यसूया कृतापराधो भवेद्यश्च ||३६||
    भ्रुकुटिकुटिलोत्कटमुखैः सेर्ष्याक्रोधपरिवृत्तनेत्रैश्च |
    गुणनाशनविद्वेषैस्तत्राभिनयः प्रयोक्तव्यः ||३७||

    मदो नाम मद्योपयोगादुत्पद्यते | स च त्रिविधः पञ्चविभावश्च |
    अत्रार्या भवन्ति -
    ज्ञेयस्तु मदस्त्रिविधस्तरुणो मध्यस्तथावकृष्टश्च |
    करणं पञ्चविधं स्यात्तस्याभिनयः प्रयोक्तव्यः ||३८||
    कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित् |
    परुषवचनाभिधायी कश्चित्कश्चित्तथा स्वपिति ||३९||
    उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः |
    परुषवचनाभिधायी रोदत्यपि चाधमप्रकृतिः ||४०||
    स्मितवचनमधुररागो हृष्टतनुः किञ्चिदाकुलितवाक्यः |
    सुकुमाराविद्धगतिस्तरुणमदस्तूत्तमप्रकृतिः ||४१||
    स्खलिताघूर्णितनयनः स्रस्तव्याकुलितबाहुविक्षेपः |
    कुटिलव्याविद्धगतिर्मध्यमदो मध्यमप्रकृतिः ||४२||
    नष्टस्मृतिर्हतगतिश्छर्दितहिक्काकफैः सुबीभत्सः |
    गुरुसज्जमानजिह्वो निष्ठीवति चाधमप्रकृतिः ||४३||
    रङ्गे पिबतः कार्या मदवृद्धिर्नाट्ययोगमासाद्य |
    कार्यो मदक्षयो वै यः खलु पीत्वा प्रविष्टः स्यात् ||४४||
    सन्त्रासाच्छोकाद्वा भयात्प्रहर्षाच्च कारणोपगतात् |
    उत्क्रम्यापि हि कार्यो मदप्रणाशः क्रमात्तज्ज्ञैः ||४५||
    एभिर्भावविशेषैर्मदो द्रुतं सम्प्रणाशमुपयाति |
    अभ्युदयसुखैर्वाक्यैर्यथैव शोकः क्षयं याति ||४६||

    श्रमो नाम अध्वव्यायामसेवनादिभिर्विभावैः समुत्पद्यते. तस्य
    गात्रपरिमर्दनसंवाहननिःश्वसितविजृम्भितमन्दपदोत्क्षेपणनयन-
    वदनविकूणनसीत्करादिभिरनुभावैरभिनयः प्रयोक्तव्यः |
    अत्रार्या -
    नृत्ताध्वव्यायामान्नरस्य सञ्जायते श्रमो नाम |
    निःश्वासखेदगमनैस्तस्याभिनयः प्रयोक्तव्यः ||४७||

    आलस्यं नाम खेदव्याधिगर्भस्वभावश्रमसौहित्यादिभिर्विभावैः
    समुत्पद्यते स्त्रीनीचानाम् |
    तदभिनयेत्सर्वकर्मानभिलाषशयना-
    सननिद्रातन्द्रीसेवनादिभिरनुभावैः |
    अत्रार्या -
    आलस्यं त्वभिनेयं खेदापगतं स्वभावजं चापि |
    आहारवर्जितानामारम्भाणामनारम्भात् ||४८||

    दैन्यं नाम दौर्गत्यमनस्तापादिभिर्विभावैः समुत्पद्यते |
    तस्याधृतिशिरोरोगगात्रगौरवान्यमनस्कतामृजापरिवर्जना-
    दिभिरनुभावैरभिनयः प्रयोक्तव्यः |
    अत्रार्या -
    चिन्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनतां पुंसाम् |
    सर्वमृजापरिहारैर्विविधोऽभिनयो भवेत्तस्य ||४९||

    चिन्ता नाम
    ऐश्वर्यभ्रंशेष्टद्रव्यापहारदारिद्र्यादिभिर्विभावैरुत्पद्यते |
    तामभिनयेन्निःश्वसितोच्छ्वसितसन्तापध्यानाधोमुखचिन्तन-
    तनुकार्श्यादिभिरनुभावैः |
    अत्रार्ये भवतः -
    ऐश्वर्यभ्रंशेष्टद्रव्यक्षयजा बहुप्रकारा तु |
    हृदयवितर्कोपगता नॄणां चिन्ता समुद्भवति ||५०||
    सोच्छ्वासैर्निःश्वसितैः सन्तापैश्चैव हृदयशून्यतया |
    अभिनेतव्या चिन्ता मृजाविहीनैरधृत्या च ||५१||

    मोहो नाम दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरा-
    नुस्मरणादिभिर्विभावैः समुत्पद्यते | तस्य निश्चैतन्यभ्रमण-
    पतनाघूर्णनादर्शनादिभिरनुभावैरभिनयः प्रयोक्तव्यः |
    अत्र श्लोकस्तावदार्या च -
    अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैरपि |
    तत्प्रतीकारशून्यस्य मोहः समुपजायते ||५२||
    व्यसनाभिघातभयपूर्ववैरसंस्मरणरोगजो मोहः |
    सर्वेन्द्रियसम्मोहात्तस्याभिनयः प्रयोक्तव्यः ||५३||

    स्मृतिर्नाम सुखदुःखकृतानां भावानामनुस्मरणम् |
    सा च स्वास्थ्यजघन्यरात्रिनिद्राच्छेदसमानदर्शनोदाहरण-
    चिन्ताभ्यासादिभिर्विभावैः समुत्पद्यते | तामभिनये-
    च्छिरःकम्पनावलोकनभ्रूसमुन्नमनादिभिरनुभावैः |
    अत्रार्ये भवतः -
    सुखदुःखमतिक्रान्तं तथा मतिविभावितं यथावृत्तम् |
    चिरविस्मृतं स्मरति यः स्मृतिमानिति वेदितव्योऽसौ ||५४||
    स्वास्थ्याभ्याससमुत्था श्रुतिदर्शनसम्भवा स्मृतिर्निपुणैः |
    शिर उद्वाहनकम्पैर्भूक्षेपैश्चाभिनेतव्या ||५५||

    धृतिर्नाम शौर्यविज्ञानश्रुतिविभवशौचाचारगुरुभक्त्यधिक-
    मनोरथार्थलाभक्रीडादिभिर्विभावैः समुत्पद्यते |
    तामभिनयेत्प्रा-
    प्तानां विषयाणामुपभोगादप्राप्तातीतोपहृतविनष्टानामनु-
    शोचनादिभिरनुभावैः |
    अत्रार्ये भवतः -
    विज्ञानशौचविभवश्रुतिशक्तिसमुद्भवा धृतिः सद्भिः |
    भयशोकविषदाद्यै रहिता तु सदा प्रयोक्तव्या ||५६||
    प्राप्तानामुपभोगः शब्दरसस्पर्शरूपगन्धानाम् |
    अप्राप्तैश्च न शोको यस्यां हि भवेद् धृतिः सा तु ||५७||

    व्रीडा नाम अकार्यकरणात्मिका | सा च
    गुरुव्यतिक्रमणावज्ञान- प्रतिज्ञातानिर्वहनपश्चात्तापादिभिर्विभावैः
    समुत्पद्यते |
    तां निगूढवदनाधोमुखविचिन्तनोर्वीलेखनवस्त्राङ्गुलीयकस्पर्श-
    नखनिकृन्तनादिभिरनुभावैरभिनयेत् |
    अत्रार्ये भवतः -
    किञ्चिदकार्यं कुर्वन्नेवं यो दृश्यते शुचिभिरन्यैः |
    पश्चात्तापेन युतो व्रीडित इति वेदितव्योऽसौ ||५८||
    लज्जानिगूढवदनो भूमिं विलिखन्नखांश्च विनिकृन्तन् |
    वस्त्राङ्गुलीयकानां संस्पर्शं व्रीडितः कुर्यात् ||५९||

    चपलता नाम रागद्वेषमात्सर्यामर्षाप्रतिकूल्यादिभिर्विभावैः
    समुत्पद्यते | तस्याश्च वाक्पारुष्यनिर्भर्त्सनवधबन्धसम्प्रहार-
    ताडनादिभिरनुभावैरभिनयः प्रयोक्तव्यः |
    अत्रार्या भवति -
    अविमृश्य तु यः कार्यं पुरुषो वधताडनं समारभते |
    अविनिश्चितकारित्वात्स तु खलु चपलो बुधैर्ज्ञेयः ||६०||

    हर्षो नाम मनोरथलाभेष्टजनसमागमनमनःपरितोषदेव-
    गुरुराजभर्तृप्रसादभोजनाच्छादनलाभोपभोगादिभिर्विभावैः
    समुत्पद्यते | तमभिनयेन्नयनवदनप्रसादप्रियभाषणालिङ्गन-
    कण्टकितपुलकितास्रस्वेदादिभिरनुभावैः |
    अत्रार्ये भवतः -
    अप्राप्ये प्राप्ये वा लब्धेऽर्थे प्रियसमागमे वाऽपि |
    हृदयमनोरथलाभे हर्षः सञ्जायते पुंसाम् ||६१||
    नयनवदनप्रियभाषालिङ्गनैश्च रोमाञ्चैः |
    ललितैश्चाङ्गविहारैः स्वेदाद्यैरभिनयस्तस्य ||६२||

    आवेगो नाम उत्पातवातवर्षाकुञ्जरोद्भ्रमणप्रियाप्रियश्रवण-
    व्यसनाभिघातादिर्विभावैः समुत्पद्यते | तत्रोत्पातकृतो नाम
    विद्युदुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शनकृतः |
    तमभिनयेत्सर्वाङ्गस्रस्ततावैमनस्यमुखवैवर्ण्यविषाद-
    विस्मयादिभिः | वातकृतं पुनरवकुण्ठनाक्षिपरिमार्जनवस्त्र-
    सङ्गूहनत्वरितगमनादिभिः | वर्षकृतं पुनः सर्वाङ्ग-
    सम्पिण्डनप्रधावनच्छन्नाश्रयमार्गणादिभिः | अग्निकृतं तु
    धूमाकुलनेत्रताऽङ्गसङ्कोचनविधूननातिक्रान्तापक्रान्तादिभिः |
    कुञ्जरोद्भ्रमणकृतं नाम त्वरितापसर्पणचञ्चलगमन-
    भयस्तम्भवेपथुपश्चादवलोकनविस्मयादिभिः | प्रियश्रवण-
    कृतं
    नामाभ्युत्थानालिङ्गनवस्त्राभरणप्रदानाश्रुपुलकितादिभिः |
    अप्रियश्रवणकृतं नाम भूमिपतनविषमविवर्तनपरिधावन-
    विलापनाक्रन्दनादिभिः | व्यसनाभिघातजं तु सहसापसर्पण-
    शस्त्रचर्मवर्मधारणगजतुरगरथारोहणसम्प्रधारणादिभिः |
    एवमष्टविकल्पोऽयमावेगः सम्भ्रमात्मकः |
    स्थेर्येणोत्तममध्यानां नीचानां चापसर्पणैः ||६३||
    अत्रार्ये भवतः -
    अप्रियनिवेदनाद्वा सहसा ह्यवधारितारिवचनस्य |
    शस्त्रक्षेपात् त्रासादावेगो नाम सम्भवति ||६४||
    अप्रियनिवेदनाद्यो विषादभावाश्रयोऽनुभावस्य |
    सहसारिदर्शनाच्चेत्पहरणपरिघट्टनैः कार्यः ||६५||

    जडतानाम सर्वकार्याप्रतिपत्तिः | इष्टानिष्टश्रवणदर्शन-
    व्याध्यादिभिर्विभावैः समुत्पद्यते | तामभिनयेदकथनाविभाषण-
    तूष्णीम्भावाप्रतिभाऽनिमेषनिरीक्षणपरवशत्वादिभिरनुभावैः |
    अत्रार्या भवति -
    इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् |
    तूष्णीकः परवशगो भवति स जडसंज्ञितः पुरुषः ||६६||

    गर्वो नाम ऐश्वर्यकुलरूपयौवनविद्याबलधनलाभादिभिर्विभावैः
    समुत्पद्यते | तस्यासूयावज्ञाघर्षणानुत्तरदानासम्भाषणा-
    ङ्गावलोकन विभ्रमापहसनवाक्पारुष्यगुरुव्यतिक्रमणाधि-
    क्षेपवचनविच्छेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः
    अत्रार्या भवति -
    विद्यावाप्ते रूपादैश्वर्यादथ धनागमाद्वापि |
    गर्वः खलु नीचानां दृष्ट्यङ्गविचारणैः कार्यः ||६७||

    विषादो नाम कार्यानिस्तरणदैवव्यापत्तिसमुत्थः |
    तमभिनयेत्सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्य-
    निःश्वसितादिभिरनुभावैरुत्तममध्यमानाम् | अधमानां तु
    विपरिधावनालोकनमुखशोषणसृक्वपरिलेहननिद्रा-
    निःश्वसितध्यानादिभिरनुभावैः |
    अत्रार्या श्लोकौ -
    कार्यानिस्तरणाद्वा चौर्याभिग्रहणराजदोषाद्वा |
    दैवादर्थविपत्तेर्भवति विषादः सदा पुंसाम् ||६८||
    वैचित्र्योपायचिन्ताभ्यां कार्य उत्तममध्ययोः |
    निद्रानिःश्वसितध्यानैरधमानां तु योजयेत् ||६९||

    औत्सुक्यं नाम इष्टजनवियोगानुस्मरणोद्यानदर्शना-
    दिभिर्विभावैः समुत्पद्यते | तस्य दीर्घनिःश्वसिताधोमुख-
    विचिन्तननिद्रातन्द्रीशयनाभिलाषादिभिरनुभवैरभिनयः
    प्रयोक्तव्यः |
    अत्रार्या भवति -
    इष्टजनस्य वियोगादौत्सुक्यं जायते ह्यनुस्मृत्या |
    चिन्तानिद्रातन्द्रीगात्रगुरुत्वैरभिनयोऽस्य ||७०||


    निद्रा नाम दौर्बल्यश्रमक्लममदालस्यचिन्ताऽत्याहार-
    स्वभावादिभिर्विभावैः समुत्पद्यते | तामभिनयेद्वदन-
    गौरवशरीरावलोकननेत्रघूरणनगात्रविजृम्भन-
    मान्द्योच्छ्वसितसन्नगात्रताऽक्षिनिमीलनादिभिरनुभावैः |
    अत्रार्ये भवतः -
    आलस्याद्दौर्बल्यात्क्लमाच्छ्रमाच्चिन्तनात्स्वभावाच्च |
    रात्रौ जागरणादपि निद्रा पुरुषस्य सम्भवति ||७१||
    तां मुखगौरवगात्रप्रतिलोलननयनमीलनजडत्वैः |
    जृम्भणगात्रविमर्दैरनुभावैरभिनयेत्प्राज्ञः||७२||

    अपस्मारो नाम
    देवयक्षनागब्रह्मराक्षसभूतप्रेतपिशाच- ग्रहणानुस्मरनोच्छिष्टशून्यागारसेवनाशुचि-
    कालान्तरापरिपतनव्याद्यादिभिर्विभावैः समुत्पद्यते |
    तस्य स्फुरितनिःश्वसितोत्कम्पितधावनपतनस्वेद-
    स्तम्भवदनफेनजिह्वापरिलेहनादिभिरनुभावैरभिनयः
    प्रयोक्तव्यः |
    अत्रार्ये भवतः -
    भूतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यगृहगमनाअत् |
    कालान्तरातिपातादशुचेश्चभवत्यपस्मारः ||७३||
    सहसा भूमौ पतनं प्रवेपनं वदनफेनमोक्षश्च |
    निःसंज्ञस्योत्थानं रूपाण्येतान्यपस्मारे ||७४||

    सुप्तं नाम निद्राभिभवविषयोपगमनक्षितितलशयन-
    प्रसारणानुकर्षणादिभिर्विभावैः समुत्पद्यते
    निद्रासमुत्थम् | तदुच्छ्वसितंसन्नगात्राक्षिनिमीलन-
    सर्वेन्द्रिय सम्मोहनोत्स्वप्नायितादिभिरनुभावैरभिनयेत् |
    अत्रार्ये भवतः -
    निद्राभिभवेन्द्रियोपरमणमोहाइर्हवेत्सुप्तम् |
    अक्षिनिमीलनोच्छ्वसनैः स्वप्नायितजल्पितैः कार्यः ||७५||
    सोच्छ्वासैर्निःश्वासैर्मन्दाक्षिनिमीलनेन निश्चेष्टः |
    सर्वेन्द्रियसम्मोहात्सुप्तं स्वप्नैश्च युञ्जीत ||७६||

    विबोधो नाम आहारपरिणामनिद्राच्छेदस्वप्नान्त-
    तीव्रशब्दश्रवणादिभिर्विभावैः समुत्पद्यते |
    तमभिनयेज्जृम्भणाक्षिपरिमर्दनशयनमोक्षणादिभिरनुभावैः |
    अत्रार्या भवति -
    आहारविपरिणामाच्छब्दस्पर्शादिभिश्च सम्भूतः |
    प्रतिबोधस्त्वभिनेयो जृम्भणवदनाक्षिपरिमर्दैः ||७७||

    अमर्षो नाम विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा
    समुत्पद्यते | तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तन-
    ध्यानाध्यवसायोपायसहायान्वेषणादिभिरनुभावैः |
    अत्र श्लोकौ -
    आक्षिप्तानां सभामध्ये विद्याशौर्यबलाधिकैः |
    नॄणामुत्साहसंयोगादमर्षो नाम जायते ||७८||
    उत्साहाध्यवसायाभ्यामधोमुखविचिन्तनैः |
    शिरःप्रकम्पस्वेदाद्यैस्तं प्रयुञ्जीत पण्डितः ||७९||

    अवहित्थं नाम आकारप्रच्छादनात्मकम् | तच्च
    लजाभयापजय-
    गौरवजैह्मयादिभिर्विभाविः समुत्पद्यते |
    तस्यान्यथाकथनावलोकित-
    कथाभङ्गकृतकधैर्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः |
    अत्र श्लोको भवति -
    धार्ष्ट्यजैह्म्यादिसम्भीतमवहित्थं भयत्मकम् |
    तच्चागणनया कार्यं नातीवोत्तरभाषणात् ||८०||

    उग्रता आम चौर्याभिग्रहाणनृपापराधासत्प्रलापादिभिर्विभावैः
    समुत्पद्यते |
    तां च वधबन्धनताडननिर्भत्सनादिभिरनुभावैरभिनयेत् |
    अत्रार्या भवति -
    चौर्याभिग्रहनवशान्नृपापराधादथोग्रता भव्ति |
    वधबन्धताडनादिभिरनुभावैरभिनयस्तस्याः ||८१||
    भवति चात्र श्लोकः -
    नानाशात्रार्थबोधेन मतिः संजायते नृणाम् |
    शिष्योपदेशार्थकृतस्तस्यास्त्वभिनयो भवेत् ||८२||

    व्याधिर्नाम वातपित्तकफसन्निपातप्रभवः | तस्य ज्वरादयो
    विशेषाः | ज्वरस्तु द्विविधः सशीतः सदाहश्च |
    तत्र सशीतो नाम प्रवेपितसर्वाङ्गोप्कम्पननिकुञ्चना-
    ग्न्यभिलाषरोमाञ्चहनुवलननासाविकूननमुख-
    शोषणपरिदेवितादिभिरनुभावैरभिनेयः | सदाहो नाम
    विक्षिप्ताङ्गकरचरणभूम्यभिलाषानुलेपनशीताभि-
    लाषपरिदेवनमुखशोषोत्क्रुष्टादिभिरनुभावैः |
    ये चान्ये व्याधयस्तेऽपि खलु मुखविकूणनगात्र-
    स्तम्भस्रस्ताक्षिनिःश्वसनस्तनितोत्क्रुष्टवेपना-
    दिभिरनुभावैरभिनेयाः |
    अत्र श्लोको भवति -
    समासतस्तु व्याधीनां कर्तव्योऽभिनयो बुधैः |
    स्रस्ताङ्गगात्रविक्षेपैस्तथा मुखविकूणनैः ||८३||

    उन्मादो नाम इष्टजनवियोगविभवनाशाभिघात-
    वातपित्तश्लेष्मप्रकोपादिभिर्विभावैरुत्पद्यते |
    तमनिमित्तहसितरुदितोत्क्रुष्टासम्बद्धप्रलापशयितोपविष्टोत्थित-
    प्रधावितनृत्तगीतपठितभस्मपांस्ववधूलनतृणनिर्माल्यकुचेल-
    चीरघटककपालशरावाभरणधारणोपभोगैरनेकैश्चानवस्थितैश्चेष्टा-
    नुकरणादिभिरनुभावैरभिनयेत् |
    अत्रार्ये भवतः -
    इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात् |
    विविधाच्चित्तविकारादुन्मादो नाम सम्भवति ||८४||
    अनिमित्तरुदितहसितोपविष्टगीतप्रधावितोत्क्रुष्टैः |
    अन्यैश्च विकारैरकृतैरुन्मादं सम्प्रयुञ्जीत ||८५||

    मरणं नाम व्याधिजमभिघातजञ्च | तत्र
    यदान्त्रयकृच्छूलदोषवैषम्य-
    गण्डपिटकज्वरविषूचिकादिभिरुत्पद्यते तद्व्याधिप्रभवम् |
    अभिघातजं तु
    शस्त्राहिदंशविषपानश्वापदगजतुरगरथपशुयानपात-
    विनाशप्रभवम् | एतयोरभिनयविशेषान्वक्ष्यामः -
    तत्र व्याधिजं विषण्णगाअत्राव्यायताङ्गविचेष्टितनिमीलितनयन-
    हिक्काश्वासोपेतानवेक्षितपरिजनाव्यक्ताक्षरकथनादिभिरनुभावैरभिनयेत्
    .
    अत्र श्लोको भवति -
    व्याधीनामेकभावो हि मरणाभिनयः स्मृतः |
    विषण्णगात्रैर्निश्चेष्टैरिन्द्रिअयैश्च विवर्जितः ||८६||
    अभिघातजे तु नानाप्रकाराअभिनयविशेषाः.
    शस्त्रक्षताहिदष्टविषपीत-
    गजादिपतितश्वापदहताः | यथा तत्र शस्त्रक्षते तावत्सहसा
    भूमिपतनवेपन-
    स्फुरणादिभिरभिनयः प्रयोक्तव्यः | अहिदष्टविषपीतयोर्विषयोगो
    यथा
    कार्श्यवेपथुविदाहहिक्काफेनस्कन्धभङ्गजडतामरणानीत्यष्टौ
    विषवेगाः |
    अत्र श्लोकौ भवतः -
    कार्श्यं तु प्रथमे वेगे द्वितीये वेपथुर्भवेत् |
    दाहं तृतीये हिक्कां च चतुर्थे सम्प्रयोजयेत् ||८७||
    फेनञ्च पञ्चमे कुर्यात्षष्ठे स्कन्धस्य भञ्जनम् |
    जडतां सप्तमे कुर्यादष्टमे मरणं भवेत् ||८८||
    अत्रार्या भवति -
    श्वापदगजतुरगरथोद्भवं तु पशुयानपतनजं वाऽपि |
    शास्त्रक्षतवत्कुर्यादनवेक्षितगात्रसञ्चारम् ||८९||
    इत्येव मरणं ज्ञेयं नानावस्थान्तरात्मकम् |
    प्रयोक्तव्यं बुधैः सम्यग्यथा भवाङ्गचेष्टितैः ||९०||

    त्रासो नाम विद्युदुल्काशनिपातनिर्घाताम्बुधरमहासत्त्वपशु-
    रवादिभिर्विभावैरुत्पद्यते | तमभिनयेत्संक्षिप्ताङ्गोत्कम्पनवेपथु-
    स्तम्भरोमाञ्चगद्गदप्रलापादिभिरनुभावैः |
    अत्र श्लोको भवति -
    महाभैरवनादद्यैस्त्रासः समुपजायते |
    स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् ||९१||

    वितर्को नाम सन्देहविमर्शविप्रतिपत्त्यादिभिर्विभावैरुत्पद्यते |
    तमभिन-
    येद्विविधविचारितप्रश्नसम्प्रधारणमन्त्रसङ्गूहनादिभिरनुभावैः
    .
    अत्र श्लोको भवति -
    विचारणादिसम्भूतः सन्देहातिशयात्मकः |
    वितर्कः सोऽभिनेयस्तु शिरोभ्रूक्षेपकम्पनैः ||९२||

    एवमेते त्रयस्त्रिंशद्व्यभिचारिणो भावा देशकालावस्था-
    नुरूप्येणामगतपरगतमध्यस्था उत्तममध्यमाधमैः
    स्त्रीपुंसैः स्वप्रयोगवशादुपपाद्या इति |
    त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः |
    सात्त्विकांस्तु पुनर्भावान्प्रवक्ष्याम्यनुपूर्वशः ||९३||

    अत्राह - किमन्ये भावाः सत्त्वेन विनाऽभिनीयन्ते यस्मादुच्यते
    एते सात्त्विका इति | अत्रोच्यते -
    इह हि सत्त्वं नाम मनःप्रभवम् | तच्च समाहितमनस्त्वादुच्यते
    .
    मनसः समाधौ सत्त्वनिष्पत्तिर्भवति | तस्य च योऽसौ स्वभावो
    रोमाञ्चाश्रुवैवर्ण्यादिलक्षणो यथाभावोपगतः स न
    शक्योऽन्यमनसा
    कर्तुमिति | लोकस्वभावानुकरणत्वाच्च नाट्यस्य सत्त्वमीप्सितम् |
    को दृष्टान्तः - इह हि नाट्याधर्मिप्रवृत्ताः सुखदुःखकृता
    भावास्तथा
    सत्त्वविशुद्धाः कार्या यथा सरूपा भवन्ति | तत्र दुःखं नाम
    रोदनात्मकं
    तत्कथमदुःखितेन सुखं च प्रहर्षात्मकमसुखितेन वाभिनेयम् |
    एतदेवास्य सत्त्वं यत् दुःखितेन सुखितेन वाऽश्रुरोमाञ्चौ
    दर्शियितव्यौ
    इति कृत्वा सात्त्विका भावा इत्यभिव्याख्याताः | त इमे -
    स्तम्भः स्वेदोऽथ रोमाअञ्चः स्वरभेदोऽथ वेपथुः |
    वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ||९४||
    अत्रार्याः | तत्र -
    क्रोधभयहर्षलजादुःखश्रमरोगतापघातेभ्यः |
    व्यायामक्लमधर्मैः स्वेदः सम्पीडनाच्चैव ||९५||
    हर्षभयशोकविस्मयविषादरोषादिसम्भवः स्तम्भः |
    शीतभयहर्षरोषस्पर्शजरारोगजः कम्पः ||९६||
    आनन्दामर्षाभ्यां धूमाञ्जनजृम्भणाद्भयाच्छोकात् |
    अनिमेषप्रेक्षणतः शीताद्रोगाद्भवेदश्रु ||९७||
    शीतक्रोधभयश्रमरोगक्लमतापजं च वैवर्ण्यम् |
    स्पर्शभयशीतहर्षात् क्रोधाद्रोगाच्च रोमाञ्चः ||९८||
    स्वरभेदो भयहर्षक्रोधजरारौक्ष्यरोगमदजनितः |
    श्रममूर्छमदनिद्राभिघातमोहादिभिः प्रलयः ||९९||
    एवमेते बुधैर्ज्ञेया भावा ह्यष्टौ तु सात्त्विकाः |
    कर्म चैषां प्रवक्ष्यामि रसभावानुभावकम् ||१००||
    निःसंज्ञो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः |
    स्कन्नगात्रतया चैव स्तम्भं त्वभिनयेद्बुधः ||१०१||
    व्यजनग्रहणाच्चापि स्वेदापनयनेन च |
    स्वेदस्याभिनयो योज्यस्तथा वाताभिलाषतः ||१०२||
    मुहुः कण्टिकितत्वेन तथोल्लुकसनेन च |
    पुलकेन च रोमाञ्चं गात्रस्पर्शेन दर्शयेत् ||१०३||
    स्वरभेदोऽभिनेतव्यो भिन्नगद्गदनिस्वनैः |
    वेपनात्स्फुरणात्कम्पाद्वेपथुं सम्प्रदर्शयेत् ||१०४||
    मुखवर्णपरावृत्त्या नाडीपीडनयोगतः |
    वैवर्ण्यमभिनेतव्यं प्रयत्नात्तद्धि दुष्करम् ||१०५||
    बाष्पाम्बुप्लुतनेत्रत्वान्नेत्रसंमार्जनेन च |
    मुहुरश्रुकणापातैरस्रं त्वभिनयेद्बुधः ||१०६||
    निश्चेष्टो निष्प्रकम्पत्वादव्यक्तश्वसितादपि |
    महीनिपतनाच्चापि प्रलयाभिनयो भवेत् ||१०७||

    एकोनपञ्चाशदिमे यथावद्भावास्त्र्यवस्था गदिता मयेह |
    भूयश्च ये यत्र रसे नियोज्यास्तान् श्रोतुमर्हन्ति च विप्रमुख्याः
    ||१०८||

    [अत्र श्लोकाः -
    शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा |
    विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ||
    रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि |
    स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ||
    विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः |
    मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ||
    क्रोधामर्षौ च हासश्च शोकोऽपस्मार एव च |
    दैन्यं च मरणं चैव रतिरुत्साहसंयुता ||
    त्रासवैवर्ण्यरुदितैः स्वरभेदः शमोऽपि च |
    जडता च तथा षट् च चत्वारिंशत्प्रकीर्तिताः ||]
    आलस्यौग्र्यजुगुप्साख्यैरेवं भावैस्तु वर्जिताः |
    उद्भावयन्ति शृङ्गारं सर्वे भावाः स्वसंज्ञया ||१०९||
    [यथाऽवसरमेते हि स्थायिसञ्चारिसत्त्वजाः |
    उद्दीपयन्ति शृङ्गारं रसमासाद्य संज्ञितम् ||]
    ग्लानिः शङ्का ह्यसूया च श्रमश्चपलता तथा |
    सुप्तं निद्रावहित्थं च हास्ये भावाः प्रकीर्तिताः ||११०||
    निर्वेदश्चैव चिन्ता च दैन्यं ग्लान्यास्रमेव च
    जडता मरणं चैव व्याधिश्च करुणे स्मृताः ||१११||
    गर्वोऽसूया मदोत्साहावावेगोऽमर्ष एव च |
    क्रोधश्चपलतौग्र्यं च विज्ञेया रौद्रसम्भवाः ||११२||
    असम्मोहस्तथोत्साह आवेगो हर्ष एव च |
    मतिश्चैव तथोग्रत्वममर्षो मद एव च ||११३||
    रोमाञ्चः स्वरभेदश्च क्रोधोऽसूया धृतिस्तथा |
    गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति हि ||११४||
    स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा |
    त्रासश्च मरणश्चैअव वैवर्ण्यं च भयानके ||११५||
    अपस्मारस्तथोन्मादो विषादो मद एव च |
    मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रयाः ||११६||
    स्तम्भः स्वेदश्च मोहश्च रोमाञ्चो विस्मयस्तथा |
    आवेगो जडता हर्षो मूर्छा चैवाद्भुताश्रयाः ||११७||
    ये त्वेते सात्त्विका भावा नानाभिनयसंश्रिताः |
    रसेष्वेतेषु सर्वे ते ज्ञेया नाट्यप्रयोक्तृभिः ||११८||
    न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगतः |
    भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च ||११९||
    [बहूनां समवेतानां रूपं यस्य भवेद्बहु |
    स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ||
    दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं रसम् |
    ते तु सञ्चारिणो ज्ञेयास्ते हि स्थायित्वमागताः ||
    विभावानुभावयुतो ह्यङ्गवस्तुसमाश्रयः |
    संचारिभिस्तु संयुक्तः स्थाय्येव तु रसो भवेत् ||
    स्थायी सत्त्वातिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः |
    सञ्चार्याकारमात्रेण स्थायी यस्मादवस्थितः ||
    ये त्वेते सात्त्विका भावा नानाभिनययोजिताः |
    रसेष्वेतेषु सर्वेषु ते ज्ञेया नाट्यकोविदैः ||
    न ह्येकरसजं काव्यं नैकभावैकवृत्तिकम् |
    विमर्दे रागमायाति प्रयुक्तं हि प्रयत्नतः ||
    भावा वाऽपि रसा वाऽपि प्रवृत्तिर्वृत्तिरेव वा |
    बीभत्साद्भुतशान्तानां त्रैविध्यं नात्र कथ्यते ||
    षण्णां रसानां त्रैविध्यं नानाभावारसान्वितम् |
    सत्त्वप्रयोजितो ह्यर्थः प्रयोगोऽत्र विराजते ||
    विदित्वा हि विराजन्ते लोके चित्रं हि दुर्लभम् ||]
    नानाभावार्थसंपन्नाः स्थायिसत्त्वाभिचारिणः |
    पुष्पावकीर्णाः कर्तव्याः काव्येषु हि रसा बुधैः ||१२०||
    एवं रसाश्च भावाश्च व्यवस्था नाटके स्मृताः |
    य एवमेताञ्जानाति स गच्छेत्सिद्धिमुत्तमाम् ||१२१||

    इति श्रीभारतीये नाट्यशास्त्रे भावव्यञ्जको नाम सप्तमोऽध्यायः ||

    Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com

कोई टिप्पणी नहीं: