गुरुवार, 7 अप्रैल 2011

नाट्यशास्त्र अध्याय 6

.. नाट्यशास्त्रम् अध्याय ६ ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ षष्ठोऽध्यायः .
पूर्वरङ्गविधिं श्रुत्वापुनराहुर्महत्तमाः .
भरतं मुनयः सर्वे प्रश्नान्पञ्चाभिधत्स्व नः .. १..
ये रसा इति पठ्यन्ते नाट्ये नाट्यविचक्षणैः .
रसत्वं केन वै तेषामेतदाख्यातुमर्हसि .. २..
भावाश्चैव कथं प्रोक्ताः किं वा ते भावयन्त्यपि .
संग्रहं कारिकां चैव निरुक्तं चैव तत्वतः .. ३..
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः .
प्रत्युवाच पुनर्वाक्यं रसभावविकल्पनम् .. ४..
अहं वः कथयिष्यामि निखिलेन तपोधनाः .
संग्रहं कारिकां चैव निरुक्तं च यथाक्रमम् .. ५..
न शक्यमस्य नाट्यस्य गन्तुमन्तं कथञ्चन .
कस्माद्बहुत्वाज्ज्ञानानां शिल्पानां वाप्यनन्ततः .. ६..
एकस्यापि न वै शक्यस्त्वन्तो ज्ञानार्णवस्य हि .
गन्तुं किं पुनरन्येषां ज्ञानानामर्थतत्त्वतः .. ७..
किन्त्वल्पसूत्रग्रन्थार्थमनुमानप्रसाधकम् .
नाट्यस्यास्य प्रवक्ष्यामि रसभावादिसङ्ग्रहम् .. ८..
विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः .
निबन्धो यो समासेन सङ्ग्रहं तं विदुर्बुधाः .. ९..
रसा भावा ह्यभिनयाः धर्मी वृत्तिप्रवृत्तयः .
सिद्धिः स्वरास्तथातोद्यं गानं रङ्गश्च सङ्ग्रहः .. १०..
अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः .
सूत्रतः साऽनुमतव्या कारिकार्थप्रदर्शिनी .. ११..
नानानामाश्रयोत्पन्नं निघण्टुनिगमान्वितम् .
धात्वर्थहेतुसंयुक्तं नानासिद्धान्तसाधितम् .. १२..
स्थापितोऽर्थो भवेद्यत्र समासेनार्थासूचकः .
धात्वर्थवचनेनेह निरुक्तं तत्प्रचक्षते .. १३..
सङ्ग्रहो यो मया प्रोक्तः समासेन द्विजोत्तमाः .
विस्तरं तस्य वक्ष्यामि सनिरुक्तं सकारिकम् .. १४..
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः .
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः .. १५..
एते ह्यष्टौ रसाः प्रोक्ता द्रुहिनेन महात्मना .
पुनश्च भावान्वक्ष्यामि स्थायिसञ्चारिसत्त्वजान् .. १६..
रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा .
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः .. १७..
निर्वेदग्लानिशङ्काख्यास्तथासूया मदः श्रमः .
आलस्यं चैव दैन्यं च चिन्तामोहः स्मृतिर्धृतिः .. १८..
व्रीडा चपलता हर्ष आवेगो जडता तथा .
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च .. १९..
सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता .
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च .. २०..
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः .
त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः .. २१..
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः .
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः .. २२..
आङ्गिकौ वाचिकश्चैव ह्याहार्यः सात्विकस्तथा .
चत्वारोऽभिनया ह्येते विज्ञेया नाट्यसंश्रयाः .. २३..
लोकधर्मी नाट्यधर्मी धर्मीति द्विविधः स्मृतः .
भारती सात्वती चैव कैशिक्यारभटी तथा .. २४..
चतस्रो वृत्तयो ह्येता यासु नाट्यं प्रतिष्ठितम् .
आवन्ती दाक्षिणात्या च तथा चैवोढ्रमागधी .. २५..
पाञ्चालमध्यमा चेति विज्ञेयास्तु प्रवृत्तयः .
दैविकी मानुषी चैव सिद्धिः स्याद्द्विविधैव तु .. २६..
शारीराश्चैव वैणाश्च सप्त षड्जादयः स्वराः .
[निषादर्षभगान्धारमध्यपञ्चमधैवताः ..]
ततं चैवावनद्धं च घनं सुषिरमेव च .. २७..
चतुर्विधं च विज्ञेयमातोद्यं लक्षणान्वितम् .
ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्करम् .. २८..
घनस्तु तालो विज्ञेयः सुषिरो वंश एव च .
प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम् ..२९..
गानं पञ्चविधं ज्ञेयं ध्रुवायोगसमन्वितम् .
चतुरस्रो विकृष्टश्च रङ्गस्त्र्यश्रश्च कीर्तितः .. ३०..
एवमेषोऽल्पसूत्रार्थो निर्दिष्टो नाट्यसंग्रहः .
अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् .. ३१..

तत्र रसानेव तावदादावभिव्याख्यास्यामः . न हि रसादृते
कश्चिदर्थः प्रवर्तते .
तत्र विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः .
को दृष्टान्तः . अत्राह - यथा हि
नानाव्यञ्जनौषधिद्रव्यसंयोगाद्रसनिष्पत्तिः तथा
नानाभावोपगमाद्रसनिष्पत्तिः . यथा हि -
गुडादिभिर्द्रव्यैर्व्यञ्जनैरौषधिभिश्च षाडवादयो रसा
निर्वर्त्यन्ते
तथा नानाभावोपगता अपि स्थायिनो भावा रसत्वमाप्नुवन्तीति .
अत्राह - रस इति कः पदार्थः . उच्यते - आस्वाद्यत्वात् .
कथमास्वाद्यते रसः .
यथा हि नानाव्यञ्जनसंस्कृतमन्नं भुञ्जान रसानास्वादयन्ति
सुमनसः पुरुष हर्षादींश्चाधिगच्छन्ति तथा
नानाभावाभिनयव्यञ्जितान् वागङ्गसत्तोपेतान्
स्थायिभावानास्वादयन्ति सुमनसः प्रेक्षकाः
हर्षादींश्चाधिगच्छन्ति . तस्मान्नाट्यरसा
इत्यभिव्याख्याताः .
अत्रानुवंश्यौ श्लोकौ भवतः -

यथा बहुद्रव्ययुतैर्व्यञ्जनैर्बहुभिर्युतम् .
आस्वादयन्ति भुञ्जाना भक्तं भक्तविदो जनाः .. ३२..
भावाभिनयसंबद्धान्स्थायिभावांस्तथा बुधाः .
आस्वादयन्ति मनसा तस्मान्नाट्यरसाः स्मृताः .. ३३..
अत्राह - किं रसेभ्यो भावानामभिनिर्वृत्तिरुताहो भावेभ्यो
रसानामिति . केषाञ्चिन्मतं
परस्परसम्बन्धादेषामभिनिर्वृत्तिरिति .
तन्न . कस्मात् . दृश्यते हि भावेभ्यो रसानामभिनिर्वृत्तिर्न तु
रसेभ्यो भावानामभिनिर्वृत्तिरिति . भवन्ति चात्र श्लोकाः -
नानाभिनयसम्बद्धान्भावयन्ति रसनिमान् .
यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः .. ३४..
नानाद्रव्यैबहुविधैर्व्यञ्जनं भाव्यते यथा .
एवं भावा भावयन्ति रसानभिनयैः सह .. ३५..
न भावहीनोऽस्ति रसो न भावो रसवर्जितः .
परस्परकृता सिद्धिस्तयोरभिनये भवेत् .. ३६..
व्यञ्जनौषधिसंयोगो यथान्नं स्वादुतां नयेत् .
एवं भावा रसाश्चैव भावयन्ति परस्परम् .. ३७..
यथा बीजाद्भवेद्वृक्षो वृक्षात्पुष्पं फलं यथा .
तथा मूलं रसाः सर्वे तेभ्यो भावा व्यवस्थिताः .. ३८..
तदेषं रसानामुत्पत्तिवर्णदैवतनिदर्शनान्यभिव्याख्यास्यामः .
तेषामुत्पत्तिहेतवश्चत्वारो रसाः . तद्यथा - शृङ्गारो
रौद्रौ वीरो बीभत्स इति . अत्र -
शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः .
वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः .. ३९..
शृङ्गारानुकृतिर्या तु स हास्यस्तु प्रकीर्तितः .
रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः .. ४०..
वीरस्यापि च यत्कर्म सोऽद्भुतः परिकीर्तितः .
बीभत्सदर्शनं यच्च ज्ञेयः स तु भयानकः .. ४१..
अथ वर्णाः -
श्यामो भवति शृङ्गारः सितो हास्यः प्रकीर्तितः .
कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः .. ४२..
गौरो वीरस्तु विज्ञेयः कृष्णश्चैव भयानकः .
नीलवर्णस्तु बीभत्सः पीतश्चैवाद्भुतः स्मृतः .. ४३..
अथ दैवतानि -
शृङ्गारो विष्णुदेवत्यो हास्यः प्रमथदैवतः .
रौद्रो रुद्राधिदैवत्यः करुणो यमदैवतः .. ४४..
बीभत्सस्य महाकालः कालदेवो भयानकः .
वीरो महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः .. ४५..
एतमेतेषां रसानामुत्पत्तिवर्णदैवतान्यभिव्याख्यातानि .
इदानीमनुभावविभावव्यभिचारिसंयुक्तानां
लक्षणनिदर्शनान्यभिव्याख्यास्यामः . स्थायिभावांश्च
रसत्वमुपनेष्यामः .
तत्र शृङ्गारो नाम रतिस्थायिभावप्रभवः . उज्ज्वलवेषात्मकः .
यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा
तच्छृङ्गारेणोपमीयते .
यस्तावदुज्ज्वलवेषः स शृङ्गारवानित्युच्यते . यथा च
गोत्रकुलाचारोत्पन्नान्याप्तोपदेशसिद्धानि पुंसां नामानि भवन्ति
तथैवेषां रसानां भावानां च नाट्याश्रितानां
चार्थानामाचारोत्पन्नान्योप्तोपदेशसिद्धानि नामानि .
एवमेष आचारसिद्धो हृद्योज्ज्वलवेषात्मकत्वाच्छृङ्गारो रसः
.
स च स्त्रीपुरुषहेतुक उत्तमयुवप्रकृतिः .
तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश्च . तत्र
सम्भोगस्तावत्
ऋतुमाल्यानुलेपनालङ्कारेष्टजनविषयवरभवनोपभोगोपवन-
गमनानुभवनश्रवणदर्शनक्रीडालीलादिभिर्विभावैरुत्पद्यते
.
तस्य
नयनचातुर्यभ्रूक्षेपकटाक्षसञ्चारललितमधुराङ्गहार-
वाक्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः .
व्यभिचारिणश्चास्यालस्यौग्र्यजुगुप्सावर्ज्याः .
विप्रलम्भकृतस्तु
निर्वेदग्लानिशङ्कासूयाश्रमचिन्तौत्सुक्यनिद्रास्वप्नविबोधव्याध्युन्माद-
मदापस्मारजाड्यमरणादिभिरनुभावैरभिनेतव्यः .
अत्राह - यद्ययं रतिप्रभवः शृङ्गारः कथमस्य करुणाश्रयिणो
भावा भवन्ति .
अत्रोच्यते - पूर्वमेवाभिहितं सम्भोगविप्रलम्भकृतः शृङ्गार
इति .
वैशिकशास्त्रकारैश्च दशावस्थोऽभिहितः . ताश्च
सामान्याभिनये वक्ष्यामः .
करुणस्तु
शापक्लेशविनिपतितेष्टजनविभवनाशवधबन्धसमुत्थो
निरपेक्षभावः .
औत्सुक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भकृतः .
एवमन्यः करुणोऽन्यश्च विप्रलम्भ इति . एवमेष
सर्वभावसंयुक्तः शृङ्गारो भवति .
अपि च
सुखप्रायेषु सम्पन्नः ऋतुमाल्यदिसेवकः .
पुरुषः प्रमदायुक्तः शृङ्गार इति संज्ञितः .. ४६..
अपि चात्र सूत्रार्थानुविद्धे आर्ये भवतः .
ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः .
उपवनगमनविहारैः शृङ्गाररसः समुद्भवति .. ४७..
नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमोदैश्च .
मधुरैश्चाङ्गविहारैस्तस्याभिनयः प्रयोक्तव्यः .. ४८..

अथ हास्यो नाम हासस्थायिभावात्मकः . स च
विकृतपरवेषालङ्कारधार्ष्ट्यलौल्यकुहकासत्प्रलापव्यङ्गदर्शन-
दोषोदाहरणादिभिर्विभावैरुत्पद्यते . तस्योष्ठनासाकपोलस्पन्दन-
दृष्टिव्याकोशाकुञ्चनस्वेदास्यरागपार्श्वग्रहणादिभिरनुभावैरभिनयः
प्रयोक्तव्यः .
व्यभिचारिणश्चास्यावहित्थालस्यतन्द्रानिद्रास्वप्नप्रबोधादयः .
द्विविधश्चायमात्मस्थः परस्थश्च . यदा स्वयं हसति
तदाऽत्मस्थः .
यदा तु परं हासयति तदा परस्थः .
अत्रानुवंश्ये आर्ये भवतः .
विपरितालङ्कारैर्विकृताचराभिधानवेषैश्च .
विकृतैरर्थविशेषैर्हसतीति रसः स्मृतो हास्यः .. ४९..
विकृताचारैर्वाक्यैरङ्गविकारैश्च विकृतवेषैश्च .
हासयति जनं यस्मात्तस्मज्ज्ज्ञेयो रसो हास्यः ..५०..
स्त्रीनीचप्रकृतावेष भूयिष्ठं दृश्यते रसः .
षड्भेदाश्चास्य विज्ञेयास्तांश्च वक्ष्याम्यहं पुनः .. ५१..
स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितम् .
द्वौ द्वौ भेदौ स्यातामुत्तममध्याधमप्रकृतौ..५२..
तत्र
स्मितहसिते ज्येष्ठानां मध्यानां विहसितोपहसिते च .
अधमानामपहसितं ह्यतिहसितं चापि विज्ञेयम् .. ५३..
अत्र श्लोकाः -
ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः .
अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् .. ५४..
उत्फुल्लानननेत्रं तु गण्डैर्विकसितैरथ .
किञ्चिल्लक्षितदन्तं च हसितं तद्विधीयते .. ५५..
अथ मध्यमानाम् -
आकुञ्चिताक्षिगण्डं यत्सस्वनं मधुरं तथा .
कालागतं सास्यरागं तद्वै विहसितं भवेत्..५६..
उत्फुल्लनासिकं यत्तु जिह्मदृष्टिनिरीक्षितम् .
निकुञ्चिताङ्गकशिरस्तच्चोपहसितं भवेत् .. ५७..
अथाधमानाम् -
अस्थानहसितं यत्तु साश्रुनेत्रं तथैव च .
उत्कम्पितांसकशिरस्तच्चापहसिअतं भवेत् .. ५८..
संरब्धसाश्रुनेत्रं च विकृष्टस्वरमुद्धतम् .
करोपगूढपार्श्वं च तच्चातिहसितं भवेत् .. ५९..
हास्यस्थानानि यानि स्युः कार्योत्पन्नानि नाटके .
उत्तमाधममध्यानामेवं तानि प्रयोजयेत् .. ६०..
इत्येष स्वसमुत्थस्तथा परसमुत्थश्च विज्ञेयः .
द्विविधस्त्रिप्रकृतिगतस्त्र्यवस्थभावो रसो हास्यः .. ६१..

अथ करुणो नाम शोकस्थायिभावप्रभवः . स च
शापक्लेशविनिपतितेष्टजनविप्रयोगविभवनाशवधबन्धविद्रवोपघात-
व्यसनसंयोगादिभिर्विभावैः समुपजायते .
तस्याश्रुपातपरिदेवनमुखशोषणवैवर्ण्यस्रस्तगात्रतानिश्श्वास-
स्मृतिलोपादिभिरनुभावैरभिनयः प्रयोक्तव्यः .
व्यभिचारिणश्चास्य
निर्वेदग्लानिचिन्तौत्सुक्यावेगभ्रममोहश्रमभयविषाददैन्यव्याधि-
जडतोन्मादापस्मारत्रासालस्यमरणस्तम्भवेपथुवैवर्ण्याश्रु-
स्वरभेदादयः .
अत्रार्ये भवतः -
इष्टवधदर्शनाद्वा विप्रियवचनस्य संश्रवाद्वापि .
एभिर्भावविशेषैः करुणो नाम संभवति .. ६२..
सस्वनरुदितैर्मोहागमैश्च परिदैवतैर्विलपितैश्च .
अभिनेयः करुणरसो देहायासाभिघातैश्च .. ६३..

अथ रौद्रो नाम क्रोधस्थायिभावात्मको
रक्षोदानवोद्धतमनुष्यप्रकृतिः
संग्रामहेतुकः . स च
क्रोधाधर्षणाधिक्षेपानृतवचनोपघातवाक्पा-
रुष्याभिद्रोहमात्सर्यादिभिर्विभावैरुत्पद्यते . तस्य च
ताडनपाटनपीडाच्छेदनप्रहरणाहरणशस्त्रसंपातसंप्रहाररुधिराकर्षणाद्यानि
कर्माणि . पुनश्च
रक्तनयनभ्रुकुटिकरणदन्तोष्ठपीडनगण्डस्फुरण-
हस्ताग्रनिष्पेषादिरनुभावैरभिनयः प्रयोक्तव्यः .

भावाश्चास्यासम्मोहोत्साहावेगामर्षचपलतौग्र्यगर्वस्वेदवेपथुरोमाञ्च-
गद्गदादयः .
अत्राह - यदभिहितं रक्षोदानवादीनां रौद्रो रसः .
किमन्येषां नास्ति . उच्यते -
अस्त्यन्येषामपि रौद्रो रसः . किन्त्वधिकारोऽत्र गृह्यते . ते हि
स्वभावत
एव रौद्रः . कस्मात् .
बहुबाहवो बहुमुखाः प्रोद्धूतविकीर्णपिङ्गलशिरोजाः .
रक्तोद्वृत्तविलोचना भीमासितरूपिणश्चैव .
यच्च किञ्चित्समारम्भते स्वभावचेष्टितं वागङ्गादिकं
तत्सर्वं रौद्रमेवैषाम् . शृङ्गारश्च तैः प्रायशः
प्रसभ्यं सेव्यते . तेषां
चानुकारिणो ये पुरुषस्तेषामपि सङ्ग्रामसम्प्रहारकृतो रौद्रो
रसोऽनुमन्तव्यः .
अत्रानुवंश्ये आर्ये भवतः -
युद्धप्रहारघातनविकृतच्छेदनविदारणैश्चैव .
संङ्ग्रामसम्भ्रमाद्यैरेभिः सञ्जायते रौद्रः .. ६४..
नानाप्रहरणमोक्षैः शिरःकबन्धभुजकर्तनैश्चैव .
एभिश्चार्थविशेषैरस्याभिनयः प्रयोक्तव्यः .. ६५..
इति रौद्ररसो दृष्टो रौद्रवागङ्गचेष्टितः .
शस्त्रप्रहारभूयिष्ठ उग्रकर्मक्रियात्मकः .. ६६..

अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः . स
चासंमोहाध्यवसायन-
विनयबलपराक्रमशक्तिप्रतापप्रभावादिभिर्विभावैरुत्पद्यते .
तस्य स्थैर्यधैर्यशौर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः
प्रयोक्तव्यः . भावाश्चास्य
धृतिमतिगर्वावेगौग्र्यामर्षस्मृतिरोमाञ्चादयः .

अत्रार्ये रसविचारमुखे -
उत्साहाध्यवसायादविषादित्वादविस्मयामोहात् .
विविधादर्थविशेषाद्वीररसो नाम सम्भवति .. ६७..
स्थितिधैर्यवीर्यगर्वैरुत्साहपराक्रमप्रभावैश्च .
वाक्यैश्चाक्षेपकृतैर्वीररसः सम्यगभिनेयः .. ६८..

अथ भयानको नाम भयस्थायिभावात्मकः . स च
विकृतरवसत्त्वदर्शनशिवोलूकत्रासोद्वेगशून्यागारारण्यगमनस्वजनवधबन्ध-
दर्शनश्रुतिकथादिभिर्विभावैरुत्पद्यते .तस्य
प्रवेपितकरचरणनयनचपलपुलकमुखवैवर्ण्यस्वरभेदादिभिरनुभावैरभिनयः
प्रयोक्तव्यः .
भावाश्चास्य
स्तम्भस्वेदगद्गदरोमाञ्चवेपथुस्वरभेदवैवर्ण्यशङ्कामोहदैन्यावेग-
चापलजडतात्रासापस्मारमरणादयः .
अत्रार्याः -
विकृतरवसत्त्वदर्शनसंग्रामारण्यशून्यगृहगमनात् .
गुरुनृपयोरपराधात्कृतकश्च भयानको ज्ञेयः .. ६९..
गात्रमुखदृष्टिभेदैरूरुस्तम्भाभिवीक्षणोद्वेगैः .
सन्नमुखशोषहृदयस्पन्दनरोमोद्गमैश्च भयम् .. ७०..
एतत्स्वभावजं स्यात्सत्त्वसमुत्थं तथैव कर्तव्यम् .
पुनरेभिरेव भावैः कृतकं मृदुचेष्टितैः कार्यम् ..७१..
करचरणवेपथुस्तम्भगात्रहृदयप्रकम्पेन .
शुष्कोष्ठतालुकण्ठैर्भयानको नित्यमभिनेयः .. ७२..

अथ बीभत्सो नाम जुगुप्सास्थायिभावात्मकः . स
चाहृद्याप्रियाचोष्यानिष्टश्रवणदर्शनकीर्तनादिभिर्विभावैरुत्पद्यते
. तस्य
सर्वाङ्गसंहारमुखविकूणनोल्लेखननिष्ठीवनोद्वेजनादिभिरनुभावैरभिनयः
प्रयोक्तव्यः . भावाश्चास्यापस्मारोद्वेगावेगमोहव्याधिमरणादयः .
अत्रानुवंश्ये आर्ये भवतः -
अनभिमतदर्शनेन च गन्धरसस्पर्शशब्ददोषैश्च .
उद्वेजनैश्च बहुभिर्बीभत्सरसः समुद्भवति .. ७३..
मुखनेत्रविकूणनया नासाप्रच्छादनावनमितास्यैः .
अव्यक्तपादपतनैर्बीभत्सः सम्यगभिनेयः .. ७४..

अथाद्भुतो नाम विस्मयस्थायिभावात्मकः . स च
दिव्यजनदर्शनेप्सितमनोरथावाप्त्युपवनदेवकुलादिगमनसभाविमान-
मायेन्द्रजालसम्भावनादिभिर्विभावैरुत्पद्यते . तस्य
नयनविस्तारानिमेषप्रेक्षणरोमाञ्चाश्रुस्वेदहर्षसाधुवाददानप्रबन्ध-
हाहाकारबाहुवदनचेलाङ्गुलिभ्रमणादिभिरनुभावैरभिनयः
प्रयोक्तव्यः .
भावाश्चास्य
स्तम्भाश्रुस्वेदगद्गदरोमाञ्चावेगसम्भ्रमजडताप्रलयादयः .
अत्रानुवंश्ये आर्ये भवतः -
यत्त्वातिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं वा .
तत्सर्वमद्भुतरसे विभावरूपं हि विज्ञेयम् .. ७५..
स्पर्शग्रहोल्लुकसनैर्हाहाकारैश्च साधुवादैश्च .
वेपथुगद्गदवचनैः स्वेदाद्यैरभिनयस्तस्य .. ७६..


शृङ्गारं त्रिविधं विद्यात्द्वाङ्नैपथ्यक्रियात्मकम् .
अङ्गनैपथ्यवाक्यैश्च हास्यरौद्रौ त्रिधा स्मृतौ .. ७७..
धर्मोपघातजश्चैव तथार्थापचयोद्भवः .
तथा शोककृतश्चैव करुणस्त्रिविधः स्मृतः .. ७८..
दानवीरं धर्मवीरं युद्धवीरं तथैव च .
रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि .. ७९..
व्याजाच्चैवापराधाच्च वित्रासितकमेव च .
पुनर्भयानकञ्चैव विद्यात् त्रिविधमेव हि .. ८०..
बीभत्सः क्षोभजः शुद्ध उद्वेगी स्यात् द्वितीयकः .
विष्ठाकृमिभिरुद्वेगी क्षोभजो रुधिरादिअजः .. ८१..
दिव्यश्चानन्दजश्चैव द्विधा ख्यातोऽद्भुतो रसः .
दिव्यदर्शनजो दिव्यो हर्षादानदजः स्मृतः .. ८२..

[अथ शान्तो नाम शमस्थायिभावात्मको मोक्षप्रवर्तकः . स तु
तत्त्वज्ञानवैराग्याशयशुद्ध्यादिभिर्विभावैः समुत्पद्यते . तस्य
यमनियमाध्यात्मध्यानधारणोपासनसर्वभूतदयालिङ्गग्रहणादिभि-
रनुभावैरभिनयः प्रयोक्तव्यः . व्यभिचाणश्चास्य
निर्वेदस्मृतिधृतिसर्वाश्रमशौचस्तम्भरोमाञ्चादयः .
अत्रार्याः श्लोकाश्च भवन्ति -
मोक्षाध्यात्मसमुत्थस्तत्त्वज्ञानार्थहेतुसंयुक्तः .
नैःश्रेयसोपदिष्टः शान्तरसो नाम सम्भवति ..
बुद्धीन्द्रियकर्मेन्द्रियसंरोधाध्यात्मसंस्थितोपेतः .
सर्वप्राणिसुखहितः शान्तरसो नाम विज्ञेयः ..
न यत्र दुःखं न सुखं न द्वेषो नापि मत्सरः .
समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ..
भावा विकारा रत्याद्याः शान्तस्तु प्रकृतिर्मतः .
विकारः प्रकृतैर्जातः पुनस्तत्रैव लीयते .
स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते ..
पुनर्निमित्तापाये च शान्त एवोपलीयते .
एवं नवरसा दृष्टा नाट्यज्ञैर्लक्षणान्विअताः ..]
एवमेते रसा ज्ञेयास्त्वष्टौ लक्षणलक्षिताः .
अत ऊर्ध्वं प्रवक्ष्यामि भावानामपि लक्षणम् .. ८३..

इति भारतीये नाट्यशास्त्रे रसाध्यायः षष्ठः ..

Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com

नाट्यशास्त्र पंचम अध्याय


    .. नाट्यशास्त्रम् अध्याय ५ ..
    .. श्रीरस्तु ..
    भरतमुनिप्रणीतं नाट्यशास्त्रम्
    अथ पूर्वरङ्गविधानो नाम पञ्चमोऽध्यायः .

    भरतस्य वचः श्रुत्वा नाट्यसन्तानकारणम् .
    पुनरेवाब्रुवन्वाक्यमृषयो हृष्टमानसाः .. १..
    यथा नाट्यस्य जन्मेदं जर्जरस्य च सम्भवः .
    विघ्नानां शमनं चैव दैवतानां च पूजनम् .. २..
    तदस्माभिः श्रुतं सर्वं गृहीत्वा चावधारितम् .
    निखिलेन यथातत्त्वमिच्छामो वेदितुं पुनः .. ३..
    पूर्वरङ्गं महातेजः सर्वलक्षणसंयुतम् .
    यथा बुद्ध्यामहे ब्रह्मंस्तथा व्याख्यातुमर्हसि .. ४..
    तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः .
    प्रत्युवाच पुनर्वाक्यं पूर्वरङ्गविधिं प्रति .. ५..
    पूर्वरङ्गं महाभागा गदतो मे निबोधत .
    पादभागाः कलाश्चैव परिवर्तास्तथैव च .. ६..
    यस्माद्रङ्गे प्रयोगोऽयं पूर्वमेव प्रयुज्यते .
    तस्मादयं पूर्वरङ्गो विज्ञेयो द्विजसत्तमाः .. ७..
    अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः .
    तन्त्रीभाण्डसमायोअगैः पाठ्ययोगकृतैस्तथा .. ८..
    प्रत्याहारोऽवतरणं तथा ह्यारम्भ एव च .
    आश्रावणा वक्त्रपाणिस्तथा च परिघट्टना .. ९..
    सङ्घोटना ततः कार्या मार्गासारितमेव च .
    ज्येष्ठमध्यकनिष्ठानि तथैवासारतानि च .. १०..
    एताअनि तु बहिर्गीतान्यन्तर्यवनिकागतैः .
    प्रयोक्तृभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि च ..११..
    ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् .
    विघट्य वै यवनिकां नृत्तपाठ्यकृतानि तु .. १२..
    गीतानां मद्रकादीनां योज्यमेकं तु गीतकम् .
    वर्धमानमथापीह ताण्डवं यत्र युज्यते .. १३..
    ततश्चोत्थापनं कार्यं परिवर्तनमेव च .
    नान्दी शुष्कावकृष्टा च रङ्गद्वारं तथैव च .. १४..
    चारि चैव ततः कार्या महाचारी तथैव च .
    त्रिकं प्ररोचनां चापि पूर्वरङ्गे भवन्ति हि .. १५..
    एतान्यङ्गानि कार्याणि पूर्वरङ्गविधौ द्विजाः .
    एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः .. १६..
    कुतपस्य तु विन्यासः प्रत्याहार इति स्मृतः .
    तथावतरणं प्रोक्तं गायिकानां निवेशनम् .. १७..
    परिगीतक्रियारम्भ आरम्भ इति कीर्तितः .
    आतोद्यरञ्जनार्थं तु भवेदाश्रावणाविधिः .. १८..
    वाद्यवृत्तिविभागार्थं वक्त्रपाणिर्विधीयते .
    तन्त्र्योजःकरणार्थं तु भवेच्च परिघट्टना .. १९..
    तथा पाणिविभागार्थं भवेत्संघोटनाविधिः .
    तन्त्रीभाण्डसमायोगान्मार्गासारितमिष्यते .. २०..
    कलापातविभागार्थं भवेदासारितक्रिया .
    कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा .. २१..
    [अतः परं प्रवक्ष्यमि ह्युत्थापनविधिक्रियाम् .]
    यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः .
    पूर्वमेव तु रङ्गेऽस्मिंस्तस्मादुत्थापनं स्मृतम् .. २२..
    यस्माच्च लोकपालानां परिवृत्य चतुर्दिशम् .
    वन्दनानि प्रकुर्वन्ति तस्माच्च परिवर्तनम् .. २३..
    आशीर्वचनसंयुक्ता नित्यं यस्मात्प्रयुज्यते .
    देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता .. २४..
    अत्र शुष्काक्षरैरेव ह्यवकृष्टा ध्रुवा यतः .
    तस्माच्छुष्कावकृष्टेयं जर्जरश्लोकदर्शिता .. २५..
    यस्मादभिनयस्त्वत्र प्रथमं ह्यवतार्यते .
    रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् .. २६..
    शृङ्गारस्य प्रचरणाच्चारी सम्परिकीर्तिता .
    रौद्रप्रचरणाच्चापि महाचारीति कीर्तिता .. २७..
    विदूषकः सूत्रधारस्तथा वै पारिपार्श्वकः .
    यत्र कुर्वन्ति सञ्जल्पं तच्चापि त्रिगतं मतम् .. २८..
    उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया .
    सिद्धेनामन्त्रणा या तु विज्ञेया स प्ररोचना .. २९..
    अतः परं प्रवक्ष्यामि ह्याश्रावणविधिक्रियाम् .
    बहिर्गीतविधौ सम्यगुत्पत्तिं कारणं तथा .. ३०..
    चित्रदक्षिणवृतौ तु सप्तरूपे प्रवर्तिते .
    सोपोहने सनिर्गीते देवस्तुत्यभिनन्दिते .. ३१..
    नारदाद्यैस्तु गन्धर्वैः सभायां देवदानवाः .
    निर्गीतं श्राविताः सम्यग्लयतालसमन्वितम् .. ३२..
    तच्छ्रुत्वा तु सुखं गानं देवस्तुत्यभिनन्दितम्
    अभवन्क्षुभिताः सर्वे मात्सर्याद्दैत्यराक्षसाः .. ३३..
    सम्प्रधार्य च तेऽन्योन्यमित्यवोचन्नवस्थिताः .
    निर्गीतं तु सवादित्रमिदं गृह्णीमहे वयम् ..३४..
    सप्तरूपेण सन्तुष्टा देवाः कर्मानुकीर्तनात् .
    वयं गृह्णीम निर्गीतं तुष्यामोऽत्रैव सर्वदा .. ३५..
    ते तत्र तुष्टा दैत्यास्तु साधयन्ति पुनः पुनः .
    रुष्टाश्चापि ततो देवाः प्रत्यभाषन्त नारदम् .. ३६..
    एते तुष्यन्ति निर्गीते दानवा सह राक्षसैः .
    प्रणश्यतु प्रयोगोऽयं कथं वा मन्यते भवान् .. ३७..
    देवानां वचनं श्रुत्वा नारदो वाक्यमब्रवीत् .
    धातुवाद्याश्रयकृतं निर्गीतं मा प्रणश्यतु .. ३८..
    किन्तूपोहनसंयुक्तं धातुवाद्यविभूषितम् .
    भविष्यतीदं निर्गीतं सप्तरूपविधानतः .. ३९..
    निर्गीतेनावबद्धाश्च दैत्यदानवराक्षसाः .
    न क्षोभं न विघातं च करिष्यन्तीह तोषिताः .. ४०..
    एवं निर्गीतमेतत्तु दैत्यानां स्पर्धया द्विजाः .
    देवानां बहुमानेन बहिर्गीतमिति स्मृतम् .. ४१..
    धातुभिश्चित्रवीणायां गुरुलघ्वक्षरान्वितम् .
    वर्णालङ्कारसंयुक्तं प्रयोक्तव्यं बुधैरथ.. ४२..
    निर्गीतं गेयते यस्मादपदं वर्णयोजनात् .
    असूयया च देवानां बहिर्गीतमिदं स्मृतम् ..४३..
    निर्गीतं यन्मया प्रोक्तं सप्तरूपसमन्वितम् .
    उत्थापनादिकं यच्च तस्य कारणमुच्यते .. ४४..
    आश्रावणायां युक्तायां दैत्यास्तुष्यन्ति नित्यशः .
    वक्त्रपाणौ कृते चैव नित्यं तुष्यन्ति दानवाः .. ४५..
    परिघट्टनया तुष्टा युक्तायां राक्षसां गणाः .
    सङ्घोटनक्रियायां च तुष्यन्त्यपि च गुह्यकाः .. ४६..
    मार्गासारितमासाद्य तुष्टा यक्षा भवन्ति हि .
    गीतकेषु प्रयुक्तेषु देवास्तुष्यन्ति नित्यशः ..४७..
    वर्धमाने प्रयुक्ते तु रुद्रस्तुष्यति सानुगः .
    तथा चोत्थापने युक्ते ब्रह्मा तुष्टो भवेदिह .. ४८..
    तुष्यन्ति लोकपालाश्च प्रयुक्ते परिवर्तने .
    नान्दीप्रयोगेऽथ कृते प्रीतो भवति चन्द्रमाः .. ४९..
    युक्तायामवकृष्टायां प्रीता नागा भवन्ति हि .
    तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् ..५०..
    रङ्गद्वारे प्रयुक्ते तु विष्णुः प्रीतो भवेदिह .
    जर्जरस्य प्रयोगे तु तुष्टा विघ्नविनायकाः .. ५१..
    तथा चार्या प्रयुक्तायामुमा तुष्टा भवेदिह .
    महाचार्या प्रयुक्तायां तुष्टो भूतगणो भवेत् .. ५२..
    आश्रावणादिचार्यन्तमेतद्दैवतपूजनम् .
    पूर्वरङ्गे मया ख्यातं तथा चाङ्गविकल्पनम् .. ५३..
    देवस्तुष्यन्ति यो येन यस्य यन्मनसः प्रियम् .
    तत्तथा पूर्वरङ्गे तु मया प्रोकं द्विजोत्तमाः .. ५४..
    सर्वदैवतपूजार्हं सर्वदैवतपूजनम् .
    धन्यं यशस्यमायुष्यं पूर्वरङ्गप्रवर्तनम् ..५५..
    दैत्यदानवतुष्ट्यर्थं सर्वेषां च दिवौकसाम् .
    निर्गीतानि सगीतानि पूर्वरङ्गकृतानि तु .. ५६..
    [या विद्या यानि शिल्पानि या गतिर्यश्च चेष्टितम् .
    लोकालोकस्य जगतस्तदस्मिन्नाटकाश्रये .. ]
    निर्गीतानां सगीतानां वर्धमानस्य चैव हि .
    ध्रुवाविधाने वक्ष्यामि लक्षणं कर्म चैव हि .. ५७..
    प्रयुज्य गीतकविधिं वर्धमानमथापि च .
    गीतकान्ते ततश्चापि कार्या ह्युत्थापनी ध्रुवा .. ५८..
    अदौ द्वे च चतुर्थं चाप्यष्टमैकादशे तथा .
    गुर्वक्षराणि जानीयत्पादे ह्येकादशे तथा .. ५९..
    चतुष्पदा भवेत्सा तु चतुरश्रा तथैव च .
    चतुर्भिस्सन्निपातैश्च त्रिलया त्रियतिस्तथा .. ६०..
    परिवर्ताश्च चत्वारः पाणयस्त्रय एव च .
    जात्या चैव हि विश्लोका तां च तालेन योजयेत् .. ६१..
    शम्या तु द्विकला कार्या तलो द्विकल एव च .
    पुनश्चैककला शम्या सन्निपातः कलात्रयम् .. ६२..
    एवमष्टकलः कार्यः सन्निपातो विअचक्षणैः .
    चत्वारः सन्निपाताश्च परिवर्तः स उच्यते .. ६३..
    पूर्वं स्थितलयः कार्यः परिवर्तो विचक्षणैः .
    तृतीये सन्निपाते तु तस्या भाण्डग्रहो भवेत् .. ६४..
    एकस्मिन्परिवर्ते तु गते प्राप्ते द्वितीयके .
    कार्यं मध्यलये तज्ज्ञैः सूत्रधारप्रवेशनम् .. ६५..
    पुष्पाञ्जलिं समादाय रक्षामङ्गलसंस्कृताः .
    शुद्धवस्त्राः सुमनसस्तथा चाद्भुतदृष्टयः .. ६६..
    स्थानन्तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् .
    दीक्षिताः शुचयश्चैव प्रविशेयुः समं त्रयः .. ६७..
    भृङ्गारजर्जरधरौ भवेतां पारिपार्श्विकौ .
    मध्ये तु सूत्रभृत्ताभ्यां वृत्तः पञ्चपदीं व्रजेत् .. ६८..
    पदानि पञ्च गच्छेयुर्ब्रह्मणो यजनेच्छया .
    पदानाञ्चापि विक्षेपं व्याख्यास्याम्यनुपूर्वशः .. ६९..
    त्रितालान्तरविष्कम्भमुत्क्षिपेच्चरणं शनैः
    पार्श्वोत्थानोत्थितं चैव तन्मध्ये पातयेत्पुनः .. ७०..
    एवं पञ्चपदीं गत्वा सूत्रधारः सहेतरः .
    सूचीं वामपदे दद्याद्विक्षेपं दक्षिणेन च .. ७१..
    पुष्पाञ्जल्यपवर्गश्च कार्यो ब्राह्मेऽथ मण्डले .
    रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः .. ७२..
    ततः सललितैर्हस्तैरभिवन्द्य पितामहम् .
    अभिवादानि कार्याणि त्रीणि हस्तेन भूतले .. ७३..
    कालप्रकर्षहेतोश्च पादानां प्रविभागतः .
    सूत्रधारप्रवेशाद्यो वन्दनाभिनयान्तकः .. ७४..
    द्वितीयः परिवर्तस्तु कार्यो मध्यलयाश्रितः .
    ततः परं तृतीये तु मण्डलस्य प्रदक्षिणम् ..७५..
    भवेदाचमनं चैव जर्जरग्रहणं तथा .
    उत्थाय मण्डलात्तूर्णं दक्षिणं पादमुद्धरेत् ..७६..
    वेधं तेनैव कुर्वीत विक्षेपं वामकेन च .
    पुनश्च दक्षिणं पादं पार्श्वसंस्थं समुद्धरेत् .. ७७..
    ततश्च वामवेधस्तु विक्षेपो दक्षिणस्य च .
    इत्यनेन विधानेन सम्यक्कृत्वा प्रदिक्षणम् .. ७८..
    भृङ्गारभृतमाहूय शौचं चापि समाचरेत् .
    यथान्यायं तु कर्तव्या तेन ह्याचमनक्रिया .. ७९..
    आत्मप्रोक्षणमेवाद्भिः कर्तव्यं तु यथाक्रमम् .
    प्रयत्नकृतशौचेन सूत्रधारेण यत्नतः .. ८०..
    सन्निपातसमं ग्राह्यो जर्जरो विघ्नजर्जरः .
    प्रदक्षिणाद्यो विज्ञेयो जर्जरग्रहणान्तकः ..८१..
    तृतीयः परिवर्तस्तु विज्ञेयो वै द्रुते लये .
    गृहीत्वा जर्जरं त्वष्टौ कला जप्यं प्रयोजयेत् .. ८२..
    वामवेधं ततः कुर्याद्विक्षेपं दक्षिणस्य च .
    ततः पञ्चपदीं चैव गच्छेत्तु कुतपोन्मुखः .. ८३..
    वामवेधस्तु तत्रापि विक्षेपो दक्षिणस्य तु .
    जर्जरग्रहणाद्योऽयं कुतपाभिमुखान्तकः .. ८४..
    चतुर्थः परिवर्तस्तु कार्यो द्रुतलये पुनः .
    करपादनिपातास्तु भव्न्त्यत्र तु षोडश .. ८५..
    त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः .
    वन्दनान्यथ कार्याणि त्रीणि हस्तेन भूतले .. ८६..
    आत्मप्रोक्षणमद्भिश्च त्र्यश्रे नैव विधीयते .
    एवमुत्थापनं कार्यं ततस्तु परिवर्तनम् .. ८७..
    चतुरश्रं लये मध्ये सन्निपातैरथाष्टभिः .
    यस्या लघूनि सर्वाणि केवलं नैधनं गुरु .. ८८..
    भवेदतिजगत्यान्तु सा ध्रुवा परिवर्तनी .
    वार्तिकेन तु मार्गेण वाद्येनानुगतेन च .. ८९..
    ललितैः पादविन्यासैर्वन्द्या देवा यथादिशम् .
    द्विकलं पाअदपतनं पादचार्या गतं भवेत् . ९०..
    वामपादेन वेधस्तु कर्तव्यो नृत्तयोक्तृभिः .
    द्वितालान्तरविष्कम्भो विक्षेपो दक्षिणस्य च .. ९१..
    ततः पञ्चपदीं गच्छेदतिक्रान्तैः पदरथ .
    ततोऽभिवादनं कुर्याद्देवतानां यथादिशम् ..९२..
    वन्देत प्रथमं पूर्वां दिशं शक्राधिदैवताम् .
    द्वितीयां दक्षिणामाशां वन्देत यमदेवताम् .. ९३..
    वन्देत पश्चिमामाशां ततो वरुणदैवताम् .
    चतुर्थीमुत्तरामाशां वन्देत धनदाश्रयाम् .. ९४..
    दिशां तु वन्दनं कृत्वा वामवेधं प्रयोजयेत् .
    दक्षिणेन च कर्तव्यं विक्षेपपरिवर्तनम् ..९५..
    प्राङ्ग्मुखस्तु ततः कुर्यात्पुरुषस्त्रीनपुंसकैः .
    त्रिपद्या सूत्रभृद्रुद्रब्रह्मोपेन्द्राभिवादनम् .. ९६..
    दक्षिणं तु पदं पुंसो वामं स्त्रीणां प्रकीर्तितम् .
    पुनर्दक्षिणमेव स्यान्नात्युत्क्षिप्तं नपुंसकम् .. ९७..
    वन्देत पौरुषेणेशं स्त्रीपदेन जनार्दनम् .
    नपुंसक्पदेनापि तथैवाम्बुजसम्भवम् .. ९८..
    परिवर्तनमेवं स्यात्तस्यान्ते प्रविशेत्ततः .
    चतुर्थकारः पुष्पाणि प्रगृह्य विधिपूर्वकम् .. ९९..
    यथावत्तेन कर्तव्यं पूजनं जर्जरस्य तु .
    कुतपस्य च सर्वस्य सूत्रधारस्य चैव हि .. १००..
    तस्य भाण्डसमः कार्यस्तज्ज्ञैर्गतिपरिक्रमः .
    न तत्र गानं कर्तव्यं तत्र स्तोभक्रिया भवेत् .. १०१..
    चतुर्थकारः पूजां तु स कृत्वान्तर्हितो भवेत् .
    ततो गेयावकृष्टा तु चतुरश्रा स्थिता ध्रुवा .. १०२..
    गुरुप्राया तु सा कार्या तथा चैवावपाणिका .
    स्थायिवर्णाश्रयोपेता कलाष्टकविनिर्मिता .. १०३..
    [चतुर्थं पञ्चमं चैव सप्तमं चाष्टमं तथा .
    लघूनि पादे पङ्क्त्यान्तु सावकृष्टा ध्रुवा स्मृता .. ]
    सूत्रधारः पठेत्तत्र मध्यमं स्वरमाश्रितः .
    नान्दीं पदैर्द्वादशभिरष्टभिर्वाऽप्यलङ्कृताम् .. १०४..
    नमोऽस्तु सर्वदेवेभ्यो द्विजातिभ्यः शुभं तथा .
    जितं सोमेन वै राज्ञा शिवं गोब्राह्मणाय च .. १०५..
    ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मद्विषस्तथा .
    प्रशास्त्विमां महाराजः पृथिवीं च ससागराम् .. १०६..
    राष्ट्रं प्रवर्धतां चैव रङ्गस्याशा समृद्ध्यतु .
    प्रेक्षाकर्तुर्महान्धर्मो भवतु ब्रह्मभाषितः .. १०७..
    काव्यकर्तुर्यशश्चास्तु धर्मश्चापि प्रवर्धताम् .
    इज्यया चानया नित्यं प्रीयन्तां देवता इति .. १०८..
    नान्दीपदान्तरेष्वेषु ह्येवमार्येति नित्यशः .
    वदेतां सम्यगुक्ताभिर्वाग्भिस्तौ पारिपार्श्विकौ .. १०९..
    एवं नान्दी विधातव्या यथावल्लक्षणान्विता .
    ततश्शुष्कावकृष्टा स्याज्जर्जरश्लोकदर्शिका .. ११०..
    नवं गुर्वाक्षराण्यादौ षड्लघूनि गुरुत्रयम् .
    शुष्कावकृष्टा तु भवेत्कला ह्यष्टौ प्रमाणतः .. १११..
    यथा -
    दिग्ले दिग्ले दिग्ले दिग्ले जम्बुकपलितकते तेचाम् .
    कृत्वा शुष्कावकृष्टां तु यथावद्द्विजसत्तमाः .. ११२..
    ततः श्लोकं पठेदेकं गम्भीरस्वरसंयुतम् .
    देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते .. ११३..
    राज्ञो वा यत्र भक्तिः स्यादथ वा ब्रह्मणस्स्तवम् .
    गदित्वा जर्जरश्लोकं रङ्गद्वारे च यत्स्मृतम् .. ११४..
    पठेदन्यं पुनः श्लोकं जर्जरस्य विनाशनम् .
    जर्जरं नमयित्वा तु ततश्चारीं प्रयोजयेत् .. ११५..
    पारिपार्श्विकयोश्च स्यात्पश्चिमेनापसर्पणम् .
    अङ्किता चात्र कर्तव्या ध्रुवा मध्यलयान्विता .. ११६..
    चतुर्भिः सन्निपातैश्च चतुरश्रा प्रमाणतः .
    आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा गुरु .. ११७..
    यस्यां ह्रस्वानि शेषाणि सा ज्ञेया त्वङ्किता बुधैः .
    अस्याः प्रयोगं वक्ष्यामि यथा पूर्वं महेश्वरः .. ११८..
    सहोमया क्रीडितवान्नानाभावविचेष्टतैः .
    कृत्वाऽवहित्थं स्थानं तु वामं चाधोमुखं भुजम् .. ११९..
    चतुरश्रमुरः कार्यमञ्चितश्चापि मस्तकः .
    नाभिप्रदेशे विन्यस्य जर्जरं च तुलाधृतम् .. १२०..
    वामपल्लवहस्तेन पादैस्तालान्तरोत्थितैः .
    गच्छेत्पञ्चपदीं चैव सविलासाङ्गचेष्टितैः .. १२१..
    वामवेधस्तु कर्तव्यो विक्षेपो दक्षिणस्य च .
    शृङ्गाररससंयुक्तां पठेदार्यां विचक्षणः .. १२२..
    चारीश्लोकं गदित्वा तु कृत्वा च परिवर्तनम् .
    तैरेव च पदः कार्यं पश्चिमेनापसर्पणम् .. १२३..
    पारिपार्श्विकहस्ते तु न्यस्य जर्जरमुत्तमम् .
    महाचारीं ततश्चैव प्रयुञ्जीत यथाविधि .. १२४..
    चतुरश्रा ध्रुवा तत्र तथा द्रुतलयान्विता .
    चतुर्भिस्सन्निपातैश्च कला ह्यष्टौ प्रमाणतः .. १२५..
    आद्यं चतुर्थमन्त्यं च सप्तमं दशमं गुरु .
    लघु शेषं ध्रुवापादे चतुर्विंशतिके भवेत् .. १२६..
    (यथा-)
    पादतलाहतिपातितशैलं
    क्षोभितभूतसमग्रसमुद्रम् .
    ताण्डवनृत्यमिदं प्रलयान्ते
    पातु जगत्सुखदायि हरस्य .. १२७..
    भाण्डोन्मुखेन कर्तव्यं पादविक्षेपणं ततः .
    सूचीं कृत्वा पुनः कुर्याद्विक्षेपपरिवर्तनम् .. १२८..
    अतिक्रान्तैः सललितैः पादैर्द्रुतलयान्वितैः .
    त्रितालान्तरमुत्क्षेपैर्गच्छेत्पञ्चपदीं ततः .. १२९..
    तत्रापि वामवेधस्तु विक्षेपो दक्षिणस्य च .
    तैरेव च पदैः कार्यं प्राङ्मुखेनापसर्पणम् .. १३०..
    पुनः पदानि त्रीण्येव गच्छेत्प्राङ्मुख एव तु .
    ततश्च वामवेधः स्याद्विक्षेपो दक्षिणस्य च .. १३१..
    ततो रौद्ररसं श्लोकं पादसंहरणं पठेत् .
    तस्यान्ते तु त्रिपद्याथ व्याहरेत्पारिपार्श्विकौ .. १३२..
    तयोरागमने कार्यं गानं नर्कुटकं बुधैः .
    तथा च भारतीभेदे त्रिगतं सम्प्रयोजयेत् .. १३३..
    विदूषकस्त्वेकपदां सुत्रधारस्मितावहाम् .
    असम्बद्धकथाप्रायां कुर्यात्कथनिका ततः .. १३४..
    (वितण्डां गण्डसंयुक्तां तालिकाञ्च प्रयोजयेत् .
    कस्तिष्ठति जितं केनेत्यादिकाव्यप्ररूपिणीम् ..
    पारिपार्श्वकसञ्जल्पो विदूषकविरूपितः .
    स्थापितः सूत्रधारेण त्रिगतं सम्प्रयुज्यते ..)
    प्ररोचना च कर्तव्या सिद्धेनोपनिमत्रणम् .
    रङ्गसिद्धौ पुनः कार्यं काव्यवस्तुनिरूपणम् .. १३५..
    सर्वमेव विधिं कृत्वा सूचीवेधकृतैरथ .
    पादैरनाविद्धगतैर्निष्क्रामेयुः समं त्रयः .. १३६..
    एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि .
    चतुरश्रो द्विजश्रेष्ठास्त्र्यश्रं चापि निबोधत .. १३७..
    अयमेव प्रयोगः स्यादङ्गान्येतानि चैव हि .
    तालप्रमाणं संक्षिप्तं केवलं तु विशेषकृत् .. १३८..
    शम्या तु द्विकला कार्या तालो ह्येककलस्तथा .
    पुनश्चैककला शम्या सन्निपातः कलाद्वयम् .. १३९..
    अनेन हि प्रमाणेन कलाताललयान्वितः .
    कर्तव्यः पूर्वरङ्गस्तु त्र्यश्रोऽप्युत्थापनादिकः .. १४०..
    आद्यं चतुर्थं दशममष्टमं नैधनं गुरु .
    यस्यास्तु जागते पादे सा त्र्यश्रोत्थापिनी ध्रुवा .. १४१..
    वाद्यं गतिप्रचारश्च ध्रुवा तालस्तथैव च .
    संक्षिप्तान्येव कार्याणि त्र्यश्रे नृत्तप्रवेदिभिः .. १४२..
    वाद्यगीतप्रमाणेन कुर्यादङ्गविचेष्टितम् .
    विस्तीर्णमथ संक्षिप्तं द्विप्रमाणविनिर्मितम् .. १४३..
    हस्तपादप्रचारस्तु द्विकलः परिकीर्तितः .
    चतुरश्रे परिक्रान्ते पाताः स्युः षोडशैव तु .. १४४..
    त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः .
    एतत्प्रमाणं विज्ञेयमुभयोः पूर्वरङ्गयोः .. १४५..
    केवलं परिवर्ते तु गमने त्रिपदी भवेत् .
    दिग्वन्दने पञ्चपदी चतुरश्रे विधीयते .. १४६..
    आचार्यबुद्ध्या कर्तव्यस्त्र्यश्रस्तालप्रमाणतः .
    तस्मान्न लक्षणं प्रोक्तं पुनरुक्तं भवेद्यतः .. १४७..
    एवमेष प्रयोक्तव्यः पूर्वरङ्गो द्विजोत्तमाः .
    त्र्यश्रश्च चतुरश्रश्च शुद्धो भारत्युपाश्रयः .. १४८..
    एवं तावदयं शुद्धः पूर्वरङ्गो मयोदितः .
    चित्रत्वमस्य वक्ष्यामि यथाकार्यं प्रयोक्तृभिः .. १४९..
    वृत्ते ह्युत्थापने विप्राः कृते च परिवर्तने .
    चतुर्थकारदत्ताभिः सुमनोभिरलङ्कृते .. १५०..
    उदात्तैर्गानैर्गन्धर्वैः परिगीते प्रमाणतः .
    देवदुन्दुभयश्चैव निनदैयुर्भृशं यतः .. १५१..
    सिद्धाः कुसुममालाभिर्विकिरेयुः समन्ततः .
    अङ्गहारैश्च देव्यस्ता उपनृत्येयुरग्रतः .. १५२..
    यस्ताण्डवविधिः प्रोक्तो नृते पिण्डीसमन्वितः .
    रेचकैरङ्गहारैश्च न्यासोपन्याससंयुतः .. १५३..
    नान्दीपदानां मध्ये तु एकैकस्मिन्पृथक्पृथक् .
    प्रयोक्तव्यो बुधैः सम्यक्चित्रभावमभीप्सुभिः .. १५४..
    एवं कृत्वा यथान्यायं शुद्धं चित्रं प्रयत्नतः .
    ततःपरं प्रयुञ्जीत नाटकं लक्षणान्वितम् .. १५५..
    ततस्त्वन्तर्हिताः सर्वा भवेयुर्दिव्ययोषितः .
    निष्क्रान्तासु च सर्वासु नर्तकीषु ततः परम् .. १५६..
    पूर्वरङ्गे प्रयोक्तव्यमङ्गजातमतःपरम् .
    एवं शुद्धो भवेच्चित्रः पूर्वरङ्गो विधानतः .. १५७..
    कार्यो नातिप्रसङ्गोऽत्र नृतागीतविधिं प्रति .
    गीते वाद्ये च नृत्ते च प्रवृत्तेऽतिप्रसङ्गतः .. १५८..
    खेदो भवेत्प्रयोक्तॄणां प्रेक्षकाणां तथैव च .
    खिन्नानां रसभावेषु स्पष्टता नोपजायते .. १५९..
    ततः शेषप्रयोगस्तु न रागजनको भवेत् .
    (लक्षनेन विना बाह्यलक्षणाद्विस्तृतं भवेत् ..
    लोकशास्त्रानुसारेण तस्मान्नाट्यं प्रवर्तते .. )
    त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा .. १६०..
    प्रयुज्य रङ्गान्निष्क्रामेत्सूत्रधारः सहानुगः .
    (देवपार्थिवरङ्गानामाशीर्वचनसंयुताम् ..
    कवेर्नामगुणोपेतां वस्तूपक्षेपरूपिकाम् .
    लघुवर्णपदोपेतां वृत्तैश्चित्रैरलङ्कृताम् ..
    अन्तर्यवनिकासंस्थः कुर्यादाश्रावणां ततः .
    आश्रावनावसाने च नान्दीं कृत्वा स सूत्रधृत् ..
    पुनः प्रविश्य रङ्गं तु कुर्यात्प्रस्तावनां ततः .)
    प्रयुज्य विधिनैवं तु पूर्वर~गं प्रयोगतः .. १६१..
    स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः .
    स्थानं तु वैष्णवं कृत्वा सौष्ठवाञ्गपुरस्कृतम् .. १६२..
    प्रविश्य रङ्गं तैरेव सूत्रधारपदैर्व्रजेत् .
    श्थापक्स्य प्रवेशे तु कर्तव्यऽर्थानुगा ध्रुवा .. १६३..
    त्र्यश्रा वा चतुरश्रा वा तज्ज्ञैर्मध्यलयान्विता .
    कुर्यादनन्तरं चारीं देवरह्मणशंसिनीम् .. १६४..
    सुवाक्यमधुरैः श्लोकेर्नानाभसवरसान्वितैः .
    प्रसाद्य रङ्गं विधिवत्कवेर्नाम च कीर्तयेत् .. १६५..
    प्रस्तवाअ. ततः कुर्यात्काव्यप्रख्यापनाश्रयाम् .
    उद्धात्यकादि कर्तव्यं काव्योपक्षेपणाश्र्यम् ..१६६..
    दिव्ये दिव्याश्रयो भूत्वा मानुषे मानुषाश्रयः .
    दिव्यमानुषसंयोगे दिव्यो वा मानुषोऽपि वा .. १६७..
    मुखबीजानुसदॄशं नानामार्गसमाश्रयम् .
    आआविधैरुपक्षेपैः काव्योपक्षेपणं भवेत् ..१६८..
    प्रस्ताव्यैवं तु निष्क्रामेत्काव्यप्रस्तावकस्ततः .
    एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि .. १६९..
    य इमं पूर्वरङ्गं तु विधिनैव प्रयोजयेत् .
    नाशुभं प्राप्नुयात्किञ्चित्स्वर्गलोकं च गच्छति .. १७०..
    यश्चापि विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् .
    प्राप्नोत्यपचयं घोरं तिर्यग्ग्योनिं च गच्छति .. १७१..
    न तथाऽग्निः प्रदहति प्रभञ्जनसमीरतः .
    यथा ह्यप्रयोगस्तु प्रयुक्तो दहति क्षणात् .. १७२..
    इत्येवावन्तिपाञ्चालदाक्षिणात्यौढ्रमागधैः .
    कर्तव्य पूर्वरङ्गस्तु द्विप्रमाणविनिर्मितः .. १७३..
    एष वः कथितो विप्राः पूर्वरङ्गाश्रितो विधिः .
    भूयः किं कथ्यतां सम्यङ्नाट्यवेदविधिं प्रति .. १७४..
    इति भारतीये नाट्यशास्त्रे पूर्वरङ्गप्रयोगो नाम पञ्चमोऽध्यायः .

    Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com


नाट्यशास्त्र चतुर्थ अध्याय

.. नाट्यशास्त्रम् अध्याय ४  ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्

अथ चतुर्थोऽध्यायः .

एवं तु पूजनं कृत्वा मया प्रोक्तः पितामहः .
आज्ञापय प्रभो क्षिप्रं कः प्रयोगः प्रयुज्यताम् .. १..
ततोऽस्म्युक्तो भगवता योजयामृतमन्थनम् .
एतदुत्साहजननं सुरप्रीतिकरं तथा .. २..
योऽयं समवकारस्तु धर्मकामार्थसाधकः .
मया प्राग्ग्रथितो विद्वन्स प्रयोगः प्रयुज्यताम् .. ३..
तस्मिन्समवकारे तु प्रयुक्ते देवदानवाः .
हृष्टाः समभवन्सर्वे कर्मभावानुदर्शनात् .. ४..
कस्यचित्वथ कालस्य मामाहाम्बुजसम्भवः
नाट्यं सन्दर्शयामोऽद्य त्रिनेत्राय महात्मने .. ५..
ततः सार्धं सुरैर्गत्वा वृषभाङ्कनिवेशनम् .
समभ्यर्च्य शिवं पश्चादुवाचेदं पितामहः .. ६..
मया समवाकरस्तु योऽयं सृष्टः सुरोत्तम .
श्रवणे दर्शने चास्य प्रसादं कर्तुमर्हसि .. ७..
पश्याम इति देवेशो द्रुहिणं वाक्यमब्रवीत् .
ततो मामाह भगवान् सज्जो भव महामते .. ८..
ततो हिमवतः पृष्ठे नानानागसमाकुले .
बहुभूतगणाकीर्णे रम्यकन्दरनिर्ज़्हरे .. ९..
पूर्वरङ्गः कृतः पूर्वं तत्रायं द्विजसत्तमाः .
तथा त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः .. १०..
ततो भूतगणा हृष्टाः कर्नभावानुकीर्तनात् .
महादेवश्च सुप्रीतः पितामहमथाब्रवीत् .. ११..
अहो नाट्यमिदं सम्यक् त्वया सृष्टं महामते .
यशस्यं च शुभार्थं च पुण्यं बुद्धिविवर्धनम् .. १२..
मयापीदं स्मृतं नृत्यं सन्ध्याकालेषु नृत्यता .
नानाकरणसंयुक्तैरङ्गहारैर्विभूषितम् .. १३..
पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयोज्यताम् .
वर्धमानकयोगेषु गीतेष्वासारितेषु च .. १४..
महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि .
यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः .. १५..
एभिर्विमिश्रितश्चायं चित्रो नाम भविष्यति .
श्रुत्वा महेश्वरवचः प्रत्युक्तस्तु स्वयंभुवा .. १६..
प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम .
ततस्तण्डुं समाहूय प्रोक्तवान् भुवनेश्वरः .. १७..
प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै .
ततो ये तण्डुना प्रोक्तास्त्वङ्गहारा महात्मना.. १८..
तान्वः करणसंयुक्तान्व्याख्यास्यामि सरेचकान् .
स्थिरहस्तोऽङ्गहारस्तु तथा पर्यस्तकः स्मृतः .. १९..
सूचिविद्धस्तथा चैव ह्यपविद्धस्तथैव च .
आक्षिप्तकोऽथ विज्ञेयस्तथा चोद्धट्टितः स्मृतः .. २०..
विष्कम्भश्चैव सम्प्रोक्तस्तथा चैवापराजितः .
विष्कम्भापसृतश्चैअव मत्ताक्रीडस्तथैव च .. २१..
स्वस्तिको रेचितश्चैव पार्श्वस्वस्तिक एव च .
वृश्चिकापसृतः प्रोक्तो भ्रमरश्च तथापरः .. २२..
मत्तस्खलितकश्चैव मदाद्विलसितस्तथा .
गतिमण्डलको ज्ञेयः परिच्छिन्नस्तथैव च .. २३..
परिवृत्तचितोऽथ स्यात्तथा वैशाखरेचितः .
परावृत्तोऽथ विज्ञेयस्तथा चैवाप्यलातकः .. २४..
पार्श्वच्छेदोऽथ सम्प्रोक्तो विद्युद्भ्रान्तस्तथैव च .
ऊरूद्वृत्तस्तथा चैव स्यादालीढस्तथैव च .. २५..
रेचितश्चापि विज्ञेयस्तथैवाच्छुरितः स्मृतः .
आक्षिप्तरेचितश्चैव सम्भ्रान्तश्च तथापरः .. २६..
अपसर्पस्तु विज्ञेयस्तथा चार्धनिकुट्टकः .
द्वात्रिंशदेते सम्प्रोक्ता अङ्गहारास्तु नामतः .. २७..
एतेषां तु प्रवक्ष्यामि प्रयोगं करणाश्रयम् .
हस्तपादप्रचारश्च यथा योज्यः प्रयोक्तृभिः .. २८..
अङ्गहारेषु वक्ष्यामि करणेषु च वै द्विजाः .
सर्वेषामङ्गहाराणां निष्पत्तिः करणैर्यतः .. २९..
तान्यतः सम्प्रवक्ष्यामि नामतः कर्मतस्तथा .
हस्तपादसमायोगो नृत्यस्य करणं भवेत् .. ३०..
द्वे नृत्तकरणे चैव भवतो नृत्तमातृका .
द्वाभ्यां त्रिभिश्चतुर्भिर्वाप्यङ्गहारस्तु मातृभिः .. ३१..
त्रिभिः कलापकं चैव चतुर्भिः षण्डकं भवेत् .
पञ्चैव करणानि स्युः सङ्घातक इति स्मृतः .. ३२..
षड्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा .
करणैरिह संयुक्ता अङ्गहाराः प्रकीर्ताः .. ३३..
एतेषामेव वक्ष्यामि हस्तपादविकल्पनम् .
तलपुष्पपुटं पूर्वं वर्तितं वलितोरु च .. ३४..
अपविद्धं समनखं लीनं स्वस्तिकरेचितम् .
मण्डलस्वस्तिकं चैव निकुट्टकमथापि च .. ३५..
तथैवार्धनिकुट्टं च कटिच्छिन्नं तथैव च .
अर्धरेचितकं चैव वक्षःस्वस्तिकमेव च .. ३६..
उन्मत्तं स्वस्तिकं चैव पृष्ठस्वस्तिकमेव च .
दिक्स्वस्तिकमलातं च तथैव च कटीसमम् .. ३७..
आक्षिप्तरेचितं चैव विक्षिप्ताक्षिप्तकं तथा .
अर्धस्वस्तिकमुद्दिष्टमञ्चितं च तथापरम् .. ३८..
भुजङ्गत्रासितं प्रोक्तमूर्ध्वजानु तथैव च .
निकुञ्चितं च मत्तल्लि त्वर्धमत्तल्लि चैव हि .. ३९..
स्याद्रेचकनिक्कुट्टं च तथा पादापविद्धकम् .
वलितं घूर्णितं चैव ललितं च तथापरम् .. ४०..
दण्डपक्षं तथा चैव भुजङ्गत्रस्तरेचितम् .
नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम् .. ४१..
भ्रमरं चतुरं चैव भुजङ्गाञ्चितमेव च .
दण्डरेचितकं चैव तथा वृश्चिककुट्टितम् ..४२..
कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च .
छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् .. ४३..
वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम् .
ललाटतिलकं क्रान्तं कुञ्चितं चक्रमण्डलम् .. ४४..
उरोमण्डलमाक्षिप्तं तथा तलविलासितम् .
अर्गलं चाथ विक्षिप्तमावृत्तं दोलपादकम् .. ४५..
विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् .
विद्युत्भ्रान्तमतिक्रान्तं विवर्तितकमेव च .. ४६..
गजक्रीडितकं चैव तलसंस्फोटितं तथा .
गरुडप्लुतकं चैव गण्डसूचि तथापरम् .. ४७..
परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च .
गृध्रावलीनकं चैव सन्नतं सूच्यथापि च .. ४८..
अर्धसूचीति करणं सूचिविद्धं तथैव च .
अपक्रान्तं च सम्प्रोक्तं मयूरललितं तथा .. ४९..
सर्पितं दण्डपादं च हरिणप्लुतमेव च .
प्रेङ्खोलितं नितम्बं च स्खलितं करिहस्तकम् .. ५०..
प्रसर्पितकमुद्दिष्टं सिंहविक्रीडतं तथा .
सिंहाकर्षितमुद्वृत्तं तथोपसृतमेव च .. ५१..
तलसंघट्टितं चैव जनितं चावहित्थकम् .
निवेशमेलकाक्रीडमूरूद्वृत्तं तथैव च .. ५२..
मदस्खलितकं चैव विष्णुक्रान्तमथापि च .
सम्भ्रान्तमथ विष्कम्भमुद्घट्टितमथापि च .. ५३..
वृषभक्रीडितं चैव लोलितं च तथापरम् .
नागापसर्पितं चैव शकटास्यं तथैव च .. ५४..
गङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् .
अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् .. ५५..
नृत्ये युद्धे नियुद्धे च तथ गतिपरिक्रमे .
गतिप्रचारे वक्ष्यामि युद्धचारीविकल्पनम् .. ५६..
यत्र तत्रापि संयोज्यमाचार्यैर्नाट्यशक्तिनः .
प्रायेण करणे कार्यो वामो वक्षःस्थितः करः .. ५७..
चरणस्यानुगश्चापि दक्षिणस्तु भवेत्करः .
हस्तपादप्रचारन्तु कटिपार्श्वोरुसंयुतम् .. ५८..
उरःपृष्ठोदरोपेतं वक्ष्यमाणं निबोधत .
यानि स्थानानि याश्चार्यो नृत्यहस्तास्तथैव च .. ५९..
सा मातृकेति विज्ञेया तद्योगात्करणं भवेत् .
कटी कर्णसमा यत्र कोर्परांसशिरस्तथा .. ६०..
समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् .
वामे पुष्पपुटः पार्श्वे पादोऽग्रतलसञ्चरः .. ६१..
तथा च सन्नतं पार्श्वं तलपुष्पपुटं भवेत् .
कुञ्चितौ मणिबन्धे तु व्यावृत्तपरिवर्तितौ .. ६२..
हस्तौ निपतितौ चोर्वोर्वर्तितं करणं तु तत् .
शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तितौ .. ६३..
उरू च वलितौ यस्मिन्वलितोरुकमुच्यते .
आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे निपातयेत् .. ६४..
वामहतश्च वक्षःस्थोऽप्यपविद्धं तु तद्भवेत् .
श्लिष्टौ समनखौ पदौ करौ चापि प्रलिम्बितौ .. ६५..
देहः स्वाभाविको यत्र भवेत्समनखं तु तत् .
पताकाञ्जलि वक्षःस्थं प्रसारितशिरोधरम् .. ६६..
निहञ्चितांसकूटं च तल्लिनं करणं स्मृतम् .
स्वस्तिकौ रेचिताविद्धौ विश्लिष्टौ कटिसंश्रितौ .. ६७..
यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेचितम् .
स्वस्तिकौ तु करौ कृत्वा प्राङ्गमुखोर्ध्वतलौ समौ .. ६८..
तथा च मण्डलं स्थानं मण्डलस्वस्तिकं तु तत् .
निकुट्टितौ यदा हस्तौ स्वबाहुशिरसोऽन्तरे .. ६९..
पादौ निकुट्टितौ चैव ज्ञेयं तत्तु निकुट्टकम् .
अञ्चितौ बाहुशिरसि हस्तस्त्वभिमुखाङ्गुलिः .. ७०..
निकुञ्चितार्धयोगेन भवेदर्थनिकुट्टकम् .
पर्यायशः कटिश्छिन्ना बाह्वोः शिरसि पल्लवौ .. ७१..
पुनःपुनश्च करणं कटिच्छिनं तु तद्भवेत् .
अपविद्धकरः सूच्या पादश्चैव निकुट्टितः .. ७२..
संन्नतं यत्र पार्श्वं च तद्भवेअर्धरेचितम् .
स्वस्तिकौ चरणौ यत्र करौ वक्षसि रेचितौ .. ७३..
निकुञ्चितं तथा वक्षो वक्षस्स्वस्तिकमेव तत् .
आञ्चितेन तु पादेन रेचितौ तु करौ यदा .. ७४..
उन्मतं करणं तत्तु विज्ञेयं नृत्यकोविदैः .
हस्ताभ्यामथ पादाभ्यां भवतः स्वस्तिकौ यदा .. ७५..
तत्स्वस्तिकमिति प्रोक्तं करणं करणार्थिभिः .
विक्षिप्ताक्षिप्तबाहुभ्यां स्वस्तिकौ चरणौ यदा .. ७६..
अपक्रान्तार्धसूचिभ्यां तत्पृष्ठस्वस्तिकं भवेत् .
पार्श्वयोरग्रतश्चैव यत्र श्लिष्टः करो भवेत् .. ७७..
स्वस्तिकौ हस्तपादाभ्यां तद्दिक्स्वस्तिकमुच्यते .
अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् .. ७८..
ऊर्ध्वजानुक्रमं कुर्यादलातकमिति स्मृतम् .
स्वस्तिकापसृतः पादः करौ नाभिकटिस्थितौ .. ७९..
पार्श्वमुद्वाहितं चैव करणं तत्कटीसमम् .
हस्तौ हृदि भवेद्वामः सव्यश्चाक्षिप्तरेचितः ..८०..
रेचितश्चापविद्धश्च तत्स्यादाक्षिप्तरेचितम् .
विक्षिप्तं हस्तपादं च तसैवाक्षेपणं पुनः .. ८१..
यत्र तत्करणं ज्ञेयं विक्षिप्ताक्षिप्तप्तकं द्विजाः .
स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिणम् .. ८२..
वक्षस्थाने तथा वाममर्धस्वस्तिकमादिशेत् .
व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा .. ८३..
अञ्चितो नासिकाग्रे तु तदञ्चितमुदाहृतम् .
कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् .. ८४..
कटिजानुविवर्ताच्च भुजङ्गत्रासितं भवेत् .
कुञ्चितं पादमुत्क्षिप्य जनुस्तनसमं न्यसेत् .. ८५..
प्रयोगवशगौ हस्तावूर्ध्वजानु प्रकीर्तितम् .
वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् .. ८६..
नासाग्रे दक्षिणं चैव ज्ञेयं तत्तु निकुञ्चितम् .
वामदक्षिणपादाभ्यां घूर्णमानोपसर्पणैः ..८७..
उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृतम् .
स्स्खलितापसृतौ पादौ वामहस्तश्च रेचितः .. ८८..
सव्यहस्तः कटिस्थः स्यादर्धमत्तल्लि तत्स्मृतम् .
रेचितो दक्षिणो हस्तः पादः सव्यो निकुट्टितः .. ८९..
दोला चैव भवेद्वामस्तद्रेचितनिकुट्टितम् .
कार्यौ नाभितटे हस्तौ प्राङ्मुखौ खटकामुखौ .. ९०..
सूचीविद्धावपक्रान्तौ पादौ पादापविद्धके .
अपविद्धो भवेद्धस्तः सूचीपादस्तथैअव च .. ९१..
तथा त्रिकं विवृत्तं च वलितं नाम तद्भवेत् .
वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः .. ९२..
स्वस्तिकापसृतः पादः करणं घूर्णितं तु तत् .
करिहस्तो भवेद्वामो दक्षिणश्च विवर्तितः .. ९३..
बहुशः कुट्टितः पदो ज्ञेयं तल्ललितं बुधैः .
ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत् .. ९४..
दण्ड्पक्षं तत्प्रोक्तं कर्णं नृत्यवेदिभिः .
भुजञ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ .. ९५..
वामपार्श्वस्थ्तौ हस्तौ भुजङ्गत्रस्तरेचितम् .
त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ .. ९६..
नूपुर्श्च तथा पादः करणे नूपुरे न्यसेत् .
रेचितौ हस्तपादौ च कटी ग्रीवा च रेचिता .. ९७..
वैशाखस्थानकेनैतद्भवेवैशाखरेचितम् .
आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा .. ९८..
त्रिकस्य वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् .
अञ्चितः स्यात्करो वामः सव्यश्चतुर एव तु .. ९९..
दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् .
भुजङ्गत्रासितः पादो दक्षिणो रेचितः करः .. १००..
लताख्यश्च करो वामो भुजङ्गाञ्चितकं भवेत् .
विक्षिप्तं हस्तपादं तु समन्ताद्यत्र दण्डवत् .. १०१..
रेच्यते तद्धि करणं ज्ञेयं दण्डकरेचितम् .
वृश्चिकं चरणं कृत्वा द्वावप्यथ निकुट्टितौ .. १०२..
विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् .
सूचिं कृत्वापविद्धं च दक्षिणं चरणं न्यसेत् .. १०३..
रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते .
अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः .. १०४..
लताख्यश्च करो वामस्तल्लतावृश्चिकं भवेत् .
अलपद्मः कटीदेशे छिन्ना पर्यायशः कटी .. १०५..
वैशाखस्थानकेनेह तच्छिन्नं करणं भवेत् .
वृश्चिकं चरणं कृत्वा स्वस्तिकौ च करवुभौ .. १०६..
रेचितौ विप्रकीर्णौ च करौ वृश्चिकरेचितम् .
बाहुशीर्षाञ्चितौ हस्तौ पादः पृष्ठाञ्चितस्तथा .. १०७..
दूरसन्नतपृष्ठं च वृश्चिकं तत्प्रकीर्तितम् .
आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ .. १०८..
ऊर्ध्वाधो विप्रकीर्णौ च व्यंसितं करणं तु तत् .
हस्तौ तु स्वस्तिकौ पार्श्वे तथा पादो निकुट्टितः .. १०९..
यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टितम् .
वृश्चिकं चरणं कृत्वा पादस्याङ्गुष्ठकेन तु .. ११०..
ललाटे तिलकं कुर्याल्ललाटतिलकं तु तत् .
पृष्ठतः कुञ्चितं कृत्वा व्यतिक्रान्तक्रमं ततः .. १११..
आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः .
आद्यः पादो नतः कार्यः सव्यहस्तश्च कुञ्चितः .. ११२..
उत्तानो वामपार्श्वस्थस्तत्कुञ्चितमुदाहृतम् .
प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेणानतेन च .. ११३..
अभ्यन्तरापविद्धः स्यात्तज्ज्ञेयं चक्रमण्डलम् .
स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा .. ११४..
उरोमण्डलकौ हस्तावुरोमण्डलिकस्तु तत् .
आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः .. ११५..
आक्षिओतं नाम करणं विज्ञेयं तत्द्विजोत्तमाः .
ऊर्ध्वाङ्गुलितलः पादः पार्श्वेनोर्ध्वं प्रसारितः .. ११६..
प्रकुर्यादञ्चिततलौ हस्तौ तलविलासिते .
पृष्ठतः प्रसृतः पादौ द्वौ तालावर्धमेव च .. ११७..
तस्येव चानुगो हस्तः पुरतस्त्वर्गलं तु तत् .
विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्वतोऽपि वा .. ११८..
एकमार्गगतं यत्र तद्विक्षिप्तमुदाहृतम् .
प्रसार्य कुञ्चितं पादं पुनरावर्तयेत् द्रुतम् .. ११९..
प्रयोगवशगौ हस्तौ तदावर्तमुदाहृतम् .
कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु डोलयेत् .. १२०..
प्रयोगवशगौ हस्तौ डोलापादं तदुच्यते .
आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तयेत् .. १२१..
रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः .
सूचीविद्धं विधायाथ त्रिकं तु विनिवर्तयेत् .. १२२..
करौ च रेचितौ कार्यौ विनिवृत्ते द्विजोत्तमः .
पार्श्वक्रान्तक्रमं कृत्वा पुरस्तादथ पातयेत् .. १२३..
प्रयोगवशगौ हस्तौ पार्श्वक्रान्तं तदुच्यते .
पृष्ठतः कुञ्चितः पादौ वक्षश्चैव समुन्नतम् .. १२४..
तिलके च करः स्थाप्यस्तन्निस्तम्भितमुच्यते .
पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् .. १२५..
सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तं तदुच्यते .
अतिक्रान्तक्रमं कृत्वा पुरस्तात्संप्रसारयेत् .. १२६..
प्रयोगवशगौ हस्तावतिक्रान्ते प्रकीर्तितौ .
आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् .. १२७..
द्वितीयो रेचितो हस्तो विवर्तितकमेव तत् .
कर्णेऽञ्चितः करो वामो लताहस्तश्च दक्षिणः .. १२८..
दोलापादस्तथा चैव गजक्रीडितकं भवेत् .
द्रुतमुत्क्षिप्य चरणं पुरस्तादथ पाअतयेत् .. १२९..
तलसंस्फोटितौ हस्तौ तलसंस्फोटिते मतौ .
पृष्ठप्रसारितः पादः लतारेचितकौ करौ .. १३०..
समुन्नतं शिरश्चैव गरुडप्लुतकं भवेत् .
सूचिपादो नतं पार्श्वमेको वक्षःस्थितः करः .. १३१..
द्वितीयश्चाञ्चितो गण्डे गण्डसूची तदुच्यते ,
ऊर्ध्वापवेष्टितौ हस्तौ सूचीपादो विवर्तितः .. १३२..
परिवृत्तत्रिकं चैव परिवृत्तं तदुच्यते .
एकः समस्थितः पाद ऊरुपृष्ठे स्थितोऽपरः .. १३३..
मुष्टिहस्तश्च वक्षःस्थः पार्श्वजानु तदुच्यते .
पृष्ठप्रसारितः पादः किञ्चितञ्चित जानुकः .. १३४..
यत्र प्रसारितो बाहू तत्स्यात् गृध्रावलीनकम् .
उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकस्थितौ .. १३५..
सन्नतौ च तथा हस्तौ सन्नतं तदुदाहृतम् .
कुञ्चितं पादमुत्क्षिप्य कुर्यादग्रस्थितं भुवि .. १३६..
प्रयोगवशगौ हस्तौ सा सूची परिकीर्तिता .
अलपद्मः शिरोहस्तः सूचीपादश्च दक्षिणः .. १३७..
यत्र तत्करणं ज्ञेअयमर्धसूचीति नामतः .
पादसूच्या यदा पादो द्वितीयस्तु प्रविध्यते .. १३८..
कटिवक्षःस्थितौ हस्तौ सूचीविधं तदुच्यते .
कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत् .. १३९..
प्रयोगवशगौ हस्तवपक्रान्तं तदुच्यते .
वृश्चिकं चरणं कृत्वा रेचितौ च तथा करौ .. १४०..
तथा त्रिकं विवृत्तं च मयूरललितं भवेत् .
अञ्चितापसृतौ पादौ शिरश्च परिवाहितम् .. १४१..
रेचितौ च तथा हस्तौ तत्सर्पितमुदाहृतम् .
नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् .. १४२..
क्षिप्राविद्धकरं चैव दण्डपादं तदुच्यते .
अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् .. १४३..
जङ्घाञ्चितोपरि क्षिप्ता तद्विद्याद्धरिणप्लुतम् .(see the cluster ~Nghaa. A new ligature may be added to represent this cluster)
डोलापादक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ..१४४..
परिवृत्तत्रिकं चैव तत्प्रेङ्खोलितमुच्यते .
भुजावूर्ध्वविनिष्क्रान्तौ हस्तौ चाभि ( धो )मुखाङ्गुली .. १४५..
बद्धा चारी तथ चैव नितम्बे करणे भवेत् .
दोलापादक्रमं कृत्वा हस्तौ तदनुगावुभौअ .. १४६..
रेचितौ घूर्णितौ वापि स्खलितं करणं भवेत् .
एको वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोऽपरः .. १४७..
अञ्चितश्चरणश्चैव प्रयोज्यः करिहस्तके .
एकस्तु रेचितो हस्तो लताख्यस्तु तथा परः .. १४८..
प्रसर्पिततलौ पादौ प्रसर्पितकमेव तत् .
अलातं च पुरःकृत्वा द्वितीयं च द्रुतक्रमम् .. १४९..
हस्तौ पादानुगौ चापि सिंहविक्रीडिते स्मृतौ .
पृष्ठप्रसर्पितः पादस्तथा हस्तौ निकुञ्चितौ .. १५०..
पुनस्तथैव कर्तव्यौ सिंहाकर्ष्तके द्विजाः .
आक्षिप्तहस्तमाक्षिप्तदेहमाक्षिप्तपादकम् .. १५१..
अद्वृत्तगात्रमित्येतदुद्वृतां करणं स्मृतम् .
आक्षिप्तचरणश्चैको हस्तौ तस्यैव चानुगौ .. १५२..
आनतं च तथ गात्रं तयोपसृतकं भवेत्
दोलापादक्रमं कृत्वा तलसङ्घट्टितौ करौ .. १५३..
रेचयेच्च करं वामं तलसङ्घट्टिते सदा .
एको वक्षःस्थितो हस्तो द्व्तीयश्च प्रलम्बितः .. १५४..
तलाग्रसंस्थितः पादो जनिते करणे भवेत् .
जनितं करणं कृत्वा हस्तौ चाभिमुखाङ्गुली .. १५५..
शनैर्निपतितो चैव ज्ञेयं तदवहित्थकम् .
करौ वक्षःस्थितौ कार्यावुरौ निर्भुग्नमेव च .. १५६..
मण्डलस्थानकं चैव निवेशं करणं तु तत् .
तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं भवेत् ..१५७..
संनतं वलितं गात्रमेलकाक्रीडितं तु तत् .
करमावृत्तकरणमूरुपृष्ठेऽञ्चितं न्यसेत् .. १५८..
जङ्घाञ्चिता तथोद्वृत्ता ह्यूरूद्वृत्तं तु तद्भवेत् .
करौ प्रलम्बितौ कार्यो शिरश्च परिवाहितम् .. १५९..
पादौ च वलिताविध्दौअ मदस्खलितके द्विजाः .
पुरः प्रसारितः पादः कुञ्चितो गगनोन्मुखः .. १६०..
करौ च रेचितौ यत्र विष्णुक्रान्तं तदुच्यते .
करमावर्तितं कृत्वा ह्यूरुपृष्ठे निकुञ्चयेत् ..१६१..
ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् .
अपविद्धः करः सूच्या पादश्चैव निकुट्टितः .. १६२..
वक्षःस्थश्च करो वामो विष्कम्भे करणे भवेत् .
पादावुद्धट्टितौ कार्यौ तलसङ्घट्टितौ करौ .. १६३..
नतश्च पार्श्वं कर्तव्यं बुधैरुद्धट्टिते सदा .
प्रयुज्यालातकं पूर्वं हस्तौ चापि हि रेचयेत् .. १६४..
कुञ्चितावञ्चितौ चैव वृषभक्रीडिते सदा .
रेचितावञ्चितौ हस्तौ लोलितं वर्तितं शिरः .. १६५..
उभयोःपार्श्वयोर्यत्र तल्लोलितमुदाहृतम् .
स्वस्तिकापसृतौ पादौ शिरश्च परिवाहितम्.. १६६..
रेचितौ च तथा हस्तौ स्यातां नागापसर्पिते .
निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् .. १६७..
उद्वाहितमुरः कृत्वा शकटास्यं प्रयोजयेत् .
ऊर्ध्वाङ्गुलितलौ पादौ त्रिपताकावधोमुखौ .. १६८..
हस्तौ शिरस्सन्नतं च गङ्गावतरणं त्विति .
यानि स्थानानि याश्चार्यो व्यायामे कथितानि तु .. १६९..
पादप्रचारस्त्वेषां तु करणानामयं भवेत् .
ये चापि नृत्तहस्तास्तु गदिता नृत्तकर्मणि .. १७०..
तेषां समासतो योगः करणेषु विभाव्यते .
प्रायेण करणे कार्यो वामो वक्षःस्थितः करः .. १७१..
चरणश्चानुगश्चापि दक्षिणस्तु भवेत्करः .
चार्यश्चैव तु याः प्रोक्ता नृत्तहस्तास्तथैव च .. १७२..
सा मातृकेति विज्ञेया तद्भेदात्करणानि तु .
अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् .. १७३..
अतः परं प्रवक्ष्यामि ह्यङ्गहारविकल्पनम् .
प्रसार्योत्क्षिप्य च करौ समपादं प्रयोजयेत् .. १७४..
व्यंसितापसृतं सव्यं हस्तमूर्ध्वं प्रसारयेत् .
प्रत्यालीढं ततः कुर्यात् तथैव च निकुट्टकम् .. १७५..
ऊरूद्वृत्तं ततः कुर्यादक्षिप्तं स्वस्तिकं ततः .
नितम्बं करि हस्तं च कटिच्छिन्नं च योगतः .. १७६..
स्थिरहस्तो भवेदेष त्वङ्गहारो हरप्रियः .
तलपुष्पापविद्धे द्वे वर्तितं संनिकुट्टिकम् .. १७७..
ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च .
नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च .. १७८..
एष पर्यस्तको नाम ह्यङ्गहारो हरोद्भवः .
अलपल्लवसूचीं च कृत्वा विक्षिप्तमेव च ..१७९..
आवर्तितं ततः कुर्यात्तथैअव च निकुट्टकम् .
ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च .. १८९..
करिहस्तं कटिच्छिन्नं सूचीविद्धो भवेदयम् .
अपविद्धं तु करणं सूचीविद्धं तथैव च .. १८१..
उद्वेष्टितेन हस्तेन त्रिकं तु परिवर्तयेत् .
उरोमण्डलकौ हस्तौ कटिच्छिन्नं तथैव च .. १८२..
अपविद्धोऽङ्गहाराश्च विज्ञेयोऽयं प्रयोक्तृभिः .
करणं नूपुरं कृत्वा विक्षिप्तालातके पुनः .. १८३..
पुनराक्षिप्तकं कुर्यादुरोमण्डलकं तथा .
नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च .. १८४..
आक्षिप्तकः स विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः .
उद्वेष्टितापविद्धस्तु करः पादो निकुट्टितः .. १८५..
पुनस्तैनैव योगेन वामपार्श्वे भवेदथ .
उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् .. १८६
कर्तव्यं सकटिच्छिन्नं नृत्ये तूद्धट्टिते सदा .
पर्यायोद्वेष्टितौ हस्तौ पादौ चैव निकुट्टितौ .. १८७..
कुञ्चितावञ्चितौअ चैव ह्यूरूद्वृत्तं तथैव च .
चतुरश्रं करं कृत्वा पादेन च निकुट्टकम् .. १८८..
भुजङ्गत्रासितं चैव करं चोद्विष्टितं पुनः .
परिच्छिन्नं च कर्तव्यं त्रिकं भ्रमरकेण तु .. १८९..
करिहस्तं कटिच्छिन्नं विष्कम्भे परिकीर्तितम् .
दण्डपादं करं चैव विक्षिप्याक्षिप्य चैव हि .. १९०..
व्यंसितं वामहस्तं च सह पादेन सर्पयेत् .
निकुट्टकद्वयं कार्यमाक्षिप्तं मण्डलोरसि .. १९१..
करिहस्तं कटिच्छिन्नं कर्तव्यमपराजिते .
कुट्टितं करणं कृत्वा भुजङ्गत्रासितं तथा .. १९२..
रेचितेन तु हस्तेन पताकं हस्तमादिशेत् .
आक्षिप्तकं प्रयुञ्जीत ह्युरोमण्डलकं तथा .. १९३..
लताख्यं सकटकच्छिन्नं विष्कम्भापसृते भवेत् .
त्रिकं सुवलितं कृत्वा नूपुरं करणं तथा .. १९४..
भुजङ्गत्रासितं सव्यं तथा वैशाखरेचितम् .
आक्षिप्तकं ततः कृत्वा परिच्छिन्नं तथैव च .. १९५..
बाह्यभ्रमरकं कुर्यादुरोमण्डलमेव च .
नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च .. १९६..
मत्ताक्रीडो भवेदेष ह्यङ्गहारो हरप्रियः .
रेचितं हस्तपादं च कृत्वा वृश्चिकमेव च .. १९७..
पुनस्तेनैव योगेन वृश्चिकं सम्प्रयोजयेत् .
निकुट्टकं तथा चैव सव्यासव्यकृतं क्रमात् ..१९८..
लताख्यः सकटिच्छेदो भवेत्स्वस्तिकरेचिते .
पार्श्वे तु स्वस्तिकं बद्ध्वा कार्यं त्वथ निकुट्टकम् .. १९९..
द्वितीयस्य च पार्श्वस्य विधिः स्याद्यमेव हि .
ततश्च करमावर्त्य ह्यूरूपृष्ठे निपातयेत् .. २००..
ऊरूद्वृत्तं ततः कुर्यादाक्षिप्तं पुनरेव हि .
नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च .. २०१..
पार्श्वस्वस्तिक इत्येष ह्यङ्गहारः प्रकीर्तितः .
वृश्चिकं करणं कृत्वा लताख्यं हस्तमेव च .. २०२..
तमेव च करं भूयो नासाग्रे सन्निकुञ्चयेत् .
तमेवोद्वेष्टितं कृत्वा नितम्बं परिवर्तयेत् .. २०३..
करिहस्तं कटिच्छिन्नं वृश्चिकापसृते भवेत् .
कृत्वा नूपुरपादं तु तथाक्षिप्तकमेव च .. २०४..
परिच्छिन्नं च कर्तव्यं सूचीपादं तथैव च .
नितम्बं करिहस्तं चाप्युरोमण्डलकं तथा .. २०५ ..
कटीच्छिन्नं ततश्चैव भ्रमरः स तु संज्ञितः .
मतल्लिकरणं कृत्वा करमावर्त्य दक्षिणम् .. १०६..
कपोलस्य प्रदेशे तु कार्यं सम्यङ्निकुञ्चितम्
अपविद्धं द्रुतं चैव तलसंस्फोटसंयुतम् .. २०७..
करिहस्तं कटिच्छिन्नं मत्तस्खलितके भवेत् .
दोलैः करैः प्रचलितैः स्वस्तिकापसृतैः पदैः .. २०८..
अञ्चितैर्वलितैर्हस्तैस्तलसङ्घट्टितैस्तथा .
निकुट्टितं च कर्तव्यमूरूद्वृतं तथैव च .. २०९..
करिहस्तं कटिच्छिन्नं मदाद्विलसिते भवेत् .
मण्डलं स्थानकं कृत्वा तथा हस्तौ च रेचितौ .. २१०..
उद्घट्टितेन पादेन मत्तल्लिकरणं भवेत् .
आक्षिप्तं करणं चैव ह्युरोमण्डलमेव च .. २११..
कटिच्छिन्नं तथा चैव भवेत्तु गतिमण्डले .
समपादं प्रयुज्याथ परिच्छिन्नं त्वनन्तरम् .. २१२..
आविद्धेन तु पादेन बाह्यभ्रमरकं तथा .
वामसूच्या त्वतिक्रान्तं भुजङ्गत्रासितं तथा .. २१३..
करिहस्तं कटिच्छिन्नं परिच्छिन्ने विधीयते .
शिरसस्तूपरि स्थाप्यौ स्वस्तिअकौ विच्युतौ करौ . २१४..
ततः सव्यं करं चापि गात्रमानम्य रेचयेत् .
पुनरुत्थापयेत्तत्र गात्रमुन्नम्य रेचितम् .. २१५..
लताख्यौ च करौ कृत्वा वृश्चिकं सम्प्रयोजयेत् .
रेचितं करिहस्तं च भुजङ्गत्रासितं तथा .. २१६..
आक्षिप्तकं प्रयुञ्जीत स्वस्तिकं पादमेव च .
पराङ्ग्मुखविधिर्भूय एवमेव भवेदिह .. २१७..
करिहस्तं कटिच्छिन्नं परिवृत्तकरेचितेए .
रेचितौ सह गात्रेण ह्यपविद्धौ करौ यदा .. २१८..
पुनस्तेनैव देशेन गात्रमुन्नम्य रेचयेत् .
कुर्यान्नूपुरपादं च भुजङ्गत्रासितं तथा .. २१९..
रेचितं मण्डलं चैव बाहुशीर्षे निकुञ्चयेत् .
ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च .. २२०..
करिहस्तं कटिच्छिन्नं कुर्याद्वैशाखरेचिते .
आद्यं तु जनितं कृत्वा पादमेकं प्रसारयेत् ..२२१..
तथैवालातकं कुर्यात् त्रिकं तु परिवर्तयेत् .
अञ्चितं वामहस्तं च गण्डदेशे निकुट्टयेत् .. २२२..
कटिच्छिन्नं तथा चैव परावृत्ते प्रयोजयेत् .
स्वस्तिकं करणं कृत्वा व्यंसितौ च करौ पुनः .. २२३..
अलातकं प्रयुञ्जीत ह्यूर्ध्वजानु निकुञ्चितम् .
अर्धसूची च विक्षिप्तमुद्वृत्ताक्षिप्तके तथा .. २२४..
करिहस्तं कटिच्छिन्नमङ्गहारे ह्यलातके .
निकुट्य वक्षसि करावूर्ध्वजानु प्रयोजयेत् .. २२५..
आक्षिप्तस्वस्तिकं कृत्वा त्रिकं तु परिवर्तयेत् .
उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् .. २२६..
कटिच्छिन्नं तथा चैव पार्श्वच्छेदे विधीयते .
सूचीवामपदं दध्याद्विद्युद्भ्रान्तं च दक्षिणम् .. २२७..
दक्षिणेन पुनः सूची विद्युद्भ्रान्तं च वामतः .
परिच्छिन्नं तथा चैव ह्यतिक्रान्तं च वामकम् .. २२८..
लताख्यं सकटिच्छिन्नं विद्युद्भ्रान्तश्च स स्मृतः .
कृत्वा नूपुरपादं तु सव्यवामौ प्रलम्बितौ .. २२९..
करौ पार्श्वे ततस्ताभ्यां विक्षिप्तं सम्प्रयोजयेत् .
ताभ्यां सूची तथा चैव त्रिकं तु परिवर्तयेत् .. २३०..
लताख्यं सकटिच्छिन्नं कुर्तादुद्वृत्तके सदा .
आलीढव्यंसितौ हस्तौ बाहुशीर्षे निकुट्टयेत् .. २३१..
नूपुरश्चरणो वामस्तथालातश्च दक्षिणः .
तेनैवाक्षिप्तकं कुर्यादुरोमण्डलकौ करौ ..२३२..
करिहस्तं कटिच्छिन्नमालीढे सम्प्रयोजयेत् .
हस्तं तु रेचितं कृत्वा पार्श्वमानस्य रेचयेत् .. २३३..
पुनस्तेनैव योगेन गात्रमानस्य रेचयेत् .
रेचितं करणं कार्यमुरोमण्डलमेव च .. २३४..
कटिच्छिन्नं तु कर्तव्यमङ्गहारे तु रेचिते .
नूपुरं चरणं कृत्वा त्रिकं तु परिवर्तयेत् ..२३५..
व्यंसितेन तु हस्तेन त्रिकमेव विवर्तयेत् .
वामं चालातकं कृत्वा सूचीमत्रैव योजयेत् ..२३६..
करिहस्तं कटिच्छिन्नं कुर्यादाच्छुरिते सदा .
रेचितौ स्वस्तिकौ पादौ रेचितौ स्वस्तिकौ करौ .. २३७..
कृत्वा विश्लेषमेवं तु तेनैव विधिना पुनः .
पुनरुत्क्षेपणं चैव रेचितैरेव कारयेत् .. २३८..
उद्वृत्ताक्षिप्तके चैव ह्युरोमण्डलमेव च .
नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च .. २३९..
आक्षिप्तरेचितो ह्येष करणानां विधिः स्मृतः .
विक्षिप्त करणं कृत्वा हस्तपादं मुखागमम् .. २४०..
वामसूचिसहकृतं विक्षिपेद्वामकं करम् .
वक्षःस्थाने भवेत्सव्यो वलितं त्रिकमेव च .. २४१..
नूपुराक्षिप्तके चैव ह्यर्धस्वस्तिकमेव च .
नितम्बं करिहस्तं च ह्युरोमण्डलकं तथा .. २४२..
कटिच्छिन्नं च कर्तव्यं सम्भ्रान्ते नृत्तयोक्तृभिः .
अपक्रान्तक्रमं कृत्वा व्यंसितं हस्तमेव च .. २४३..
कुर्यादुद्वेष्टितं चैव ह्यर्धसूचीं तथैव च .
विक्षिप्तं सकटिच्छिन्नमुद्वृत्ताक्षिप्तके तथा .. २४४..
करिहस्तं कटिच्छिन्नं कर्तव्यमपसर्पिते .
कृत्वा नूपुरपादं च द्रुतमाक्षिप्य च क्रमम् .. २४५..
पादस्य चानुगौ हस्तौ त्रिकं च परिवर्तयेत् .
निकुट्य करपादं चाप्युरोमण्डलकं पुनः .. २४६..
करिहस्तं कटिच्छिन्नं कार्यमर्धनिकुट्टके .
द्वात्रिंशदेते सम्प्रोक्ता ह्यङ्गहारा द्विजोत्तमाः .. २४७..
चतुरो रेचकांश्चापि गदतो मे निबोधत .
पादरेचक एकः स्यात् द्वितीयः कटिरेचकः .. २४८..
कररेचकस्तृतीयस्तु चतुर्थः कण्ठरेचकः .
[रेचिताख्यः पृथग्भावे वलने चाभिधीयते ..
उद्वाहनात्पृथग्भावाच्चलनाच्चापि रेचकः .
पार्श्वात्पार्श्वे तु गमनं स्खलितैश्चलितैः पदैः ..
विविधैश्चैव पादस्य पादरेचक उच्यते .
त्रिकस्योद्वर्तनं चैव छटीवलनमेव च ..
तथाऽपसर्पणं चैव कटिरेचक उच्यते .
उद्वर्तनं परिक्षेपो विक्षेपः परिवर्तनम् ..
विसर्पणं च हस्तस्य हस्तरेचक उच्यते .
उद्वाहनं सन्नमनं तथा पार्श्वस्य सन्नतिः ..
भ्रमणं चापि विज्ञेयो ग्रीवाया रेचको बुधैः . ]
रेचकैरङ्गहारैश्च नृत्यन्तं वीक्ष्य शङ्करम् .. २४९..
सुकुमारप्रयोगेण नृत्यन्तीं चैव पाअर्वतीम् .
मृदञ्गभेरीपटहैर्भाण्डडिण्डिमगोमुखैः ..२५०..
पणवैर्ददुरैश्चैव सर्वातोद्यैः प्रवादितैः .
दक्षयज्ञे विनिहते सन्ध्याकाले महेश्वरः .. २५१..
नानाङ्गहारैः प्रानृत्यल्लयतालवशानुगैअः .
पिण्डिबन्धांस्ततो दृष्ट्वा नन्दिभद्रमुखा गणाः .. २५२..
चक्रुस्ते नाम पिण्डीनां बन्धमासां सलक्षणम् .
ईश्वरस्येश्वरी पिन्डी नन्दिनश्चापि पट्टसी .. २५३..
चण्डिकाया भवेत्पिण्डी तथा वै सिंहवाहिनी .
तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयंभुवः .. २५४..
शक्रस्यैरावती पिण्डी झषपिण्डी तु मान्मथी .
शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः .. २५५..
धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च ..
वारुणी च नदीपिण्डी याक्षी स्याद्धनदस्य तु .. २५६..
हलपिण्डी बलस्यापि सर्पपिण्डी तु भोगिनाम् .
गाणेश्वरी महापिण्डी दक्षयज्ञविमर्दिनी..२५७..
त्रिशूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः .
एवमन्यास्वपि तथा देवतासु यथाक्रमम् .. २५८..
ध्वजभूताः प्रयोक्तव्याः पिण्डीबन्धाः सुचिह्निताः .
रेचका अङ्गहाराश्च पिण्डीबन्धातस्थैव च .. २५९..
सृष्ट्वा भगवता दत्तास्तण्डवे मुनये तदा .
तेनापि हि ततः सम्यग्गानभाण्डसमन्वितः .. २६०..
नृत्तप्रयोगः सृष्टो यः स ताण्डव इति स्मृतः .
ऋषय ऊचुः -
यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः कृतः .. २६१..
कस्मानृत्तं कृतं ह्येतत्कं स्वभावमपेक्षते .
न गीतकार्थसम्बद्धं न चाप्यर्थस्य भावकम् .. २६२..
कस्मान्नृत्तं कृतं ह्येतद्गीतेष्वासारितेषु च .
भरतः -
अत्रोच्यते न खल्वर्थं कञ्चिन्नृत्तमपेक्षते .. २६३..
किं तु शोभां प्रजनयेदिति नृत्तं प्रवर्तितम् .
प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः .. २६४..
मङ्गलमिति कृत्वा च नृत्तमेतत्प्रकीर्तितम् .
विवाअहप्रसवावाहप्रमोदाभ्युअदयादिषु .. २६५..
विनोदकारणं चेति नृत्तमेतत्प्रवर्तितम् .
अतश्चैव प्रतिक्षेपाद्भूतसङ्घैः प्रवर्तिताः.. २६६..
ये गीतकादौ युज्यन्ते सम्यङ्नृत्तविभागकाः.
देवेन चापि सम्प्रोक्तस्तण्डुस्ताण्डवपूर्वकम् .. २६७..
गीतप्रयोगमाश्रित्य नृत्तमेतत्प्रवर्त्यताम् .
प्रायेण ताण्डवविधिर्देवस्तुत्याश्रयो भवेत् ..२६८..
सुकुमारप्रयोगश्च शृङ्गाररससम्भवः .
तस्य तण्डुप्रयुक्तस्य ताण्डवस्य विधिक्रियाम्..२६९..
वर्धमानकमासाद्य सम्प्रवक्ष्यमि लक्षणम् .
कलानां वृद्धिमासाद्य ह्यक्षराणां च वर्धनात् .. २७०..
लयस्य वर्धनाच्चापि वर्धमानकमुच्यते .
कृत्त्वा कुतपविन्यासं यथावद्द्विजसत्तमाः .. २७१..
आसारितप्रयोगस्तु ततः कार्यः प्रयोक्तृभिः .
तत्र तूपोहनं कृत्त्वा तन्त्रीगानसमन्वितम् .. २७२..
कार्यः प्रवेशो नर्तक्या भाण्डवाद्यसमन्वितः .
विशुद्धकरणायां तु जात्यां वाद्यं प्रयोजयेत् ..२७३..
गत्या वाद्यानुसारिण्या तस्याश्चारीं प्रयोजयेत् .
वैशाखस्थानकेनेह सर्वरेचकचारिणी .. २७४..
पुष्पाञ्जलिधरा भूत्वा प्रविशेद्रङ्गमण्डपम् .
पुष्पाञ्जलिं विसृज्याथ रङ्गपीठं परीत्य च .. २७५..
प्रणम्य देवताभ्यश्च ततोऽभिनयमाचरेत् .
यत्राभिनेयं गीतं स्यात्तत्र वाद्यं न योजयेत् .. २७६..
अङ्गहारप्रयोगे तु भाण्डवाद्यं विधीयते .
समं रक्तं विभक्तं च स्फुटं शुद्धप्रहारजम् ..२७७..
नृत्ताङ्गग्राहि वाद्यज्ञैर्वाद्यं योज्यं तु ताण्डवे .
प्रयुज्य गीतवाद्ये तु निष्क्रामेन्नर्तकी ततः .. २७८..
अनेनैव विधानेन प्रविशन्त्यपराः पृथक् .
अन्याश्चानुक्रमेणाथ पिण्डीं बध्नन्ति याः स्त्रियः .. २७९..
तावत्पर्यस्तकः कार्यो यावत्पिण्डी न बध्यते .
पिण्डीं बद्ध्वा ततः सर्वा निष्क्रामेयुः स्त्रियस्तु ताः .. २८०..
पिण्डीबन्धेषु वाद्यं तु कर्तव्यमिह वादकैअः .
पर्यस्तकप्रमाणेन चित्रौघकरणान्वितम् .. २८१..
तत्रोपवाहनं भूयः कार्यं पूर्ववदेव हि .
ततश्चासारितं भूयो गायनं तु प्रयोजयेत् .. २८२..
पूर्वेणैव विधानेन प्रविशेच्चापि नर्तकी .
गीतकार्थं त्वभिनयेद् द्वितीयासारितस्य तु .. २८३..
तदेव च पुनर्वस्तु नृत्तेनापि प्रदर्शयेत् .
आसारिते समाप्ते तु निष्क्रामेन्नर्तकी ततः .. २८४..
पूर्ववत्प्रविशन्त्यन्याः प्रयोगः स्यात्स एव हि .
एवं पदे पदे कार्यो विधिरासारितस्य तु .. २८५..
भाण्डवाद्यकृते चैव तथा गानकृतेऽपि च .
एका तु प्रथमं योज्या द्वे द्वितीयं तथैव च .. २८६..
तिस्रो वस्तु तृतीयं तु चतस्रस्तु चतुर्थकम् .
पिण्डीनां विधयश्चैव चत्वारः सम्प्रकीर्तिताः .. २८७..
पिण्डी शृङ्खलिका चैव लताबन्धोऽथ भेद्यकः .
पिण्डीबन्धस्तु पिण्डत्वाद्गुल्मः शृङ्खलिका भवेत् .. २८८..
जालोपनद्धा च लता सनृत्तो भेद्यकः स्मृतः .
पिण्डीबन्धः कनिष्ठे तु शृङ्खला तु लयान्तरे .. २८९..
मध्यमे च लताबन्धो ज्येष्ठे चैवाथ भेद्यकः .
पिण्डीनां विविधा योनिर्यन्त्रं भद्रासनं तथा .. २९०..
शिक्षायोगस्तथा चैव प्रयोक्तव्यः प्रयोक्तृभिः .
एवं प्रयोगः कर्तव्यो वर्धमाने तपोधनाः .. २९१..
गीतानां छन्दकानां च भूयो वक्ष्याम्यहं विधिम् .
यानि वस्तुनिबद्धानि यानि चाङ्गिकृतानि तु .. २९२..
गीतानि तेषां वक्ष्यामि प्रयोगं नृत्तवाद्ययोः .
तत्रावतरणं कार्यं नर्तक्याः सार्वभाण्डिकम् .. २९३..
क्षेपप्रतिक्षेपकृतं भाण्डोपोहनसंस्कृतम् .
प्रथमं त्वभिनेयं स्यद्गीतके सर्ववस्तुकम् .. २९४
तदेव च पुनर्वस्तु नृत्तेएनापि प्रदर्शेयत् .
यो विधिः पूर्वमुक्तस्तु नृत्ताभिनयवादिते .. २९५..
आसारितविधौ स स्याद्गीतानां वस्तुकेष्वपि .
एवं वस्तुनिबन्धानां गीतकानां विधिः स्मृतः .. २९६..
शृणुताङ्गनिबद्धानां गीतानामपि लक्षणम् .
य एव वस्तुकविधिर्नृत्ताभिनयवादिते .. २९७..
तमेवाङ्गनिबद्धेषु च्छन्दकेष्वपि योजयेत् .
वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरमेव च .. २९८..
मुखे सोपोहने कुर्याद्वर्णानां विप्रकर्षतः .
यदा गीतिवशादङ्गं भूयो भूयो निवर्तते .. २९९..
तत्राद्यमभिनेयं स्याच्छेषं नृत्तेन योजयेत् .
यदा गीतिवशादङ्गं भूयो भूयो निवर्तते .. ३००..
त्रिपाणिलयसंयुक्तं तत्र वाद्यं प्रयोजयेत् .
यथा लयस्तथा वाद्यं कर्तव्यमिह वादकैः .. ३०१..
[ततं चानुगतं चापि ओघं च करणान्वितम् .
स्थिरे तत्त्वं (तं)प्रयोक्तव्यं मध्ये चानुगतं भवेत् ..
भूयश्चौघः प्रयोक्तव्यस्त्वेष वाद्यगतो विधिः .
छन्दोगीतकमासाद्य त्वङ्गानि परिवर्तयेत् ..
एष कार्यो विधिर्नित्यं नृत्ताभिनयवादिते .
यानि वस्तुनिबद्धानि तेषामन्ते ग्रहो भवेत् ..
अङ्गानां तु परावृत्तावादावेव ग्रहो मतः ..]
एवमेष विधिः कार्यो गीतेष्वासारितेष्वपि .
देवस्तुत्याश्रयं ह्येतत्सुकुमारं निबोधत .. ३०२..
स्त्रीपुंसयोस्तु संलापो यस्तु कामसमुद्भवः .
तज्ज्ञेयं सुकुमारं हि शृङ्गाररससम्भवम् .. ३०३..
यस्यां यस्यामवस्थायां नृत्तं योज्यं प्रयोक्तृभिः .
तत्सर्वंं संप्रवक्ष्यामि तच्च मे शृणुत द्विजाः .. ३०४..
अङ्गवस्तुनिवृत्तौ तु तथा वर्णनिवृत्तिषु .
तथा चाभुदयस्थाने नृत्तं तज्ज्ञः प्रयोजयेत् .. ३०५..
यत्तु संदृश्यते किञ्चिद्दम्पत्योर्मदनाश्रयम् .
नृत्तं तत्र प्रयोक्तव्यं प्रहर्षार्थगुणोद्भवम् .. ३०६..
यत्र सन्निहिते कान्ते ऋतुकाअलादिदर्शनम् .
गीतकार्थाभिसंबद्धं नृत्तं तत्रापि चेष्यते .. ३०७..
खण्डिअता विप्रलब्धा वा कलहान्तरितापि वा .
यस्मिन्नङ्गे तु युवतिर्न नृत्तं तत्र न योजयेत् ..३०८..
सखीप्रवृत्ते संलापे तथाऽसन्निहिते प्रिये .
न हि नृत्तं प्रयोक्तव्यं यस्या न प्रोषितः प्रियः .. ३०९..
[दूत्याश्रयं यदा तु स्यादृतुकालादि दर्शनम् .
औत्सुक्यचिन्तासंबद्धं न नृत्तं तत्र योजयेत् ..]
यस्मिन्नङ्गे प्रसादं तु गृह्नीयान्नायिका क्रमात् .
ततःप्रभृति नृत्तं तु शेषेष्वङ्गेषु योजयेत् .. ३१०..
देवस्तुत्याश्रयकृतं यदङ्गं तु भवेदथ .
माहेश्वरैरङ्गहारैरुद्धतैस्तत्प्रयोजयेत् ..३११..
यत्तु शृङ्गारसंबद्धं गानं स्त्रीपुरुषाश्रयम् .
देवीकृतैरङ्गहारैर्ललितैस्तत्प्रयोजयेत् .. ३१२..
चतुष्पदा नर्कुटके खञ्जके परिगीतके .
विधानं सम्प्रवक्ष्यामि भाण्डवाद्यविधिं प्रति .. ३१३..
खञ्जनर्कुटसंयुक्ता भस्वेद्या तु चतुष्पदा .
पादान्ते सन्निपाते तु तस्या भाण्डग्रहो भवेत् .. ३१४..
या ध्रुवा छन्दसा यक्ता समपादा समाक्षरा .
तस्याः पादावसाने तु प्रदेशिन्या ग्रहो भवेत् ..३१५..
कृत्वैकं परिवर्तं तु गानस्याभिनयस्य च .
पुनः पादनिवृत्तिं तु भाण्डवाद्येन योजयेत् ..३१६..
अ~ङ्गवस्तुनिवृतौ तु वर्णान्तरनिवृत्तिषु .
तथोपस्थापने चैव भाण्डवाद्यं प्रयोजयेत् .. ३१७..
येऽपि चान्तरमार्गास्स्युः तन्त्रिवाक्करणैः कृताः .
तेषु सूची प्रयोक्तव्या भाण्डेन सह ताण्डवे .. ३१८
महेश्वरस्य चरितं य इदं सम्प्रयोजयेत्
सर्वपापविशुद्धात्मा शिवलोकं स गच्छति .. ३१९..
एवमेष विधिः सृ(र्दृ)ष्टस्ताण्डवस्य प्रयोगतः .
भूयः किं कथ्यतामन्यन्नाट्यवेदविधिं प्रति .. ३२०..

इति भारतीये नाट्यशास्त्रे ताण्डवलक्षणं नाम चतुर्थोऽध्यायः ..

Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com

नाट्यशास्त्र तृतीय अध्याय

. नाट्यशास्त्रम् अध्याय ३ ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्

अथ तृतीयोध्यायः .
सर्वलक्षणसंपन्ने कृते नाट्यगृहे शुभे .
गावो वसेयुः सप्ताहं सह जप्यपरैर्द्विजैः .. १..
ततोऽधिवासयेद्वेश्म रङ्गपीठं तथैव च .
मन्त्रपूतेन तोयेन प्रोक्षिताङ्गो निशागमे .. २..
यथास्थानान्तरगतो दीक्षितः प्रयतः शुचिः .
त्रिरात्रोपोषितो भूत्वा नाट्याचार्योऽहताम्बरः .. ३..
नमस्कृत्य महादेवं सर्वलोकोद्भवं भवम् .
जगत्पितामहं चैव विष्णुमिन्द्रं गुहं तथा .. ४..
सरस्वतीं च लक्ष्मीं च सिद्धिं मेधां धृतिं स्मृतिम् .
सोमं सूर्यं च मरुतो लोकपालांस्तथाश्विनौ .. ५..
मित्रमग्निं सुरान्वर्णान् रुद्रान्कालं कलिं तथा .
मृत्युं च नियतिं चैव कालदण्डं तथैव च .. ६..
विष्णुप्रहरणं चैव नागराजं च वासुकिम् .
वज्रं विद्युत्समुद्रांश्च गन्धर्वाप्सरसो मुनीन् .. ७..
भूतान् पिशाचान् यक्षांश्च गुह्यकांश्च महेश्वरान् .
असुरान्नाट्यविघ्नांश्च तथाऽन्यान्दैत्यराक्षसान् .. ८..
तथा नाट्यकुमारीश्च महाग्रामण्यमेव च .
यक्षांश्च गुह्यकांश्चैव भूतसङ्घास्तथैव च .. ९..
एतांश्चान्यांश्च देवर्षीन्प्रणम्य रचिताञ्जलिः .
यथास्थानान्तरगतान्समावाह्य ततो वदेत् .. १०..
भवद्भिर्नो निशायां तु कर्तव्यः सम्परिग्रहः .
साहाय्यं चैव दातव्यमस्मिन्नाट्ये सहानुगैः .. ११..
सम्पूज्य सर्वानेकत्र कुतपं सम्प्रयुज्य च .
जर्जराय प्रयुञ्जीत पूजां नाट्यप्रसिद्धये .. १२..
त्वं महेन्द्रप्रहरणं सर्वदानवसूदनम् .
निर्मितस्सर्वदेवैश्च सर्वविघ्ननिबर्हण .. १३..
नृपस्य विजयं शंस रिपूणां च पराजयम् .
गोब्राह्मणशिवं चैव नाट्यस्य च विवर्धनम् .. १४..
एवं कृत्वा यथान्यायमुपास्यं नाट्यमण्डपे .
निशायां तु प्रभातायां पूजनं प्रक्रमेदिह .. १५..
आर्द्रायां वा मघायां वा याम्ये पूर्वेषु वा त्रिषु .
आश्लेषामूलयोर्वापि कर्तव्यं रङ्गपूजनम् .. १६..
आचार्येण तु युक्तेन शुचिना दीक्षितेन च .
रङ्गस्योद्योतनं कार्यं देवतानां च पूजनम् .. १७..
दिनान्ते दारुणे घोरे मुहूर्ते यमदैवते .
आचम्य तु यथान्यायं देवता वै निवेशयत् .. १८..
रक्ताः प्रतिसराः सूत्रं रक्तगन्धाश्च पूजिताः .
रक्ताः सुमनसश्चैव यच्च रक्तं फलं भवेत् .. १९..
यवैस्सिद्धार्थकैर्लाजैरक्षतैः शालितण्डुलैः .
नागपुष्पस्य चूर्णेन वितुषाभिः प्रियङ्गुभिः .. २०..
एतैर्द्रव्यैर्युतं कुर्याद्देवतानां निवेशनम् .
आलिखेन्मण्डलं पूर्वं यथास्थानं यथाविधिः .. २१..
समन्तस्तश्च कर्तव्यं हस्ता षोडश मण्डलम् .
द्वाराणि चात्र कुर्वीत विधानेन चतुर्दिशम् .. २२..
मध्ये चैवात्र कर्तव्ये द्वे रेखे तिर्यगूर्ध्वगे .
तयोः कक्ष्याविभागेन दैवतानि निवेशयत् .. २३..
पद्मोपविष्टं ब्रह्माणं तस्य मध्ये निवेशयेत् .
आदौ निवेश्यो भगवान्सार्धं भूतगणैः शिवः .. २४..
नारायणो महेन्द्रश्च स्कन्दः सूर्योऽश्विनौ शशी .
सरस्वती च लक्ष्मीश्च श्रद्धा मेधा च पूर्वतः .. २५..
पूर्वदक्षिणतो वह्निर्निवेश्यः स्वाहया सह .
विश्वेदेवाः सगन्धर्वा रुद्राः सर्पगणास्तथा .. २६..
दक्षिणेन निवेश्यस्तु यमो मित्रश्च सानुगः .
पितॄन्पिशाचानुरगान् गुह्यकांश्च निवेशयत् .. २७..
नैॠत्यां राक्षसांश्चैव भूतानि च निवेशयत् .
पश्चिमायां समुद्रांश्च वरुणं यादसां पतिम् .. २८..
वायव्यायां दिशि तथा सप्त वायून्निवेशयेत् .
तत्रैव विनिवेश्यस्तु गरुडः पक्षिभिः सह .. २९..
उत्तरस्यां दिशि तथा धनदं संनिविएशयेत् .
नाट्यस्य मातॄश्च तथा यक्षानथ सगुह्यकान् .. ३०..
तथैवोत्तरपूर्वायां नन्द्याद्यांश्च गणेश्वरान् .
ब्रह्मर्षिभूतसंघांश्च यथाभागं निवेशयत् .. ३१..
स्तम्भे सनत्कुमारं तु दक्षिणे दक्षमेव च .
ग्रामण्यमुत्तरे स्तम्भे पूजार्थं संनिविशयेत् .. ३२..
अनेनैअव विधानेन यथास्थानं यथाविधि .
सुप्रसादानि सर्वाणि दैवतानि निवेशयत् .. ३३..
स्थाने स्थाने यथान्यायं विनिवेश्य तु देवताः .
तासां प्रकुर्वीत ततः पूजनं तु यथार्हतः .. ३४..
देवताभ्यस्तु दातव्यं सितमाल्यानुलेपनम् .
गन्धर्ववह्निसूर्योभ्यो रक्तमाल्यानुलेपनम् .. ३५..
गन्धं माल्यं च धूपं च यथावदनुपूर्वशः .
दत्वा ततः प्रकुर्वीत बलिं पूजां यथाविधिः .. ३६..
ब्रह्माणं मदुकर्पेण पायसेन सरस्वतीम् .
शिवविष्णुमहेन्द्राद्याः सम्पूज्या मोदकैरथ .. ३७..
घृतौदनेन हुतभुक्सोमर्कौ तु गुडौदनैः .
विश्वेदेवाः सगन्धर्वा मुनयो मधुपायसैः .. ३८..
यममित्रौ च सम्पूज्यावपूपैर्मोदकैस्तथा .
पितॄन्पिशाचानुरगान् सर्पिःक्षीरेण तर्पयेत् .. ३९..
पक्वानेन तु मांसेन सुरासीथुफलासवैः .
अर्चयेद्भूतसंघांश्च चणकैः पललाप्लुतैः .. ४०..
अनेनैव विधानेन सम्पूज्या मत्तवारणी .
पक्वामेन तु मांसेन सम्पूज्या रक्षसां गणाः .. ४१..
सुरामांसप्रदानेअन दानवान्प्रतिपूजयेत् .
शेषान्देवगणांस्तज्ज्ञः सापूपोत्कारिकौदनैः .. ४२..
मत्स्यैश्च पिष्टभक्ष्यैश्च सागरान्सरितस्तथा .
सम्पूज्य वरुणं चापि दातव्यं घृतपायसम् .. ४३..
नानाफूलफलश्चापि मुनीन्सम्प्रतिपूजयेत् .
वायूंश्च पक्षिणश्चैव विचित्रैर्भक्ष्यभोजनैः .. ४४..
मातॄर्नाट्यस्य सर्वास्ता धनदं च सहानुगैः .
अपूपैर्लाजिकामिश्रैर्भक्ष्यभोज्यैश्च पूजयेत् .. ४५..
एवमेषां बलिः कार्यो नानाभोजनसंश्रयः .
पुनर्मन्त्रविधानेन बलिकर्म च वक्ष्यते .. ४६..
देवदेव महाभाग सर्वलोकपितामह .
मन्त्रपूतमिमं सर्वं प्रतिगृह्णीष्व मे बलिम् .. ४७..
देवदेव महाभाग गणेश त्रिपुरान्तक .
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः .. ४८..
नारायणामितगते पद्मनाभ सुरोत्तम .
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयार्पितः .. ४९..
पुरन्दरामरपते वज्रपाणे शतक्रतो .
प्रगृह्यतां बलिर्देव विधिमन्त्रपुरस्कृतः .. ५०..
देवसेनापते स्कन्द भगवन् शङ्करप्रिय .
बलिः प्रीतेन मनसा षण्मुख प्रतिगृह्यताम् .. ५१..
( महादेव महायोगिन्देवदेव सुरोत्तम .
संप्रगृह्य बलिं देव रक्ष विघ्नात्सदोत्थितात् .. )
देवि देवमहाभागे सरस्वति हरिप्रिये .
प्रगृह्यतां बलिर्मातर्मया भक्त्या समर्पितः .. ५२..
नानानिमित्तसम्भूताः पौलस्त्याः सर्व एव तु
राक्षसेन्द्रा महासत्वाः प्रतिगृह्णीत मे बलिम् .. ५३..
लक्ष्मीः सिद्धिर्मतिर्मेधा सर्वलोकनमस्कृताः .
मन्त्रपूतमिमं देव्यः प्रतिगृह्णन्तु मे बलिम् .. ५४..
सर्वभूतानुभावज्ञ लोकजीवन मारुत .
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः .. ५५..
देववक्त्र सुरश्रेष्ठ धूमकेतो हुताशन .
भक्त्या समुद्यतो देव बलिः सम्प्रति गृह्यताम् .. ५६..
सर्वग्रहाणां प्रवर तेजोराशे दिवाकर .
भक्त्या मयोद्यतो देव बलिः सम्प्रति गृह्यताम् .. ५७..
सर्वग्रहपते सोम द्विजराज जगत्प्रिय .
प्रगृह्यतामेष बलिर्मन्त्रपूतो मयोद्यतः .. ५८..
महागणेश्वराः सर्वे नन्दीश्वरपुरोगमाः .
प्रगृतां बलिर्भक्त्या मया सम्प्रति चोदितः .. ५९..
नमः पितृभ्यः सर्वेभ्यः प्रतिगृह्णन्त्विमं बलिम् .
( भूतेभ्यश्च नमो नित्यं येषामेष बलिः प्रियः .)
कामपाल नमो नित्यं यस्यायं ते विधिः कृतः .. ६०..
नारदस्तुम्बरुश्चैव विश्वावसुपुरोगमाः .
परिगृह्णन्तु मे सर्वे गन्धर्वा बलिमुद्यतम् .. ६१..
यमो मित्रश्च भगवानीश्वरौ लोकपूजितौ .
इमं मे प्रतिगृह्णीतां बलिः मन्त्रपुरस्कृतम् .. ६२..
रसातलगतेभ्यश्च पन्नगेभ्यो नमो नमः .
दिशन्तु सिद्धिं नाट्यस्य पूजिताः पापनाशनाः .. ६३..
सर्वाम्भसां पतिर्देवो वरुणो हंसवाहनः .
पूजितः प्रीतमानस्तु ससमुद्रनदीनदः .. ६४..
वैनतेय महासत्व सर्वपक्षिपते विभो .
प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः .. ६५..
धनाध्यक्षो यक्षपतिर्लोकपालो धनेश्वरः .
सगुह्यकस्सयक्षश्च प्रतिगृह्णातु मे बलिम् .. ६६..
नमोऽस्तु नाट्यमातृभ्यो ब्राह्म्याद्याभ्यो नमोनमः .
सुमुखीभिः प्रसन्नाभिर्बलिरद्य प्रगृह्यताम् .. ६७..
रुद्रप्रहरणं सर्वं प्रतिगृह्णातु मे बलिम् .
विष्णुप्रहरणं चैव विष्णुभक्त्या मयोद्यतम् .. ६८..
तथा कृतान्तः कालश्च सर्वप्राणिवधेश्वरौ .
मृत्युश्च नियतिश्चैव प्रतिगृह्णातु मे बलिम् .. ६९..
याश्चास्यां मत्तवारण्यां संश्रिता वस्तुदेवताः .
मन्त्रपूतमिमं सम्यक्प्रतिगृह्णन्तु मे बलिम् .. ७०..
अन्ये ये देवगन्धर्वा दिशो दश समाश्रिताः .
दिव्यान्तरिक्षाभौमाश्च तेभ्यश्चायं बलिः कृतः .. ७१..
कुम्भं सलिलसम्पूर्णं पुष्पमालापुरस्कृतम् .
स्थापयेद्रङ्गमध्ये तु सुवर्णं चात्र दापयेत् .. ७२..
( आतोद्यानि तु सर्वाणि कृत्वा वस्त्रोत्तराणि तु .
गन्धैर्माल्यैश्च धूपैश्च भक्ष्यैर्भोज्यैश्च पूजयेत् ..
पूजयित्वा तु सर्वाणि दैवतानि यथाक्रमम् .
जर्जरस्त्वभिसम्पूज्यः स्यात्ततो विघ्नजर्जरः .. ७३..
श्वेतं शिरसि वस्त्रं स्यान्नीलं रौद्रे च पर्वणि .
विष्णुपर्वणि वै पीतं रक्तं स्कन्दस्य पर्वणि .. ७४..
मृडपर्वणि चित्रं तु देयं वस्त्रं हितार्थिना .
सदृशं च प्रदातव्यं धूपमाल्यानुलेपनम् .. ७५..
आतोद्यानि तु सर्वाणि वासोभिरवगुण्ठयेत् .
गन्धैर्माल्यैश्च धूपैश्च भक्ष्यभोजैश्च पूजयेत् .. ७६..
सर्वमेवं विधिं कृत्वा गन्धमाल्यानुलेपनैः .
विघ्नजर्जरणार्थं तु जर्जरं त्वभिमन्त्रयेत् .. ७७..
अत्र विघ्नविनाशार्थं पितामहमुखैस्सुरैः .
निर्मितस्त्वं महावीर्यो वज्रसारो महातनुः .. ७८..
शिरस्ते रक्षतु ब्रम्हा सर्वैर्देवगुणैअः तह .
द्वितीयं च हरः पर्व तृतीयं च जनार्दनः .. ७९..
चतुर्थं च कुमारस्ते पञ्चमं पन्नगोत्तमः .
नित्यं सर्वेऽपि पान्तु त्वां सुरार्थे च शिवो भव .. ८०..
नक्षत्रेऽभिजिति त्वं हि प्रसूतोऽहितसूदन .
जयं चाभ्युदयं चैव पार्थिवस्य समावह .. ८१..
जर्जरं पूजयित्वैअवं बलिं सर्वं निविद्य च .
अग्नौ होमं ततः कुर्यान्मन्त्राहुइतिपुरस्कृतम् .. ८२..
हुताश एव दीप्ताभिरुल्काभिः परिमार्जनम् .
नृपतेर्नर्तकीनां च कुर्याद्दीप्त्यभिवर्धनम् .. ८३..
अभिद्योत्य सहातोद्यैर्नृपतिं नर्तकीस्तथा .
मन्त्रपूतेन तोयेन पुनरभ्युक्ष्य तान्वदेत् .. ८४..
महाकुले प्रसूताः स्थ गुणौघैश्चाप्यलङ्कृताः .
यद्वो जन्मगुणोपेतं तद्वो भवतु नित्यशः .. ८५..
एवमुक्त्वा ततो वाक्यं नृपतैर्भूतये बुधः .
नाट्ययोगप्रसिद्ध्यर्थमाशिषस्सम्प्रयोजयेत् .. ८६..
सरस्वती धृतिर्मेधा ह्रीः श्रीर्लक्ष्मीस्स्मृतिर्मतिः .
पान्तु वो मातरः सौम्यास्सिद्धिदाश्च भवन्तु वः .. ८७..
होमं कृत्वा यथान्यायं हविर्मन्त्रपुरस्कृतम् .
भिन्द्यात्कुम्भं ततश्चैव नाट्याचार्यः प्रयत्नतः .. ८८..
अभिन्ने तु भवेत्कुम्भे स्वामिनः शत्रुतो भयम् .
भिन्ने चैव तु विज्ञेयः स्वामिनः शत्रुसंक्षयः .. ८९..
भिन्ने कुम्भे ततश्चैव नाट्यचार्यः प्रयत्नतः .
प्रगृह्य दीपिकां दीप्तां सर्वं रङ्गं प्रदीपयेत् .. ९०..
क्ष्वेडितैः स्फोटितैश्चैव वल्गितैश्च प्रधावितैः .
रङ्गमध्ये तु तां दीप्तां सशब्दां सम्प्रयोजयेत् .. ९१..
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवैस्तथा .
सर्वातोद्यैः प्रणदितै रङ्गे युद्धानि कारयेत् .. ९२..
तत्र च्छिन्नं व भिन्नं च दारितं च सशोणितम् .
क्षतं प्रदीप्तमायस्तं निमित्तं सिद्धिलक्षणम् .. ९३..
सम्यगिष्टस्तु रङ्गो वै स्वामिनः शुभमावहेत् .
पुरस्याबालवृद्धस्य तथा जानपदस्य च .. ९४..
दुरिष्टस्तु तथा रङ्गो दैवतैर्दुरधिष्ठितः .
नाट्यविध्वसनं कुर्यान्नृपस्य च तथाऽशुभम् .. ९५..
य एवं विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् .
प्राप्नोत्यपचयं शीघ्रं तिर्यग्योनिं च गच्छति .. ९६..
यज्ञेन सम्मितं ह्येतद्रङ्गदैवतपूजनम् .
अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रयोजयेत् .. ९७..
पूजिताः पूजयन्त्येते मानिता मानयन्ति च .
तस्मात्सर्वप्रयत्नेन कर्तव्यं रङ्गपूजनम् .. ९८..
न तथा प्रदहत्यग्निः प्रभञ्जनसमीरितः .
यथा ह्यपप्रयोगस्तु प्रयुक्तो दहति क्षणात् .. ९९..
शास्त्रज्ञेन विनीतेन शुचिना दीक्षितेन च .
नाट्याचार्येण शान्तेन कर्तव्यं रङ्गपूजनम् ..१००..
स्थानभ्रष्टं तु यो दद्याद्बलिमुद्विग्नमानसः .
मन्त्रहीनो यथा होता प्रायश्चित्ती भवेत्तु सः .. १०१..
इत्ययं यो विधिर्दृष्टो रङ्गदैवतपूजने .
नवे नाट्यगृहे कार्यः प्रेक्षायां च प्रयोक्तृभिः .. १०२..

इति भारतीये नाट्यशास्त्रे रङ्गदैवतपूजनं नाम तृतीयोऽध्यायः समाप्तः .

शनिवार, 29 अगस्त 2009

.. नाट्यशास्त्रम् अध्याय २ ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ भारतीये नाट्यशास्त्रे द्वितीयोऽध्यायः .
भरतस्य वचः श्रुत्वा पप्रच्छुर्मुनयस्ततः .
भगवन् श्रोतुमिच्छामो यजनं रङ्गसंश्रयम् .. १..
अथ वा या क्रियास्तत्र लक्षणं यच्च पूजनम् .
भविष्यद्भिर्नरैः कार्यं कथं तन्नाट्यवेश्मनि .. २..
इहादिर्नाट्ययोगस्य नाट्यमण्डप एव हि .
तस्मात्तस्यैव तावत्त्वं लक्षणं वक्तुमर्हसि .. ३..
तेषां तु वचनं श्रुत्वा मुनीनां भरतोऽब्रवीत् .
लक्षणं पूजनं चैव श्रूयतां नाट्यवेश्मनः .. ४..
दिव्यानां मानसी सृष्टिर्गृहेषूपवनेषु च .
( यथा भावाभिनिर्वर्त्याः सर्वे भावास्तु मानुषाः ..)
नराणां यत्नतः कार्या लक्षणाभिहिता क्रिया .. ५..
श्रूयतां तद्यथा यत्र कर्तव्यो नाट्यमण्डपः .
तस्य वास्तु च पूजा च यथा योज्या प्रयत्नतः .. ६..
इह प्रेक्ष्यागृहं दृष्ट्वा धीमता विश्वकर्मणा .
त्रिविधः सन्निवेशश्च शास्त्रतः परिकल्पितः .. ७..
विकृष्टश्चतुरश्रश्च त्र्यश्रश्चैव तु मण्डपः .
तेषां त्रीणि प्रमाणानि ज्येष्ठं मध्यं तथाऽवरम् .. ८..
प्रमाणमेषां निर्दिष्टं हस्तदण्डसमाश्रयम् .
शतं चाष्टौ चतुःषष्टिर्हस्ता द्वात्रिंशदेव च .. ९..
अष्टाधिकं शतं ज्येष्ठं चतुःषष्टिस्तु मध्यमम् .
कनीयस्तु तथा वेश्म हस्ता द्वात्रिंशदिष्यते .. १०..
देवानां तु भवेज्ज्येष्ठं नृपाणां मध्यमं भवेत् .
शेषाणां प्रकृतीनां तु कनीयः संविधीयते .. ११..
(प्रेक्षागृहाणां सर्वेषां प्रशस्तं मध्यमं स्मृतम् .
तत्र पाठ्यं च गेयं च सुखश्राव्यतरं भवेत् ..
प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः .
विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ..
कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् .
ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ..)
प्रमाणं यच्च निर्दिष्टं लक्षणं विश्वकर्मणा .
प्रेक्षागृहाणां सर्वेषां तच्चैव हि निबोधत .. १२..
अणू रजश्च वालश्च लिक्षा यूका यवस्तथा .
अङ्गुलं च तथा हस्तो दण्डश्चैव प्रकीर्तितः .. १३..
अणवोऽष्टौ रजः प्रोक्तं तान्यष्टौ वाल उच्यते .
वालास्त्वष्टौ भवेल्लिक्षा यूका लिक्षाष्टकं भवेत् .. १४..
यूकास्त्वष्टौ यवो ज्ञेयो यवास्त्वष्टौ तथाङ्गुलम् .
अङ्गुलानि तथा हस्तश्चतुर्विंशतिरुच्यते .. १५..
चतुर्हस्तो भवेद्दण्डो निर्दिष्टस्तु प्रमाणतः .
अनेनैव प्रमाणेन वक्ष्याम्येषां विनिर्णयम् .. १६..
चतुःषष्टिकरान्कुर्याद्दीर्घत्वेन तु मण्डपम् .
द्वात्रिंशतं च विस्तारन्मर्त्यानां यो भवेदिह .. १७..
अत ऊर्ध्वं न कर्तव्यः कर्तृभिर्नाट्यमण्डपः .
यस्मादव्यक्तभावं हि तत्र नाट्यं व्रजेदिति .. १८..
मण्डपे विप्रकृष्टे तु पाठ्यमुच्चारितस्वरम् .
अनिस्सरणधर्मत्वाद्विस्वरत्वं भृशं व्रजेत् .. १९..
यश्चाप्यास्यगतो भावो नानादृष्टिसमन्वितः
स वेश्मनः प्रकृष्टत्वाद् व्रजेदव्यक्ततां पराम् .. २०..
प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते .
यावत्पाठ्यं च गेयं च तत्र श्रव्यतरं भवेत् .. २१..
[प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः .
विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ..)
कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् .
ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ]..
देवानां मानसी सृष्टिर्गृहेषूपवनेषु च .
यत्नभावाभिनिष्पन्नाः सर्वे भावा हि मानुषा .. २२..
तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः .
मानुषस्य तु गेहस्य सम्प्रवक्ष्यामि लक्षणम् .. २३..
भूमेर्विभागं पूर्वं तु परीक्षेत प्रयोजक .
ततो वास्तु प्रमाणेन प्रारभेत शुभेच्छया .. २४..
समा स्थिरा तु कठिनाअ कृष्णा गौरी च या भवेत् .
भूमिस्तत्रैव कर्तव्यः कर्तृभिर्नाट्यमण्डपः .. २५..
प्रथमं शोधनं कृत्वा लाङ्गलेन समुत्कृषेत् .
अस्थिकीलकपालानि तृणगुल्मांश्च शोधयेत् .. २६..
शोधयित्वा वसुमतीं प्रमाणं निर्दिशेत्ततः .
( त्रीण्युत्तराणि सौम्यं च विशाखापि च रेवती .,
हस्तितिष्यानुराधाश्च प्रशस्ता नाट्यकर्मणि .)
पुष्यनक्षत्रयोगेन शुक्लं सूत्रं प्रसारयेत् .. २७..
कार्पासं बाल्बजं वापि मौञ्जं वाल्कलमेव च .
सूत्रं बुधैस्तु कर्तव्यं यस्य च्छेदो न विद्यते .. २८..
अर्धच्छिन्ने भवेत्सूत्रे स्वामिनो मरणं ध्रुवम् .
त्रिभागच्छिन्नया रज्वा राष्ट्रकोपो विधीयते .. २९..
छिन्नायां तु चतुर्भागे प्रयोक्तुर्नाश उच्यते .
हस्तात्प्रभ्रष्टया वापि कश्चित्वपचयो भवेत् .. ३०..
तस्मान्नित्यं प्रयत्नेन रज्जुग्रहणमिष्यते .
कार्यं चैव प्रयत्नेन मानं नाट्यगृहस्य तु .. ३१..
मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च .
ब्राह्मणांस्तर्पयित्वा तु पुण्याहं वाचयेत्ततः .. ३२..
शान्तितोयं ततो दत्त्वा ततः सूत्रं प्रसारयेत् .
चतुष्षष्टिकरान्कृत्वा द्विधा कुर्यात्पुनश्च तान् .. ३३..
पृष्ठतो यो भवेद्भागो द्विधाभूतस्य तस्य तु .
सममर्धविभागेन रङ्गशीर्षं प्रकल्पयेत् .. ३४..
पश्चिमे च विभागेऽथ नेपथ्यगृहमादिशेत् .
विभज्य भागान्विधिवद्ययथावदनुपूर्वशः .. ३५..
शुभे नक्षत्रयोगे च मण्डपस्य निवेशनम् .
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवादिभिः .. ३६..
सर्वातोद्यैः प्रणुदितैः स्थापनं कार्यमेव तु .
उत्सार्याणि त्वनिष्टानि पाषण्ड्याश्रमिणस्तथा .. ३७..
काषायवसनाश्चैव विकलाश्चैअव ये नराः .
निशायां च बलिः कार्या नानाभोजनसंयुतः .. ३८..
गन्धपुष्पफलोपेता दिशो दश समाश्रितः .
पूर्वेण शुक्लान्नयुतो नीलान्नो दक्षिणेन च .. ३९..
पश्चिमेन बलिः पीतो रक्तश्चैवोत्तरेण तु .
यादृशं दिशि यस्यां तु दैवतं परिकल्पितम् .. ४०..
तादृशस्तत्र दातव्यो बलिर्मन्त्रपुरस्कृतः .
स्थापने ब्राह्मणेभ्यश्च दातव्यं घृतपायसम् .. ४१..
मधुपर्कस्तथा राज्ञे कर्तृभ्यश्च गुडौदनम् .
नक्षत्रेण तु कर्तव्यं मूलेन स्थापनं बुधैः .. ४२..
मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च .
एवं तु स्थापनं कृत्वा भित्तिकर्म प्रयोजयेत् .. ४३..
भित्तिकर्मणि निर्वृत्ते स्तम्भानां स्थापनं ततः .
तिथिनक्षत्रयोगेन शुभेन करणेन च .. ४४..
स्तम्भानां स्थापनं कार्यं रोहिण्या श्रवणेन वा .
आचार्येण सुयुक्तेन त्रिरात्रोपोषितेन च .. ४५..
स्तम्भानां स्थापनं कार्यं प्राप्ते सूर्योदये शुभे .
प्रथमे ब्राह्मणस्तम्भे सर्पिस्सर्षपसंस्कृतः .. ४६..
सर्वशुक्लो विधिः कार्यो दद्यात्पायसमेव च .
ततश्च क्षत्रियस्तम्भे वस्त्रमाल्यानुलेपनम् .. ४७..
सर्व रक्तं प्रदातव्यं द्विजेभ्यश्च गुडौदनम् .
वैश्यस्तम्भे विधिः कार्यो दिग्भागे पश्चिमोत्तरे .. ४८..
सर्वं प्रीतं प्रदातव्यं द्विजेभ्यश्च घृतौदनम् .
शूद्रस्तम्भे विधिः कार्यः सम्यक्पूर्वोत्तराश्रये .. ४९..
नीलप्रायं प्रयत्नेन कूसरं च द्विजाशनम् .
पूर्वोक्तब्राह्मणस्तम्भे शुक्लमाल्यानुलेपने .. ५०..
निक्षिपेत्कनकं मूले कर्णाभरणसंश्रयम् .
ताम्रं चाधः प्रदातव्यं स्तम्भे क्षत्रियसंज्ञके .. ५१..
वैश्यस्तम्भस्य मूले तु रजतं सम्प्रदापयेत् .
शूद्रस्तम्भस्य मूले तु दद्यादायसमेव च .. ५२..
सर्वेष्वेव तु निक्षेप्यं स्तम्भमूलेषु काञ्चनम् .
स्वस्तिपुण्याहघोषेण जयशब्देन चैव हि .. ५३..
स्तम्भानां स्थापनं कार्यं पुष्पमालापुरस्कृतम् .
रत्नदानैः सगोदानैर्वस्त्रदानैरनल्पकैः .. ५४..
ब्राह्मणांस्तर्पयित्वा तु स्तम्भानुत्थापयेत्ततः .
अचलं चाप्यकम्पञ्च तथैवावलितं पुनः .. ५५..
स्तम्भस्योत्थापने सम्यग्दोषा ह्येते प्रकीर्तिताः .
अवृष्टिरुक्ता चलने वलने मृत्युतो भयम् .. ५६..
कम्पने परचक्रात्तु भयं भवति दारुणम् .
दोषैरेतैर्विहीनं तु स्तम्भमुत्थापयेच्छिवम् .. ५७..
पवित्रे ब्राह्मणस्तम्भे दातव्या दक्षिणा च गौः .
शेषाणां भोजनं कार्यं स्थापने कर्तृसंश्रयम् .. ५८..
मन्त्रपूतं च तद्देयं नाट्याचार्येण धीमता .
पुरोहितं नृपं चैव भोजयेन्मधुपायसैः .. ५९..
कर्तॄनापि तथा सर्वान्कृसरां लवणोत्तराम् .
सर्वमेवं विधिं कृत्वा सर्वातोद्यैः प्रवादितैः .. ६०..
अभिमन्त्र्य यथान्यायं स्तम्भानुत्थापयेच्छुचिः .
' यथाऽचलो गिरिर्मेरुर्हिमवांश्च महाबलः .. ६१..
जयावहो नरेन्द्रस्य तथा त्वमचलो भव .'
स्तम्भद्वारं च भित्तिं च नेपथ्यगृहमेव च .. ६२..
एवमुत्थापयेतज्ज्ञो विधिदृष्टेन कर्मणा .
रङ्गपीठस्य पार्श्वे तु कर्तव्या मत्तवारणी .. ६३..
चतुस्तम्भसमायुक्ता रङ्गपीठप्रमाणतः .
अध्यर्धहस्तोत्सेधेन कर्तव्या मत्तवारणी .. ६४..
उत्सेधेन तयोस्तुल्यं कर्तव्यं रङ्गमण्डपम् .
तस्यां माल्यं च धूपं च गन्धं वस्त्रं तथैव च .. ६५..
नानावर्णानि देयानि तथा भूतप्रियो बलिः .
आयसं तत्र दातव्यं स्तम्भानां कुशैलैरधः .. ६६..
भोजने कृसराश्चैव दातव्यं ब्राह्मणाशनम् .
एवं विधिपुरस्कारैः कर्तव्या मत्तवारणी .. ६७..
रङ्गपीठं ततः कार्यं विधिदृष्टेण कर्मणा .
रङ्गशीर्षस्तु कर्तव्यं षड्दारुकसमन्वितम् .. ६८..
कार्यं द्वारद्वयं चात्र नेपथ्यगृहकस्य तु .
पूरणे मृत्तिका चात्र कृष्णा देया प्रयत्नतः .. ६९..
लाङ्गलेन समुत्कृष्य निर्लोष्टतृणशर्करम् .
लाङ्गले शुद्धवर्णो तु धुर्यो योज्यौ प्रयत्नतः .. ७०..
कर्तारः पुरुषश्चात्र येऽङ्गदोषविविर्जिताः .
अहीनाङ्गैश्च वोढव्या मृत्तिका पिटकैर्नवैः .. ७१..
एवंविधैः प्रकर्तव्यं रङ्गशीर्षं प्रयत्नतः .
कूर्मपृष्ठं न कर्तव्यं मत्स्यपृष्ठं तथैव च .. ७२..
शुद्धादर्शतलाकारं रङ्गशीर्षं प्रशस्यते .
रत्नानि चात्र देयानि पूर्वे वज्रं विचक्षणैः .. ७३..
वैडूर्यं दक्षिणे पार्श्वे स्फटिकं पश्चिमे तथा .
प्रवालमुत्तरे चैव मध्ये तु कनकं भवेत् .. ७४..
एवं रङ्गशिरः कृत्वा दारुकर्म प्रयोजयेत् .
ऊहप्रत्यूहसंयुक्तः नानाशिल्पप्रयोजितम् .. ७५..
नानासञ्जवनोपेतं बहुव्यालोपशोभितम् .
ससालभञ्जिकाभिश्च समन्तात्समलङ्कृतम् .. ७६..
निर्व्यूहकुहरोपेतं नानाग्रथितवेदिकम् .
नानाविन्याससंयुक्तं चित्रजालगवाक्षकम् .. ७७..
सुपीठधारिणीयुक्तं कपोतालीसमाकुलम् .
नानाकुट्टिमविन्यस्तैः स्तम्भैश्चाप्युपशोभितम् .. ७८..
एवं काष्ठविधिं कृत्वा भित्तिकर्म प्रयोजयेत् .
स्तम्भं वा नागदन्तं वा वातायनमथापि वा .. ७९..
कोणं वा सप्रतिद्वारं द्वारविद्धं न कारयेत् .
कार्यः शैलगुहाकारो द्विभूमिर्नाट्यमण्डपः .. ८०..
मन्दवातायनोपेतो निर्वातो धीरशब्दवान् .
तस्मान्निवातः कर्तव्यः कर्तृभिर्नाट्यमण्डपः .. ८१..
गम्भीरस्वरता येन कुतपस्य भविष्यति .
भित्तिकर्मविधिं कृत्वा भित्तिलेपं प्रदापयेत् .. ८२..
सुधाकर्म बहिस्तस्य विधातव्यं प्रयत्नतः .
भित्तिष्वथ विलिप्तासु परिमृष्टासु सर्वतः .. ८३..
समासु जातशोभासु चित्रकर्म प्रयोजयेत् .
चित्रकर्मणि चालेख्याः पुरुषाः स्रीजनास्तथा .. ८४..
लताबन्धाश्च कर्तव्याश्चरितं चात्म्भोगजम् .
एवं विकृष्टं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः .. ८५..
पुनरेव हि वक्ष्यामि चतुरश्रस्य लक्षणम् .
समन्ततश्च कर्तव्या हस्ता द्वात्रिंशदेव तु .. ८६..
शुभभूमिविभागस्थो नाट्यज्ञैर्नाट्यमण्डपः .
यो विधिः पूर्वमुक्तस्तु लक्षणं मङ्गलानि च .. ८७..
विकृष्टे तान्यशेषाणि चतुरश्रेऽपि कारयेत् .
चतुरश्रं समं कृत्वा सूत्रेण प्रविभज्य च .. ८८..
बाह्यतः सर्वतः कार्या भित्तिः श्लिष्टेष्टका दृढा .
तत्राभ्यन्तरतः कार्या रङ्गपीठोपरि स्थिताः .. ८९..
दश प्रयोक्तृभिः स्तम्भाः शक्ता मण्डपधारणे .
स्तम्भानां बाह्यतश्चापि सोपानाकृति पीठकम् .. ९०..
इष्टकादारुभिः कार्यं प्रेक्षकाणां निवेशनम् .
हस्तप्रमाणैरुत्सेधैर्भूमिभागसमुत्थितैः .. ९१..
रङ्गपीठावलोक्यं तु कुर्यादासनजं विधिम् .
षडन्यानन्तरे चैव पुनः स्तम्भान्यथादिशम् .. ९२..
विधिना स्थापयेतज्ञो दृढान्मण्डपधारणे .
अष्टौ स्तम्भान्पुनश्चैव तेषामुपरि कल्पयेत् .. ९३..
स्थाप्यं चैव ततः पीठमष्टहस्तप्रमाणतः .
विद्धास्यमष्टहस्तं च पीठं तेषु ततो न्यसेत् .. ९४..
तत्र स्तम्भाः प्रदातव्यास्तज्ञैर्मण्डपधारणे .
धारणीधारणास्ते च शालस्त्रीभिरलङ्कृताः .. ९५..
नेपथ्यगृहकं चैव ततः कार्यं प्रयत्नतः .
द्वारं चैकं भवेत्तत्र रङ्गपीठप्रवेशनम् .. ९६..
जनप्रवेशनं चान्यदाभिमुख्येन कारयेत् .
रङ्गस्याभिमुखं कार्यं द्वितीयं द्वारमेव तु .. ९७..
अष्टहस्तं तु कर्तव्यं रङ्गपीठं प्रमाणतः .
चतुरश्रं समतलं वेदिकासमलङ्कृतम् .. ९८..
पूर्वप्रमाणनिर्दिष्टा कर्तव्या मत्तवारणी .
चतुःस्तम्भसमायुक्ता वेदिकायास्तु पार्श्वतः .. ९९..
समुन्नतं समं चैव रङ्गशीर्षं तु कारयेत् .
विकृष्टे तून्नतं कार्यं चतुरश्रे समं तथा .. १००..
एवमेतेन विधिना चतुरश्रं गृहं भवेत् .
अतः परं प्रवक्ष्यामि त्र्यश्रगेहस्य लक्षणम् .. १०१..
त्र्यश्रं त्रिकोणं कर्तव्यं नाट्यवेश्मप्रयोक्तृभिः .
मध्ये त्रिकोणमेवास्य रङ्गपीठं तु कारयेत् .. १०२..
द्वारं तैनैव कोणेन कर्तव्यं तस्य वेश्मनः .
द्वितीयं चैव कर्तव्यं रङ्गपीठस्य पृष्ठतः .. १०३..
विधिर्यश्चतुरश्रस्य भित्तिस्तम्भसमाश्रयः .
स तु सर्वः प्रयोक्तव्यस्त्र्यश्रस्यापि प्रयोक्तृभिः .. १०४..
एवमेतेन विधिना कार्या नाट्यगृहा बुधैः .
पुनरेषां प्रवक्ष्यामि पूजामेवं यथाविधिः .. १०५..
इति भारतीये नाट्यशास्त्रे मण्डपविधानो नाम द्वितीयोऽध्यायः ..

नाट्यशास्त्र प्रथम चरण

.. नाट्यशास्त्रम् अध्याय १ ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ प्रथमोऽध्यायः .
प्रणम्य शिरसा देवौ पितामहमहेश्वरौ .
नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् .. १..
समाप्तजप्यं व्रतिनं स्वसुतैः परिवारितम् .
अनध्याये कदाचित्तु भरतं नाट्यकोविदम् .. २..
मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा .
पप्रच्छुस्ते महात्मानो नियतेन्द्रियबुद्धयः .. ३..
योऽयं भगवता सम्यग्ग्रथितो वेदसम्मितः .
नाट्यवेदं कथं ब्रह्मन्नुत्पन्नः कस्य वा कृते .. ४..
कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्य कीदृशः .
सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि .. ५..
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः .
प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति .. ६..
भवद्भिः शुचिभिर्भूत्वा तथाऽवहितमानसैः .
श्रूयतां नाट्यवेदस्य सम्भवो ब्रह्मनिर्मितः .. ७..
पूर्वं कृतयुगे विप्रा वृत्ते स्वायंभुवेऽन्तरे .
त्रेतायुगेऽथ सम्प्राप्ते मनोर्वैवस्वतस्य तु .. ८..
ग्राम्यधर्मप्रवृत्ते तु कामलोभवशं गते .
ईर्ष्याक्रोधादिसंमूढे लोके सुखितदुःखिते .. ९..
देवदानवगन्धर्वयक्षरक्षोमहोरगैः .
जम्बुद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते .. १०..
महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः .
क्रीडनीयकमिच्छामो दृष्यं श्रव्यं च यद्भवेत् .. ११..
न वेदव्यवहारोऽयं संश्राव्यः शूद्रजातिषु .
तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् .. १२..
एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च .
सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित् .. १३..
( नेमे वेदा यतः श्राव्याः स्त्रीशूद्राद्यासु जातिषु .
वेदमन्यत्ततः स्रक्ष्ये सर्वश्राव्यं तु पञ्चमम् ..)
धर्म्यमर्थ्यं यशस्यं च सोपदेश्यं ससङ्ग्रहम् .
भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् .. १४..
सर्वशात्रार्थसम्पन्नं सर्वशिल्पप्रवर्तकम् .
नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् .. १५..
एवं सङ्कल्प्य भगवान् सर्ववेदाननुस्मरन् .
नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम् .. १६..
जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च .
यजुर्वेदादभिनयान् रसानाथर्वणादपि .. १७..
वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना .
एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना .. १८..
उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् .
इतिहासो मया सृष्टः स सुरेषु नियुज्यताम् .. १९..
कुशला ये विदग्धाश्च प्रगल्भाश्च जितश्रमाः .
तेष्वयं नाट्यसंज्ञो हि वेदः संक्राम्यतां त्वया .. २०..
तच्छृत्वा वचनं शक्रो ब्रह्मणा यदुदाहृतम् .
प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् .. २१..
ग्रहणे धारणे ज्ञाने प्रयोगे चास्य सत्तम .
अशक्ता भगवन् देवा अयोग्या नाट्यकर्मणि .. २२..
य इमे वेदगुह्यज्ञा ऋषयः संशितव्रताः .
एतेऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा .. २३..
श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः .
त्वं पुत्रशतसंयुक्तः प्रयोक्ताऽस्य भवानघ .. २४..
आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् .
पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः .. २५..
शाण्डिल्यं चैव वात्स्यं च कोहलं दत्तिलं तथा .
जटिलम्बष्टकौ चैव तण्डुमग्निशिखं तथा .. २६..
सैन्धवं सपुलोमानं शाड्वलिं विपुलं तथा .
कपिञ्जलिं वादिरं च यमधूम्रायणौ तथा .. २७..
जम्बुध्वजं काकजङ्घं स्वर्णकं तापसं तथा .
कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम् .. २८..
कौत्सं ताण्डायनिं चैव पिङ्गलं चित्रकं तथा .
बन्धुलं भल्लकं चैव मुष्ठिकं सैन्धवायनम् .. २९..
तैतिलं भार्गवं चैव शुचिं बहुलमेव च .
अबुधं बुधसेनं च पाण्डुकर्णं सुकेरलम् .. ३०..
ऋजुकं मण्डकं चैव शम्बरं वञ्जुलं तथा .
मागधं सरलं चैव कर्तारं चोग्रमेव च .. ३१..
तुषारं पार्षदं चैव गौतमं बादरायणम् .
विशालं शबलं चैव सुनामं मेषमेव च .. ३२..
कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् .
नखकुट्टाश्मकुट्टौ च षट्पदं सोत्तमं तथा .. ३३..
पादुकोपानहौ चैव श्रुतिं चाषस्वरं तथा .
अग्निकुण्डाज्यकुण्डौ च वितण्ड्य ताण्ड्यमेव च .. ३४..
कर्तराक्षं हिरण्याक्षं कुशलं दुस्सहं तथा .
लाजं भयानकं चैव बीभत्सं सविचक्षणम् .. ३५..
पुण्ड्राक्षं पुण्ड्रनासं चाप्यसितं सितमेव च .
विद्युज्जिह्वं महाजिह्वं शालङ्कायनमेव च .. ३६..
श्यामायनं माठरं च लोहिताङ्गं तथैव च .
संवर्तकं पञ्चशिखं त्रिशिखं शिखमेव च .. ३७..
शङ्खवर्णमुखं शण्डं शङ्कुकर्णमथापि च .
शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा .. ३८..
विद्युतं शातजङ्घं च रौद्रं वीरमथापि च .
पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया .. ३९..
प्रयोजितं पुत्रशतं यथाभूमिविभागशः .
यो यस्मिन्कर्मणि यथा योग्यस्तस्मिन् स योजितः .. ४०..
भारतीं सात्वतीं चैव वृईत्तिमारभटीं तथा .
समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः .. ४१..
परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया .
अथाह मां सुरगुरुः कैशिकिमपि योजय .. ४२..
यच्च तस्याः क्षमं द्रव्यं तद् ब्रूहि द्विजसत्तम .
एवं तेनास्म्यभिहितः प्रत्युक्तश्च मया प्रभुः .. ४३..
दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् .
नृत्ताङ्गहारसम्पन्ना रसभावक्रियात्मिका .. ४४..
दृष्टा मया भगवतो नीलकण्ठस्य नृत्यतः .
कैशिकी ष्लक्ष्णनैपथ्या शृङ्गाररससम्भवा .. ४५..
अशक्या पुरुषैः सा तु प्रयोक्तुं स्त्रीजनादृते .
ततोऽसृजन्महातेजा मनसाऽप्सरसो विभुः .. ४६..
नाट्यालङ्कारचतुराः प्रादान्मह्यं प्रयोगतः .
मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम् .. ४७..
सौदामिनीं देवदत्तां देवसेनां मनोरमाम् .
सुदतीं सुन्दरीं चैव विदग्धां विपुलां तथा .. ४८..
सुमालां सन्ततिं चैव सुनन्दां सुमुखीं तथा .
मागधीमर्जुनीं चैव सरलां केरलां धृतिम् .. ४९..
नन्दां सपुष्कलां चैव कलमां चैव मे ददौ .
स्वातिर्भाण्डनियुक्तस्तु सह शिष्यैः स्वयम्भुवा .. ५०..
नारदाद्याश्च गन्धर्वा गानयोगे नियोजिताः .
एवं नाट्यमिदं सम्यग्बुद्ध्वा सर्वैः सुतैः सह .. ५१..
स्वातिनारदसंयुक्तो वेदवेदाङ्गकारणम् .
उपस्थितोऽहं ब्रह्माणं प्रयोगार्थं कृताञ्जलिः .. ५२..
नाट्यस्य ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् .
एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः .. ५३..
महानयं प्रयोगस्य समयः प्रत्युपस्थितः .
अयं ध्वजमहः श्रीमान् महेन्द्रस्य प्रवर्तते .. ५४..
अत्रेदानीमयं वेदो नाट्यसंज्ञः प्रयुज्यताम् .
ततस्तस्मिन्ध्वजमहे निहतासुरदानवे .. ५५..
प्रहृष्टामरसंकीर्णे महेन्द्रविजयोत्सवे .
पूर्वं कृता मया नान्दी ह्याशीर्वचसंयुता .. ५६..
अष्टाङ्गपदसंयुक्ता विचित्रा वेदनिर्मिता .
तदन्तेऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः .. ५७..
सम्फेटविद्रवकृता च्छेद्यभेद्याहवाल्मिका .
ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः .. ५८..
प्रददुर्मत्सुतेभ्यस्तु सर्वोपकरणानि वै .
प्रीतस्तु प्रथमं शक्रो दत्तवान्स्वं ध्वजं शुभम् .. ५९..
ब्रह्मा कुटिलकं चैव भृङ्गारं वरुणः शुभम् .
सूर्यश्छत्रं शिवस्सिद्धिं वायुर्व्यजनमेव च .. ६०..
विष्णुः सिंहासनं चैव कुबेरो मुकुटं तथा .
श्राव्यत्वं प्रेक्षणीयस्य ददौ देवी सरस्वती .. ६१..
शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः .
तस्मिन्सदस्यभिप्रेतान्नानाजातिगुणाश्रयान् .. ६२..
अंशांशैर्भाषितं भावान् रसान् रूपं बलं तथा .
दत्तवन्तः प्रहृष्टास्ते मत्सुतेभ्यो दिवौकसः .. ६३..
एवं प्रयोगे प्रारब्धे दैत्यदानवनाशने .
अभवन्क्षुभिताः सर्वे दैत्या ये तत्र सङ्गताः .. ६४..
विरूपाक्ष पुरोगांश्च विघ्नान्प्रोत्साह्य तेऽब्रुवन् .
न क्षमिष्यामहे नाट्यमेतदागम्यतामिति .. ६५..
ततस्तैरसुरैः सार्धं विघ्ना मायामुपाश्रिताः .
वाचश्चेष्टां स्मृतिं चैव स्तम्भयन्ति स्म नृत्यताम् .. ६६..
तथा विध्वंसनं दृष्ट्वा सूत्रधारस्य देवराट् .
कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत् .. ६७..
अथापश्यत्सदो विघ्नैः समन्ताद्परिवारितम् .
सहेतरैः सूत्रधारं नष्टसंज्ञं जडीकृतम् .. ६८..
उत्थाय त्वरितं शक्रं गृहीत्वा ध्वजमुत्तमम् ..
सर्वरत्नोज्ज्वलतनुः किञ्चिदुद्वृत लोचनः ..६९..
रङ्गपीठगतान्विघ्नानसुरांश्चैव देवराट् .
जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः ..७०..
निहतेषु च सर्वेषुअ विघ्नेषु सह दानवैः .
संप्रहृष्य ततो वाक्यमाहुः सर्वे दिवौकसः ..७१..
अहो प्रहरणं दिव्यमिदमासादितं त्वया .
जर्जरीकृतसर्वाङ्गा येनैते दानवाः कृताः ..७२..
यस्मादनेन ते विघ्नाः सासुरा जर्जरीकृताः .
तस्माज्जर्जर एवेति नामतोऽयं भविष्यति ..७३..
शेषा ये चैव हिंसार्थमुपयास्यन्ति हिंसकाः .
दृष्ट्वैव जर्जरं तेऽपि गमिष्यन्त्येवमेव तु ..७४..
एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान् .
रक्षाभूतश्च सर्वेषां भविष्यत्येष जर्जरः ..७५..
प्रयोगे प्रस्तुते ह्येवं स्फीते शक्रमहे पुनः .
त्रासं सञ्जनयन्ति स्म विघ्नाः शेषास्तु नृत्यताम् ..७६..
दृष्ट्वा तेषां व्यवसितं दैत्यानां विप्रकारजम् .
उपस्थितोऽहं ब्रह्माणं सुतैः सर्वैः समन्वितः ..७७..
निश्चिता भगवन्विघ्ना नाट्यस्यास्य विनाशने .
अस्य रक्षाविधिं सम्यगाज्ञापय सुरेश्वर ..७८..
ततश्च विश्वकर्माणं ब्रह्मोवाच प्रयत्नतः .
कुरु लक्षणसंपन्नं नाट्यवेश्म महामते ..७९..
ततोऽचिरेण कालेन विश्वकर्मा महच्छुभम् .
सर्वलक्षणसम्पन्नं कृत्वा नाट्यगृहं तु सः ..८०..
प्रोक्तवान्द्रुहिणं गत्वा सभायान्तु कृताञ्जलीः .
सज्जं नाट्यगृहं देव तदेवेक्षितुमर्हसि ..८१..
ततः सह महेन्द्रेण सुरैः सर्वैश्च सेतरैः .
आअगतस्त्वरितो दृष्टुं द्रुहिणो नाट्यमण्डपम् .. ८२..
दृष्ट्वा नाट्यगृहं ब्रह्मा प्राह सर्वान्सुरांस्ततः .
अंशभागैर्भवद्भिस्तु रक्ष्योऽयं नाट्यमण्डपः .. ८३..
रक्षणे मण्डपस्याथ विनियुक्तस्तु चन्द्रमाः .
लोकपालास्तथा दिक्षु विदिक्ष्वपि च मारुताः .. ८४..
नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणोऽम्बरे .
वेदिकारक्षणे वह्निर्भाण्डे सर्वदिवौकसः .. ८५..
वर्णाश्चत्वार एवाथ स्तम्भेषु विनियोजिताः .
आदित्याश्चैव रुद्राश्च स्थिताः स्तम्भान्तरेश्वथ .. ८६..
धारणीश्वथ भूतानि शालास्वप्सरस्तथा .
सर्ववेश्मसु यक्षिण्यो महीपृष्ठे महोदधिः .. ८७..
द्वारशालानियुक्तौ तु क्रुतान्तः काल एव च .
स्थापितौ द्वारपत्रेषु नागमुख्यौ महाबलौ .. ८८..
देहल्यां यमदण्डस्तु शूलं तस्योपरि स्थितम् .
द्वारपालौ स्थितौ चौभौ नियतिर्मृत्युरेव च .. ८९..
पार्श्वे च रङ्गपीठस्य महेन्द्रः स्थितवान्स्वयम् .
स्थापिता मत्तवारण्यां विद्युद्दैत्यनिषूदनी .. ९०..
स्तम्भेषु मत्तवारण्याः स्थापिता परिपालने .
भूतयक्षपिशाश्च गुह्यकाश्च महाबलाः .. ९१..
जर्जरे तु विनिक्षिप्तं वज्रं दैत्यनिबर्हणम् .
तत्पर्वसु विनिक्षिप्ताः सुरेन्द्रा ह्यमितौजसः .. ९२..
शिरःपर्वस्थितो ब्रह्मा द्वितीये शङ्करस्तथा .
तृतीये च स्थितो विष्णुश्चतुर्थे स्कन्द एव च .. ९३..
पञ्चमे च महानागाः शेषवासुकितक्षकाः .
एवं विघ्नविनाशाय स्थापिता जर्जरे सुराः .. ९४..
रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः .
इष्ट्यर्थं रङ्गमध्ये तु क्रियते पुष्पमोक्षणम् .. ९५..
पातालवासिनो ये च यक्षगुह्यकपन्नगाः .
अधस्ताद्रङ्गपीठस्य रक्षणे ते नियोजिताः .९६..
नायकं रक्षतीन्द्रस्तु नायिकां च सरस्वती .
विदूषकमथौङ्कारः शेशास्तु प्रकृतिर्हरः .. ९७..
यान्येतानि नियुक्तानि दैवतानीह रक्षणे .
एतान्येवाधिदैवानि भविष्यन्तीत्युवाच सः .. ९८..
एतस्मिन्नन्तरे देवैः सर्वैरुक्तः पितामहः .
साम्ना तावदिमे विघ्नाः स्थाप्यन्तां वचसा त्वया .. ९९..
पूर्वं सामं प्रयोक्तव्यं द्वितीयं दानमेव च .
तयोरुपरि भेदस्तु ततो दण्डः प्रयुज्यते .. १००..
देवानां वचनं श्रुत्वा ब्रह्मा विघ्नानुवाच ह .
कस्माद्भवन्तो नाट्यस्य विनाशाय समुत्थिताः .. १०१..
ब्रह्मणो वचनं श्रुत्वा विरूपाक्षोऽब्रवीद्वचः .
दैत्यैर्विघ्नगणैः सार्धं सामपूर्वमिदं ततः .. १०२..
योऽयं भगवता सृष्टो नाट्यवेदः सुरेच्छया .
प्रत्यादेशोऽयमस्माकं सुरार्थं भवता कृतः .. १०३..
तन्नैतदेवं कर्तव्यं त्वया लोकपितामह .
यथा देवस्तथा दैत्यास्त्वत्तः सर्वे विनिर्गताः .. १०४..
विघ्नानां वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् .
अलं वो मन्युना दैत्या विषादं त्यजतानघाः .. १०५..
भवतां देवतानां च शुभाशुभविकल्पकः .
कर्मभावान्वयापेक्षी नाट्यवेदो मया कृतः .. १०६..
नैकान्ततोऽत्र भवतां देवानां चानुभावनम् .
त्रैलोक्यास्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् .. १०७..
क्वचिद्धर्मः क्वचित्क्रीडा क्वचिदर्थः क्वचिच्छमः .
क्वचिद्धास्यं क्वचिद्युद्धं क्वचित्कामः क्वचिद्वधः .. १०८..
धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम् .
निग्रहो दुर्विनीतानां विनीतानां दमक्रिया .. १०९..
क्लीबानां धार्ष्ट्यजननमुत्साहः शूरमानिनाम् .
अबुधानां विबोधश्च वैदुष्यं विदुषामपि .. ११०...
ईश्वराणां विलासश्च स्थैर्यं दुःखार्दितस्य च .
अर्थोपजीविनामर्थो धृतिरुद्वेगचेतसाम् .. १११..
नानाभावोपसम्पन्नं नानावस्थान्तरात्मकम् .
लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् .. ११२..
उत्तमाधममध्यानां नराणां कर्मसंश्रयम् .
हितोपदेशजननं धृतिक्रीडासुखादिकृत् .. ११३..
( एतद्रसेषु भावेषु सर्वकर्मक्रियास्वथ .
सर्वोपदेशजननं नाट्यं लोके भविष्यति .. )
दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् .
विश्रान्तिजननं काले नाट्यमेतद्भविष्यति .. ११४..
धर्म्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम् .
लोकोपदेशजननं नाट्यमेतद्भविष्यति .. ११५..
न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला .
नासौ योगो न तत्कर्म नाट्येऽस्मिन् यन्न दृश्यते .. ११६..
तन्नात्र मन्युः कर्तव्यो भवद्भिरमरान्प्रति .
सप्तद्वीपानुकरणं नाट्यमेतद्भविष्यति .. ११७..
( येनानुकरणं नाट्यमेतत्तद्यन्मया कृतम् ..)
देवानामसुराणां च राज्ञामथ कुटुम्बिनाम् .
ब्रह्मर्षीणां च विज्ञेयं नाट्यं वृत्तान्तदर्शकम् .. ११८..
योऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः .
सोऽङ्गाद्यभिनयोपेतो नाट्यमित्यभिधीयते .. ११९..
( वेदविद्येतिहासानामाख्यानपरिकल्पनम् .
विनोदकरणं लोके नाट्यमेतद्भविष्यति ..
श्रुतिस्मृतिसदाचारपरिशेषार्थकल्पनम् .
विनोदजननं लोके नाट्यमेतद्भविष्यति ..)
एतस्मिन्नन्तरे देवान् सर्वानाह पितामहः .
क्रियतामद्य विधिवद्यजनं नाट्यमण्डपे .. १२०..
बलिप्रदानैर्होमैश्च मन्त्रौषधिसमन्वितैः .
भोज्यैर्भक्षैश्च पानैश्च बलिः समुपकल्पताम् .. १२१..
मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ .
अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रवर्तयेत् .. १२२..
अपूजयित्वा रङ्गं तु यः प्रेक्षां कल्पयिष्यति .
निष्फलं तस्य तत् ज्ञानं तिर्यग्योनिं च यास्यति .. १२३..
यज्ञेन संमितं ह्येदद्रङ्गदैवतपूजनम् .
तस्मात्सर्वप्रयत्नेन कर्तव्यं नाट्ययोक्तृभिः .. १२४..
नर्तकोऽर्थपतिर्वापि यः पूजां न करिष्यति .
न कारयिष्यन्त्यन्यैर्वा प्राप्नोत्यपचयं तु सः .. १२५..
यथाविधिं यथादृष्टं यस्तु पूजां करिष्यति .
स लप्स्यते शुभानर्थान् स्वर्गलोकं च यास्यति .. १२६..
एवमुक्त्वा तु भगवान्द्रुहिणः सहदेवतैः .
रङ्गपूजां कुरुश्वेति मामेवं समचोदयत् .. १२७..
इति भारतीये नाट्यशास्त्रे नाट्योत्पत्तिर्नाम प्रथमोऽध्यायः .
नाट्य शास्त्र
नाटकों के संबंध में शास्त्रीय जानकारी को नाट्य शास्त्र कहते हैं। इस जानकारी का सबसे पुराना ग्रंथ भी नाट्य-शास्त्र के नाम से जाना जाता है। इसके रचयिता भरत मुनि थे। भरत मुनि का काल ४०० ईपू के निकट माना जाता है।
संगीत, नाटक, और अभिनय के संपूर्ण ग्रंथ के रूप में भारतमुनि के नाट्य शास्त्र का आज भी बहुत सम्मान है। उनका मानना है कि नाट्य शास्त्र में केवल नाट्य रचना के नियमों का आकलन नहीं होता बल्कि अभिनेता रंगमंच और प्रेक्षक इन तीनों तत्वों की पूर्ति के साधनों का विवेचन होता है। 37 अध्यायों में भरतमुनि ने रंगमंच अभिनेता अभिनय नृत्यगीतवाद्य, दर्शक, दशरूपक और रस निष्पत्ति से संबंधित सभी तथ्यों का विवेचन किया है। भरत के नाट्य शास्त्र के अध्ययन से यह स्पष्ट हो जाता है कि नाटक की सफलता केवल लेखक की प्रतिभा पर आधारित नहीं होती बल्कि विभिन्न कलाओं और कलाकारों के सम्यक के सहयोग से ही होती है।