गुरुवार, 7 अप्रैल 2011

नाट्यशास्त्रम् अध्याय ३३


    .. नाट्यशास्त्रम् अध्याय ३३ ..
    .. श्रीरस्तु ..
    भरतमुनिप्रणीतं नाट्यशास्त्रम्
    अथ त्रयस्त्रिंशोऽध्यायः .
    गुणात् प्रवर्तते गानं दोषं चैव निरस्यते .
    तस्माद्यत्नेन विज्ञेयौ गुणदोषौ समासतः .. १ ..
    गाता प्रत्यग्रवयाः स्निग्धो मधुरस्वरोपचितकण्ठः .
    लयतालकलापातप्रमाणयोगेषु तत्त्वज्ञः .. २ ..
    रूपगुणकान्तियुक्ता माधुर्योपेतसत्वसम्पन्नाः .
    पेशलमधुरस्निग्धानुनादिसमरक्त गुरु (शुभ)कण्ठाः .. ३
    सुविहितगमकविधायिन्योऽक्षोभ्यो(भ्यास्)ताललयकुशलाः .
    आतोद्यार्पितकरणा विज्ञेया गायिकाः श्यामाः .. ४ ..
    प्रायेण तु स्वभावात् स्त्रीणां गानं नृणां च पाठ्यविधिः .
    स्त्रीणां स्वभावमधुरः कण्ठो नृणां बलित्वं च .. ५ ..
    यत्र स्त्रीणां पाठ्यात्(ठ्यं)गुणैर्नराणां च गानमधुरत्वम् .
    ज्ञेयोऽलङ्कारोऽसौ न हि स्वभावो ह्ययं तेषाम् .. ६ ..
    सुनिविष्टपाणिलययतियोगज्ञौसुमधुरलघुहस्तौ .
    गातृगुणैश्चोपेताववहितमनसौ सुसङ्गीतौ .. ७ ..
    स्फुटरचितचित्रकरणौ गीतश्रवणाचलौप्रवीणौ च .
    चित्रादिवाद्यकुशलौवीणाभ्यां वादकौ भवतः .. ८ ..
    बलवानवहितबुद्धिर्गीतलयज्ञस्तथासुसङ्गीतः .
    श्रावकमधुरस्निग्धो दृढपाणिर्वंशवादको ज्ञेयः .. ९ ..
    अविचलितमविच्छन्नं वर्णालङ्कारबोधकंमधुरम् .
    स्निग्धं दोषविहीनं वेणोरेवं स्मृतं वाद्यम् .. १० ..
    ज्ञानविज्ञानकरणवचनप्रयोगसिद्धिनिष्पादनानि
    षडाचार्यगुणा इति .
    तत्र ज्ञानं शास्त्रावबोधः . यथा च
    क्रियासम्पादनं विज्ञानम् . कण्ठहस्तगौण्यं करणम् .
    जितग्रन्थता वचनम् . देशादिसम्पदाराधनं प्रयोगसिद्धिः .
    शिष्यस्वभावमविशेष्योपात्तय
    उपदेशाच्छिष्यनिष्पादनमिति .. ११ ..
    श्रावणोऽथ घनः स्निग्धो मधुरोह्यवधानवान् .
    त्रिस्थानशोभीत्येवं तु षट् कण्ठस्य गुणा मताः .. १२ ..
    उदात्तं श्रूयते यस्मात्तस्माच्छ्रावण उच्यते .
    श्रावणः सुस्वरो यस्मादच्छिन्नः स घनो मतः .. १३ ..
    अरूक्षध्वनिसंयुक्तः स्निग्धस्तज्ज्ञैः प्रकीर्तितः .
    मनःप्रह्लादनकरः स वै मधुर उच्यते .. १४ ..
    स्वरेऽधिके च हीने च ह्यविरक्तो विधानवान् .
    शिरःकण्ठेष्वभिहितंत्रिस्थानमधुरस्वरः .
    त्रिस्थानशोभीत्येवं तु स हि तज्ज्ञैरुदाहृतः .. १५ ..
    कपिलो ह्यवस्थितश्चैव तथा सन्दष्ट एव च .
    काकी च तुम्बकी चैव पञ्च दोषा भवन्ति हि .. १६ ..
    वैस्वर्यं च भवेद्यत्र तथा स्याद् घर्घरायितम् .
    कपिलः स तु विज्ञेयः श्लेष्मकण्ठस्तथैव च .. १७ ..
    ऊनताऽधिकता चापि स्वराणां यत्र दृश्यते .
    रूक्षदोषहतश्चैव ज्ञेयः स त्वव्यवस्थितः .. १८ ..
    दण्डप्रयोगात् सन्दष्टस्त्वाचार्यैः परिकीर्तितः .
    यो न विस्तरति स्थाने स्वरमुच्चारणागतम् .. १९ ..
    नासाग्रग्रस्तशब्दस्तुतुम्बकी सोऽभिधीयते .. २० ..
    अन्ये तु
    समप्रहरणे चैव जविनौ विशदौ तथा .
    जितश्रमौ विकृष्टौ च मधुरौ स्वेदवर्जितौ .
    तथा बृयन्नखौ चैव ज्ञेयौ हस्तस्य वै गुणाः .. २१ .. इति
    एते गुणाश्च दोषाश्च तत्त्वतः कथितो मया .
    अत ऊर्ध्वं प्रवक्ष्यामि ह्यवनद्धविधिं पुनः .. २२ ..
    पूर्वं यदुक्तं प्रपितामहेन .
    कुर्यात् य एवं तु नरः प्रयोगे
    सम्मानमग्रयं लभते स लोके .. २३ ..
    इति भरतीये नाट्यशास्त्रे गुणदोषविचारो
    नामाध्यायस्त्रयस्त्रिंशः .. ३३ ..

    Encoded by Haresh Bakshi hareshbakshi@hotmail.com


नाट्यशास्त्रम् अध्याय ३०


    .. नाट्यशास्त्रम् अध्याय ३० ..
    .. श्रीरस्तु ..
    भरतमुनिप्रणीतं नाट्यशास्त्रम्
    त्रिंशोऽध्यायः
    अतोद्यं सुषिरं नाम ज्ञेयं वंशगतं बुधैः .
    वैण एव विधिस्तत्र स्वरग्रामसमाश्रयः .. १ ..
    द्विकत्रिकचतुष्कास्तु ज्ञेया वंशगताः स्वराः .
    कम्प्यमानार्थमुक्ताश्च व्यक्तमुक्तास्तथैव च .. २ ..
    तत्रोपरि यथा ह्येकः स्वरो वैणस्वरान्तरे .
    प्राप्नोत्यन्यत्वमेवेह तथा वंशगतोऽपि हि .. ३ ..
    द्विकस्त्रिकश्चतुष्को वा श्रुतिसङ्ख्यो भवेत् स्वरः .
    अनीरणात्तु शेषाणां स्वराणामपि सम्भवः .
    अङ्गुलीवादनकृतं तच्च मे सन्निबोधत .. ४ ..
    व्यक्तमुक्ताङ्गुलिस्तत्र स्वरो ज्ञेयश्चतुःश्रुतिः .
    कम्प्यमानाङ्गुलिश्चैव त्रिश्रुतिः परिकीर्तितः .
    द्विकोऽर्धाङ्गुलिमुक्तः स्यादिति श्रुत्याश्रिताः स्वराः .. ५ ..
    एते स्युर्मध्यमग्रामे भूयः षड्जाश्रिताः पुनः .
    व्यक्तमुक्ताङ्गुलिकृताः षड्जमध्यमपञ्चमाः .. ६ ..
    ऋषभो धैवतश्चापि कम्प्यमानाङ्गुलीकृतौ .
    अर्धमुक्ताङ्गुलिश्चैव गान्धारोऽथ निषादवान् .. ७ ..
    स्वरसाधारणश्चापि काकल्यन्तरसंज्ञया .
    निषादगान्धारकृतौ षड्जमध्यमयोरपि .. ८ ..
    विपर्यया सन्निकर्षे श्रुतिलक्षणसिद्धितः .
    वैणकण्ठप्रवेशेन सिद्धा एकाश्रिताः स्वराः .. ९ ..
    यं यं गाता स्वरं गच्छेत् तं तं वंशेन वादयेत् .
    शारीरवैणवंश्यानामेकीभावः प्रशस्यते .. १० ..
    अविचलितमविच्छिन्नं वर्णालङ्कारसंयुतं विधिवत् .
    ललितं मधुरं स्निग्धं वेणोरेवं स्मृतं वाद्यम् .. ११ ..
    एवमेतत् स्वरगतं विज्ञेयंगानयोक्तृभिः .
    अतः परं प्रवक्ष्यामि धनातोद्यविकल्पनम् .. १२ ..
    इति भरतीये नाट्यशास्त्रे सुषिरातोद्यलक्षणं
    नामाध्यायस्त्रिंशः ..


    Encoded by Haresh Bakshi hareshbakshi@hotmail.com


नाट्यशास्त्रम् अध्याय २७

.. नाट्यशास्त्रम् अध्याय २७ ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ सप्तविंशोऽध्याअयः
सिद्धीनां तु प्रवक्ष्यामि लक्षणं नाटकाश्रयम् .
यस्मात्प्रयोगः सर्वोऽयं सिद्ध्यर्थंं संप्रदर्शितः .. १..
I will now tell the features of 'achievements' which are related to the
drama since every performance is presented for the 'achievements'. 1.
सिद्धिस्तु द्विविधा ज्ञेया वाङ्मनोङ्गसमुद्भवा .
दैवी च मानुषी चैव नानाभावसमुत्थिता .. २..
'achievments' are known to be two fold - arising out of speech and mind
and out of body. arising out of many emotions, it is also divine and human.
दशाङ्गा मानुषी सिद्धीर्दैवी तु द्विविधा स्मृता .
नानासत्त्वाश्रयकृता वाङ्नैपथ्यशरीरजा .. ३..
The human achievements have ten types and divine is known to be two fold.
It is based on various characters and born out of speech, drapery and body
(of the actor).
स्मितापहासिनी हासा साध्वहो कष्टमेव च .
प्रबद्धनादा च तथा सिद्धिर्ज्ञेयाथ वाङ्मयी .. ४..
पुलकैश्च सरोमाञ्चैरभ्युत्थानैस्तथैव च .
चेलदानाङ्गुलिक्षेपैः शारीरी सिद्धिरिष्यते .. ५..
किञ्चिच्छिष्टो रसो हास्यो नृत्यद्भिर्यत्र युज्यते .
स्मितेन स प्रतिग्राह्यः प्रेक्षकैर्नित्यमेव च .. ६..
किञ्चिदस्पष्टहास्यं यत्तथा वचनमेव च .
अर्थहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव हि .. ७..
विदूषकोच्छेदकृतं भवेच्छिल्पकृतं च यत् .
अतिहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव तु .. ८..
अहोकारस्तथा कार्यो नृणां प्रकृतिसंभवः .
यद्धर्मपदसंयुक्तं यथातिशयसंभवम् .. ९..
तत्र साध्विति यद्वाक्यं प्रयोक्तव्यं हि साधकैः .
विस्मयाविष्टभावेषु प्रहर्षार्थेषु चैव हि .. १०..
करुणेऽपि प्रयोक्तव्यं कष्टं शास्त्रकृतेन तु .
प्रबद्धनादा च तथा विस्मयार्थेषु नित्यशः .. ११..
साधिक्षेपेषु वाक्येषु प्रस्पन्दिततनूरुहैः .
कुतूहलोत्तरावेधैर्बहुमानेन साधयेत् .. १२..
दीप्तप्रदेशं यत्कार्यं छेद्यभेद्याहवात्मकम् .
सविद्रवमथोत्फुल्लं तथा युद्धनियुद्धजम् .. १३..
प्रकम्पितांसशीर्षञ्च साश्रं सोत्थानमेव च .
तत्प्रेक्षकैस्तु कुशलैस्साध्यमेवं विधानतः .. १४..
एवं साधयितव्यैषा तज्ज्ञैः सिद्धिस्तु मानुषी .
दैविकीञ्च पुनः सिद्धिं संप्रवक्ष्यामि तत्त्वतः .. १५..
या भावातिशयोपेता सत्त्वयुक्ता तथैव च .
सा प्रेक्षकैस्तु कर्तव्या दैवी सिद्धिः प्रयोगतः .. १६..
न शब्दो न यत्र न क्षोभो न चोत्पातनिदर्शनम् .
संपूर्णता च रंगस्य दैवी सिद्धिस्तु सा स्मृता .. १७..
दैवी च मानुषी चैव सिद्धिरेषा मयोदिता .
अत ऊर्ध्वं प्रवक्ष्यामि घातान्दैवसमुत्थितन् .. १८..
दैवात्मपरसमुत्था त्रिविधा घाता बुधैस्तु विज्ञेया .
औत्पातिकश्चतुर्थः कदाचिदथ संभवत्येषु .. १९..
वाताग्निवर्षकुञ्जरभुजङ्गमण्डपनिपाताः .
कीटव्यालपिपीलिकपशुप्रवेशनाश्च दैवककृता .. २०..
घातनतः परमहं परयुक्तान् संप्रवक्ष्यामि .
[वैवर्ण्यं चाचेष्टं विभ्रमितत्वं स्मृतिप्रमोहश्च .. २१..
अन्यवचनं च काव्यं तथांगदोषो विहस्तत्वम् .
एते त्वात्मसमुत्था घाता ज्ञेया प्रयोगज्ञैः .. २२..]
मात्सर्याद्द्वेषाद्वा तत्पक्षत्वात्तथार्थभेदत्वात् .
एते तु परसमुत्था ज्ञेया घाता बुधैर्नित्यम् .. २३..
अतिहसितरुदितविस्फोटितान्यथोत्कृष्टनालिकापाताः .
गोमयलोष्टपिपीलिकाविक्षेपाश्चारिसंभूताः .. २४..
औत्पतिकाश्च घाता मत्तोन्मत्तप्रवेशलिङ्गकृतः .
पुनरात्मसमुत्था ये घातांस्तांस्तान् प्रवक्ष्यामि .. २५..
वैलक्षण्यमचेष्टितविभूमिकत्वं स्मृतिप्रमोषश्च .
अन्यवचनं च काव्यं तथार्तनादो विहस्तत्वम् .. २६..
अतिहसितरुदितविस्वरपिपीलिकाकीटपशुविरावाश्च .
मुकुटाभरणनिपाता पुष्करजाः काव्यदोषाश्च .. २७..
अतिहसितरुदितहसितानि सिद्धैर्भावस्य दूषकाणि स्युः .
कीटपिपीलिकपाता सिद्धिं सर्वात्मना घ्नान्त .. २८..
विवस्वरमजाततालं वर्णस्वरसंपदा च परिहीणम् .
अज्ञातस्थानलयं स्वरगतमेवंविधं हन्यात् .. २९..
मुकुटाभरणनिपातः प्रबद्धनादश्च नाशनो भवति .
पशुविशसनं तथ अ स्याद्बहुवचनघ्नं प्रयोगेषु .. ३०..
विषमं मानविहीनं विमार्जनं चाकुलप्रहारं च .
अविभक्तग्रहमोक्षं पुष्करगतमीदृशं हन्ति .. ३१..
पुनरुक्तो ह्यसमासो विभक्तिभेदो विसन्धयोऽपार्थः .
त्रैलिङ्गजश्च दोषः प्रत्यक्षपरोक्षसंमोहाः .. ३२..
छन्दोवृत्तत्यागो गुरुलाघवसङ्करो यतेर्भेदः .
एतानि यथा स्थूलं घातस्थानाअनि काव्यस्य .. ३३..
ज्ञेयौ तु काव्यजातौ द्वौ घातावप्रतिक्रियौ नित्यम् .
प्रकृतिव्यसनसमुत्थः शेषोदकनालिकत्वम् .. ३४..
अप्रतिभागं स्खलनं विस्वरमुच्चारणं च काव्यस्य .
अस्थानभूषणत्वं पतनं मुकुटस्य विभ्रंशः .. ३५..
वाजिस्यन्दनकुञ्जरखरोष्ट्रशिबिकाविमानयानानाम् .
आरोहणावतरणेष्वनभिज्ञत्वं विहस्त्वम् .. ३६..
प्रहरणकवचानामप्ययथाग्रहणं विधारणं चापि .
अमुकुटभूषणयोगश्चिरप्रवेशोऽथवा रङ्गे .. ३७..
एभिः स्थानविशेषैर्घाता लक्ष्यास्तु सूरिभिः कुशलैः .
यूपाग्निचयनदर्भस्त्रग्भाण्डपरिग्रहान्मुक्त्वा .. ३८..
सिद्ध्या मिश्रो घातस्सर्वगतश्चैकदेशजो वापि .
नाट्यकुशलैः सलेख्या सिद्धिर्वा स्याद्विघातो वा .. ३९..
नालेख्यो बहुदिनजः सर्वगतोऽव्यक्तलक्षणविशेषः .
यस्त्वैकदिवसजातस्स प्रत्यवरोऽपि लेख्यस्स्यात् .. ४०..
जर्जरमोक्ष्यस्यान्ते सिद्धेर्मोक्षस्तु नालिकायास्तु .
कर्तव्यस्त्विह सततं नाट्यज्ञैः प्राश्निकैर्विधिना .. ४१..
दैन्ये दीनत्वमायान्ति ते नाट्ये प्रेक्षकाः स्मृताः .
ये तुष्टौ तुष्टिमायान्ति शोके शोकं व्रजन्ति च .. ४२..
योऽन्यस्य महे मूर्धो नांदीश्लोकं पठेद्धि देवस्य .
स्ववशेन पूर्वरङ्गे सिद्धेर्घातः प्रयोगस्य ..४३..
यो देशभावरहितं भाषाकाव्यं प्रयोजयेद्बुद्ध्या .
तस्याप्यभिलेख्यः स्याद्घातो देशः प्रयोगज्ञैः .. ४४..
कः शक्तो नाट्यविधौ यथावदुपपादनं प्रयोगस्य .
कर्तुं व्यग्रमना वा यथावदुक्तं परिज्ञातम् .. ४५..
तस्माद्गम्भीरार्थाः शब्दा ये लोकवेदसंसिद्धाः .
सर्वजनेन ग्राह्या योज्या नाटके विधिवत् .. ४६..
न च किञ्चिद्गुणहीनं दोषैः परिवर्जितं न चाकिञ्चित् .
तस्मान्नाट्यप्रकृतौ दोषा नाट्यार्थतो ग्राह्या .. ४७..
न च नादरस्तु कार्यो नटेन वागङ्गसत्त्वनेपथ्ये .
रसभावयोश्च गीतेष्वातोद्ये लोकयुक्त्यां च .. ४८..
एवमेतत्तु विज्ञेयं सिद्धीनां लक्षणं बुधैः .
अत ऊर्ध्वं प्रवक्ष्यामि प्राश्निकानां तु लक्षणम् .. ४९..
चारित्राभिजनोपेताः शान्तवृत्ताः कृतश्रमाः .
यशोधर्मपराश्चैव मध्यस्थवयसान्विताः .. ५०..
षडङ्गनाट्यकुशलाः प्रबुद्धाः शुचयः समाः .
चतुरातोद्यकुशलाः वृत्तज्ञास्तत्त्वदर्शिनः .. ५१..
देशभाषाविधानज्ञाः कलाशिल्पप्रयोजकाः ..
चतुर्थाभिनयोपेता रसभावविकल्पकाः .. ५२..
शब्दच्छन्दोविधानज्ञा नानाशास्त्रविचक्षणाः .
एवं विधास्तु कर्तव्याः प्राश्निका दशरूपके .. ५३..
अव्यग्रैरिन्द्रियैः शुद्ध ऊहापोहविशारदः .
त्यक्तदोषोनुअरागी च स नाट्ये प्रेक्षकः स्मृतः .. ५४..
न चैवेते गुणाः सम्यक् सर्वस्मिन् प्रेक्षके स्मृताः .
विज्ञेयस्याप्रमेयत्वात्संकीर्णानां च पार्षदि .. ५५..
यद्यस्य शिल्पं नेपथ्यं कर्मचेष्टितमेव वा .
तत्तथा तेन कार्यं तु स्वकर्मविषयं प्रति .. ५६..
नानाशीलाः प्रकृतयः शीले नाट्यं विनिर्मितम् .
उत्तमाधममध्यानां वृद्धबालिशयोषिताम् .. ५७..
तुष्यन्ति तरुणाः कामे विदग्धाः समयात्विते .
अर्थेष्वर्थपराश्चैव मोक्षे चाथ विरागिणः .. ५८..
शूरास्तु वीररौद्रेषु नियुद्धेष्वाहवेषु च .
धर्माख्याने पुराणेषु वृद्धास्तुष्यन्ति नित्यशः .. ५९..
न शक्यमधमैर्ज्ञातुमुत्तमानां विचेष्टितम् .
तत्त्वभावेषु सर्वेषु तुष्यन्ति सततं बुधाः .. ६०..
बाला मूर्खाः स्त्रियश्चैव हास्यनैपथ्ययोः सदा .
यस्तुष्टो तुष्टिमायाति शोके शोकमुपैति च .. ६१..
क्रुद्धः क्रोधे भये भीतः स श्रेष्ठः प्रेक्षकः स्मृतः .
एवं भावानुकरणे यो यस्मिन् प्रविशेन्नरः .. ६२..
स तत्र प्रेक्षको ज्ञेयो गुणैरेभिरलङ्कृतः .
एवं हि प्रेक्षका ज्ञेयाः प्रयोगे दशरूपतः .. ६३..
संघर्षे तु समुत्पन्ने प्राश्निकान् संनिबोधत .
यज्ञविन्नर्तकश्चैव छन्दोविच्छब्दवित्तथा .. ६४..
अस्त्रविच्चित्रकृद्वेश्या गन्धर्वो रजसेवकः .
यज्ञविद्यज्ञयोगे तु नर्तकोऽभिनये स्मृतः .. ६५..
छन्दोविद्वृत्तबन्धेषु शब्दवित्पाठ्यविस्तरे .
इष्वस्त्रवित्सौष्ठवे तु नेपथ्ये चैव चित्रकृत् .. ६६..
कामोपचारे वेश्या च गान्धर्वः स्वरकर्मणि .
सेवकस्तूपचारे स्यादेते वै प्राश्निकाः स्मृताः .. ६७..
एभिर्दृष्टान्तसंयुक्तैर्दोषा वाच्यास्तथा गुणाः .
अशास्त्रज्ञा विवादेषु यथा प्रकृतिकर्मतः .. ६८..
अथैते प्रश्निका ज्ञेयाः कथिता ये मयानघाः .
शास्त्रज्ञानाद्यदा तु स्यात्संघर्षः शास्त्रसंश्रयः .. ६९..
शास्त्रप्रामाणनिर्माणैर्व्यवहारो भवेत्तदा .
भर्तृनियोगादन्योऽन्यविग्रात्स्पर्धयापि भरतानाम् .. ७०..
अर्थपताका हेतोस्संघर्षो नाम संभवति .
तेषां कार्यं व्यवहारदर्शनं पक्षपातविरहेण .. ७१..
कृत्वा पणं पताकां व्यवहारः स भवितव्यस्तु .
सर्वैरनन्यमतिभिः सुखोपविष्टैश्च शुद्धभावैश्च .. ७२..
यैर्लेखकगमकसहायास्सह सिद्धिभिर्घाताः .
नात्यासनैर्नदूरसंस्थितैः प्रेक्षकैस्तु भवितव्यम् .. ७३..
तेषामासनयोगो द्वादशहस्तस्थितः कार्यः .
यानि विहितानि पूर्वं सिद्धिस्थानानि तानि लक्ष्याणि .. ७४..
घाताश्च लक्षणीयाः प्रयोगतो नाट्ययोगे तु .
दैवाद्घातसमुत्थाः परोत्थिता वा बुधैर्नवैर्लेख्याः .. ७५..
घाता नाट्यसमुत्था ह्यात्मसमुत्थास्तु लेख्याः स्युः .
घाता यस्य त्वल्पाः संख्याताः सिद्धयश्च बहुलाः स्युः .. ७६..
विदितं कृत्वा राज्ञस्तस्मै देया पताका हि .
सिध्यतिशयात्पताका समसिद्धौ पार्थिवाज्ञया देया .. ७७..
अथ नरपतिः समः स्यादुभयोरपि सा तदा देया .
एवं विधिज्ञैर्यष्टव्यो व्यवहारः समञ्जसाम् .. ७८..
स्वस्थचित्तसुखासिनैः सुविशिष्टैर्गुणार्थिभिः .
विमृश्य प्रेक्षकैर्ग्राह्यं सर्वरागपराङ्गमुखैः .. ७९..
साधन दूषणाभासः प्रयोगसमयाश्रितैः .
समत्वमङ्गमाधुर्यं पाठ्यं प्रकृतयो रसाः .. ८०..
वाद्यं गानं सनेपथ्यमेतज्ज्ञेयं प्रयत्नतः .
गीतवादित्रतालेन कलान्तरकलासु च .. ८१..
उअदङ्गं क्रियते नाट्यं समन्तात् सममुच्यते .
अङ्गोपाङ्गसमायुक्तं गीतताललयान्वितम् .. ८२..
गानवाद्यसमत्वं च तद्बुधैः सममुच्यते .
सनिर्भुग्नमुरः कृत्वा चतुरश्रक्रुतौ करौ .. ८३..
ग्रीवाञ्चिता तथा कर्या त्वङ्गमाधुर्यमेव च .
पूर्व्रोक्तानीह शेषाणि यानि द्रव्याणि साधकै ह्.. ८४..
वद्यादीनां पुनर्वुप्रा लक्षणं सन्निबोधत .
वाद्यप्रभृतयो गानं वाद्यमाणानि निर्दिशेत् .. ८५..
यानि स्थानानि सिद्धीनां तैः सिद्धिं तु प्रकाशयेत् .
हर्षादङ्गसमुद्भूतां नानारससमुत्थिताम् .. ८६..
वारकालास्तु विज्ञेया नाट्यज्ञैर्विविधाश्रयाः .
दिवसैश्चैव रात्रिश्च तयोर्वारान् निबोधत .. ८७..
पूर्वाह्णस्त्वथ मध्याह्नस्त्वपराह्णस्तथैव च .
दिवा समुत्था विज्ञेया नाट्यवाराः प्रयोगतः .. ८८..
प्रादोषिकार्धरात्रिश्च तथा प्राभातिकोऽपरः .
नाट्यवारा भवन्त्येते रात्रावित्यनुपूर्वशः .. ८९..
एतेषां अत्र यद्योज्यं नाट्यकार्यं रसाश्रयम् .
तदहं संप्रवक्ष्यामि वारकालसमाश्रयम् .. ९०..
यच्छ्रोत्ररमणीयं स्याद्धर्मोत्थनकृतं च यत् .
पूर्वाह्णे तत्प्रयोक्तव्यं शुद्धं वा विकृतं तथा .. ९१..
सत्त्वोत्थानगुणैर्युक्तं वाद्यभूयिष्ठमेव च .
पुष्कलं सत्त्वयुक्तं च अपराह्णे प्रयोजयेत् .. ९२..
कैशिकीवृत्तिसंयुक्तं शृङ्गारससंश्रयम् .
नृत्यवादित्रगीताढ्यं प्रदोषे नाट्यमिष्यते .. ९३..
यन्नर्महास्यबहुलं करुणप्रायमेव च .
प्रभातकाले तत्कार्यं नाट्यं निद्राविनाशनम् .. ९४..
अर्धरात्रे नियुञ्जीत समध्याह्ने तथैव च .
सन्ध्याभोजनकाले च नाट्यं नैव प्रयोजयेत् .. ९५..
एवं कालं च देशं च समीक्ष्य च बलाबलम् .
नित्यं नाट्यं प्रयुञ्जीत यथाभावं यथारसम् .. ९६..
अथव देशकालौ च न परीक्ष्यौ प्रयोक्तृभिः
यथैवाज्ञापयेद्भर्ता तदा योज्यमसंशयम्. . ९७..
तथा समुदिआताश्चैव विज्ञेया नाटकाश्रिताः .
पात्रं प्रयोगमृद्धिश्च विज्ञेयास्तु त्रयो गुणाः .. ९८..
बुद्धिमत्वं सुरूपत्वं लयतालज्ञता तथा .
रसभावज्ञता चैव वयस्स्थत्वं कुतूहलम् .. ९९..
ग्रहणं धारणं चैव गात्रावैकल्यमेव च .
निजसाध्वसतोत्साह इति पात्रगतो विधिः .. १००..
सुवाद्यता सुगानत्वं सुपाठ्यत्वं तथैव च .
शास्त्रकर्मसमायोगः प्रयोग इति संज्ञितः .. १०१..
शुचिभूषणतायां तु माल्याभरणवाससाम् .
विचित्ररचना चैव समृद्धिरिति संज्ञिता .. १०२..
यदा समुदिताः सर्वे एकीभूता भवन्ति हि .
अलङ्काराः सकुतपा मन्तव्यो नाटकाश्रयाः .. १०३..
एतदुक्तं द्विजश्रेष्ठाः सिद्धीनां लक्षणं मया .
अत ऊर्ध्वं प्रवक्ष्याम्यातोद्यानां विकल्पनम् .. १०४..
इति भारतीये नाट्यशास्त्रे सिद्धिव्यञ्जको
नाम सप्तविंशोऽध्यायः ..

Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com

नाट्यशास्त्रम् अध्याय २६

.. नाट्यशास्त्रम् अध्याय २६ ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्
षड्विंशोऽध्यायः
अनुरूपा विरूपा च तथा रूपानुरूपिणी .
त्रिप्रकारेह पात्राणां प्रकृतिश्च विभाविता .. १..
नानावस्थाक्रियोपेता भूमिका प्रकृतिस्तथा .
भृशमुद्योतयेन्नाट्यं स्वभावकरणाश्रयम् .. २..
बहुबाहूबहुमुखास्तथा च विकृताननाः .
पशुश्वापदवक्त्राश्च खरोष्ट्राश्च गजाननाः .. ३..
एते चान्ये च बहवो नानारूपा भवन्ति ये .
आचार्येण तु ते कार्या मृत्काष्ठजतुचर्मभिः .. ४..
स्वाभाविकेन रूपेन प्रविशेद्रङ्गमण्डलम् .
आत्मरूपमवच्छाद्य वर्णकैर्भूषणैरपि .. ५..
यादृशं यस्य यद्रूपं प्रकृत्या तत्र तादृशम् ..
वयोवेषानुरूपेण प्रयोज्यं नाट्यकर्मणि .. ६..
यथा जीवत्स्वभावं हि परित्यज्यान्यदेहिकम् .
परभावं प्रकुरुते परभावं समाश्रितः .. ७..
एवं बुधः परंभावं सोऽस्मीति मनसा स्मरन् .
येषां वागङ्गलीलाभिश्चेष्टाभिस्तु समाचरेत् .. ८..
सुकुमारप्रयोगो यो राज्ञामामोदसंभवः .
शृङ्गाररसमासाद्य तन्नारीषु प्रयोजयेत् .. ९..
युद्धोद्धताविद्धकृता संरंभारभटाश्च ये .
न ते स्त्रीभिः प्रयोक्तव्याः योक्तव्याः पुरुषेषु ते .. १०..
अनुद्भटमसंभ्रान्तमनाविद्धाङ्गचेष्टितम् .
लयतालकलापातप्रमाणनियताक्षरम् .. ११..
सुविभक्तपदालापमनिष्ठुरमकाहलम् .
ईदृशं यद्भवेन्नाट्यं नारीभिश्च प्रयोजयेत् .. १२..
एवं कार्यं प्रयोगज्ञैर्भूमिकाविनिवेशनम् .
स्त्रियो हि स्त्रीगतो भावः पौरुषः पुरुषस्यच .. १३..
यथा वयो यथावस्थमनुरूपेति सा स्मृता .
पुरुषः स्त्रीकृतं भावं रूपात्प्रकुरुते तु यः .. १४..
रूपानुरूपा सा ज्ञेया प्रयोगे प्रकृतिर्बुधः .
छन्दतः पौरुषीं भूमिं स्त्री कुर्यादनुरूपतः .. १५..
न परस्परचेष्टासु कार्यौ स्थविरबालिशौ .
पाठ्यप्रयोगे पुरुषाः प्रयोक्तव्या हि संस्कृते .. १६..
स्त्रीणां स्वभावमधुराः कण्ठाः पुंसां तु बलवन्तः .
यद्यपि पुरुषो विद्यात् गीतविधानं च लक्षणोपेतम् .. १७..
माधुर्यगुणविहीनं शोभां जनयेन्न तद्गीतम् .
यत्र स्त्रीणां पाठ्याद्गुणैर्नराणां च कण्ठमाधुर्यम् .. १८..
प्रकृतिविपर्ययजनितौ विज्ञेयौ तावलङ्कारौ .
प्रायेण देवपार्थिवसेनापतिमुख्यपुरुषभवनेषु .. १९..
स्त्रीजनकृताः प्रयोगा भवन्ति पुरुषस्वभावेन .
रम्भोर्वशीप्रभृतिषु स्वर्गे नाट्यं प्रतिष्ठितम् .. २०..
तथैव मानुषे लोके राज्ञामन्तःपुरेष्विह .
उपदेष्टव्यमाचार्यैः प्रयत्नेनाङ्गनाजने .. २१..
न स्वयं भूमिकाभ्यासो बुधैः कार्यस्तु नाटके .
स्त्रीषु योज्यः प्रयत्नेन प्रयोगः पुरुषाश्रयः .. २२..
यस्मात्स्वभावोपगतो विलासः स्त्रीषु विद्यते .
तस्मात्स्वभावमधुरमङ्गं सुलभसौष्ठवम् .. २३..
ललितं सौष्ठवं यच्च सोऽलङ्कारः परो मतः .
प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः .. २४..
सुकुमारस्तथाविद्धो नानाभावरसाश्रयः .
नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च .. २५..
ज्ञेयानि सुकुमाराणि मानुषैराश्रितानि तु .
सुकुमारप्रयोगोऽयं राज्ञामामोदकारकः .. २६..
शृङ्गारसमासाद्य स्त्रीणां तत्तु प्रयोजयेत् .
युद्धोद्धताविद्धकृतासंरंभारभटाश्च ये .. २७..
न ते स्त्रीणां प्रकर्तव्याः कर्तव्याः पुरुषैर्हि ते .
यथाविद्धाङ्गहारं तु भेद्यभेद्याहवात्मकम् .. २८..
मायेन्द्रजालबहुलं पुस्तनैपथ्यदीपितम् .
पुरुषप्रायसंचारमल्पस्त्रीकमथोद्धतम् .. २९..
सात्वत्यारभटीइयुक्तं नाट्यमाविद्धसंज्ञितम् .
डिमः समवकारश्च व्यायोगेहामृगौ तथा .. ३०..
एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः .
एषां प्रयोगः कर्तव्यो देवदानवराक्षसैः .. ३१..
उद्धता ये च पुरुषाः शौर्यवीर्यसमन्विताः .
योग्यः स च प्रयत्नः कर्तव्यः सततप्रमादेन .. ३२..
न हि योग्यया विना भवति च भावरससौष्ठवं किंचित् .
संगीतपरिक्लेशो नित्यं प्रमदाजनस्य गुण एव .. ३३..
यन्मधुरकर्कशत्वं लभते नाट्यप्रयोगेण .
प्रमदाः नाट्यविलासैर्लभते यत् कुसुमैर्विचित्रलावण्यम् .
कामोपचारकुशला भवन्ति च काम्या विशेषेण ..३४..
गीतं वृत्तं तथा वाद्यं प्रस्तारगमनक्रिया .
शिष्यनिष्पादनं चैव षडाचार्यगुणाः स्मृताः .. ३५..
एतानि पञ्च यो वेत्ति स आचार्यः प्रकीर्तितः .
ऊहापोहौ मतिश्चैव स्मृतिर्मेधा तथैव च .. ३६..
मेधास्मृतिर्गुणश्लाघारागः संघर्ष एव च .
उत्साहश्च षडेवैतान् शिष्यस्यापि गुणान् विदुः .. ३७..
एवं कार्यं प्रयोगज्ञैर्नानाभूमिविकल्पनम् .
अत ऊर्ध्वं प्रवक्ष्यामि सिद्धीनामपि लक्षणम् .. ३८..
इति भारतीये नाट्यशास्त्रे विकृतिविकल्पो
नाम षड्विंशोऽध्यायः ..

Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com

नाट्यशास्त्रम् अध्याय २५


    .. नाट्यशास्त्रम् अध्याय २५ ..
    .. श्रीरस्तु ..
    भरतमुनिप्रणीतं नाट्यशास्त्रम्
    पञ्चविंशोऽध्यायः .
    अङ्गाभिनयस्यैव यो विशेषः क्वचित् क्वचित् .
    अनुक्त उच्यते चित्रः चित्राभिनयस्स्मृतः .. १..
    उत्तानौ तु करौ कृत्वा स्वस्तिकौ पार्श्वसंस्थितौ .
    उद्वाहितेन शिरसा तथा चोर्ध्वनिरीक्षणात् .. २..
    प्रभातं गगनं रात्रिः प्रदोषं दिवसं तथा .
    ऋतून् घनान् वनान्तांश्च विस्तीर्णांश्च जलाशयान् .. ३..
    दिशो ग्रहान् सनक्षत्रान् किञ्चित् स्वस्थं च यद्भवेत् .
    तस्य त्वभिनयः कार्यो नानादृष्टिसमन्वितः .. ४..
    एभिरेव करैर्भूयस्तेनैव शिरसा पुनः .
    अधो निरीक्षणेनाथ भूमिस्थान् संप्रदर्शयेत् .. ५..
    स्पर्शस्य ग्रहणेनैव तथोल्लुकसनेन च .
    चन्द्रज्योस्त्नां सुखं वायुं रसं गन्धं च निर्दिशेत् .. ६..
    वस्त्रावकुण्ठनात्सूर्यं रजोधूमानिलांस्तथा .
    भूमितापमथोष्णं च कुर्याच्छायाभिलाषतः .. ७..
    ऊर्ध्वाकेकरदृष्टिस्तु मध्याह्ने सूर्यमादिशेत् .
    उदयास्तगतं चैव विस्मयार्थैः प्रदर्शयेत् ..८..
    यानि सौम्यार्थयुक्तानि सुस्वभावकृतानि च .
    गात्रस्पर्शैस्सरोमाञ्चैस्तेषामभिनयो भवेत् .. ९..
    यानि स्युस्तीक्ष्णरूपाणि तानि चाभिनयेत्सुधीः .
    असंस्पर्शैस्तथोद्वेगैस्तथा मुखविकुण्ठनैः .. १०..
    गम्भीरोदातसंयुक्तानर्थानभिनयेद्बुधः .
    साटोपैश्च सगर्वैश्च गात्रैः सौष्ठवसंयुतैः .. ११..
    यज्ञोपवीतदेशस्थमरालं हासमादिशेत् .
    स्वस्तिकौ विच्युतौ हारस्रग्दामार्थान् निदर्शयेत् .. १२..
    भ्रमणेन प्रदर्शिन्या दृष्टेः परिगमेन च .
    अलपद्मकपीडायाः सर्वार्थग्रहणं भवेत् .. १३..
    श्रव्यं श्रवणयोगेन दृश्यं दृष्टिविलोकनैः .
    आत्मस्थं परसंस्थं वा मध्यस्थं वा विनिर्दिशेत् .. १४..
    विद्युदुल्काघनरवाविष्फुलिंगार्चिषस्तथा .
    त्रस्तांगाक्षिनिमेषैश्च तेऽभिनेयाः प्रयोक्तृभिः .. १५..
    उद्वेष्टितकरावृत्तौ करौ कृत्वा नतं शिरः .
    असंस्पर्शे तथानिष्टे जिह्मदृष्टेन कारयेत् .. १६..
    वायुमुष्णं तमस्तेजो मुखप्रच्छादनेन च .
    रेणुतोयपतंगांश्च भ्रमरांश्च निवारयेत् .. १७..
    कृत्वा स्वस्तिकसंस्थानौ पद्मकोशावधोमुखौ .
    सिअंहर्क्षवानरव्याघ्रश्वापदांश्च निरूपयेत् ..१८..
    स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने .
    खटकस्वस्थिकौ चापि प्रतोदग्रहणे स्मृतौ .. १९..
    एकं द्वि त्रीणि चत्वारि पञ्च षट् सप्त चाष्टधा .
    नव वा दश वापि स्युर्गणनांगुलिभिर्भवेत् .. २०..
    दशाख्याश्च शताख्याश्च सहस्राख्यास्तथैव च .
    पताकाभ्यां तु हस्ताभ्यां प्रयोज्यास्ताः प्रयोक्तृभिः .. २१..
    दशाख्यगणनायास्तु परतो या भवेदिह .
    वाक्यार्थेनैव साध्यासौ परोक्षाभिनयेन च .. २२..
    छत्रध्वजपताकाश्च निर्देश्या दण्डधारणात् .
    नानाप्रहरणं चाथ निर्देश्यं धारणाश्रयम् .. २३..
    एकचित्तो ह्यधोदृष्टिः किञ्चिन्नतशिरास्तथा .
    सव्यहस्तश्च संदंशः स्मृते ध्याने वितर्किते .. २४..
    उद्वाहितं शिरः कृत्वा हंसपक्षौ प्रदक्षिणौ .
    अपत्यरूपणे कार्यावुछ्रयौ च प्रयोक्तृभिः .. २५..
    उद्वाहितं शिरः कृत्वा हंसवक्त्रं तथोर्ध्वगम् .
    प्रसादयच्च यं मानं दीर्घसत्वं च निर्दिशेत् .. २६..
    अरालं च शिरस्थाने समुद्वाह्य तु वामकम् .
    गते निर्वृत्ते ध्वस्ते च श्रान्तवाक्ये च योजयेत् .. २७..
    सर्वेन्द्रियस्वस्थतया प्रसन्नवदनस्तथा .
    विचित्रभूतलालोकैः शरदन्तु विनिर्दिशेत् .. २८..
    गात्रसंकोचनाच्चापि सूर्याग्निपटुसेवनात् .
    हेमन्तस्त्वभिनेतव्यः पुरुषैर्मध्यमाधमैः .. २९..
    शिरोदन्तोष्ठकम्पेन गात्रसंकोचनेन च .
    कूजितैश्च सशीत्कारैरधमश्शीतमादिशेत् .. ३०..
    अवस्थान्तरमासाद्य कदाचित्तूत्तमरैरपि .
    शीताभिनयनं कूर्याद्देवाद्व्यसनसंभवम् .. ३१..
    ऋतुजानां तु पुष्पाणां गन्धघ्राणैस्तथैव च .
    रूक्षस्य वायोः स्पर्शाच्च शिशिरं रूपयेद्बुधः .. ३२..
    प्रमोदजननारंभैरुपभोगैः पृथग्विधिः .
    वसन्तस्त्वभिनेतव्यो नानापुष्पप्रदर्शनात् .. ३३..
    स्वेद प्रमार्जनैश्चैव भूमितापैः सवीजनैः .
    उष्णस्य वायोः स्पर्शेन ग्रीष्मं त्वभिनयेद्बुधः .. ३४..
    कदम्बनीपकुटपैः शाद्वलैः सेन्द्रगोपकैः .
    मेघवातैः सुखस्पर्शैः प्रावृट्कालं प्रदर्शयेत् .. ३५..
    मेघौघनादैर्गम्भीरैर्धाराप्रपतनैस्तदा .
    विद्युन्निर्घातघोषैश्च वर्षारात्रं समादिशेत् .. ३६..
    यद्यस्य चिह्नं वेषो वा कर्म वा रूपमेव वा .
    निर्देश्यः स ऋतुस्तेन इष्टानिष्टार्थदर्शनात् .. ३७..
    एतानृतूनर्थवशाद्दर्शयेद्धि रसानुगान् .
    सुखिनस्तु सुखोपेतान् सुःखार्थान् दुःखसंयुतान् .. ३८..
    यो येन भावेनाविष्टः सुखदेनेतरेअन वा .
    स तदाहितसंकारः सर्वं पश्यति तन्मयम् .. ३९..
    भावाभिनयनं कुर्याद्विभावानां निदर्शनैः .
    तथैव चानुभावानां भावसिद्धिः प्रवर्तिता .. ४०..
    विभावेनाहृतं कार्यमनुभावेन नीयते .
    आत्मानुभवनं भावो विभावः परदर्शनम् .. ४१..
    गुरुर्मित्रं सखा स्निग्धः संबन्धी बन्धुरेव वा .
    आवेद्यते हि यः प्राप्तः स विभाव इति स्मृतः .. ४२..
    यत्त्वस्य संभ्रमोत्थानैरर्घ्यपाद्यासनादिभिः .
    पूजनं क्रियते भक्त्या सोऽनुभावः प्रकीर्तितः .. ४३..
    एवमन्येष्वपि ज्ञेयो नानाकार्यप्रदर्शनात् .
    विभावो वापि भावो वा विज्ञेयोऽर्थवशाद्बुधैः .. ४४..
    यस्त्वपि प्रतिसंदेशो दूतस्येह प्रदीयते .
    सोऽनुभाव इति ज्ञेयः प्रतिसन्देशदर्शितः .. ४५..
    एवं भावो विभावो वाप्यनुभावश्च कीर्तितः .
    पुरुषैरभिनेयः स्यात्प्रमदाभिरथापि वा .. ४६..
    स्वभावाभिनये स्थानं पुंसां कार्यं तु वैष्णवम् .
    आयतं वावहित्थं वा स्त्रीणां कार्यं स्वभावतः .. ४७..
    प्रयोजनवशाच्चैव शेषाण्यपि भवन्ति हि .
    नानाभवाभिनयनैः प्रयोगैश्च पृथग्विधैः .. ४८..
    धैर्यलीलाङ्गसंपन्नं पुरुषाणां विचेष्टितम् .
    मृदुलीलाङ्गहारैश्च स्त्रीणां कार्यं तु चेष्टितम् .. ४९..
    करपादाङ्गसञ्चारास्स्त्रीणां तु ललिताः स्मृताः .
    सुधीरश्चोद्धतश्चैव पुरुषाणां प्रयोक्तृभिः .. ५०..
    यथा रसं यथा भावं स्त्रीणां भावप्रदर्शनम् .
    नराणां प्रमदानां च भावाभिनयनं पृथक् .. ५१..
    भावानुभावनं युक्तं व्याख्यास्याम्यनुपूर्वशः .
    आलिङ्गनेन गात्राणां सस्मितेन च चक्षुषा .. ५२..
    तथोल्लुकसानच्चापि हर्षं संदर्शयेन्नरः .
    क्षिप्रस! न्जातरोमाञ्चात् बाष्पेणावृतलोचना .. ५३..
    कुर्वीत नर्तकी हर्षं प्रीत्या वाक्यैश्च सस्मितैः .
    उद्वृत्तरक्तनेत्रश्च सन्दष्टाधर एव च .. ५४..
    निश्वासकंपितांगश्च क्रोधं चाभिनयेन्नरः .
    नेत्राभ्यां बाष्पपूर्णाभ्यां चिबुकौष्ठप्रकंपनात् .. ५५..
    शिरसः कंपनाच्चैव भ्रुकुटीकरणेन च .
    मौनेनाङ्गुलिभङ्गेन माल्याभरणवर्जनात् .. ५६..
    आयतकस्थानकक्षाया ईर्ष्या क्रोधे भवेत्स्त्रियाः .
    निश्वासोच्छ्वासबहुलैरधोमुखविचिन्तनैः .. ५७..
    आकाशवचनाच्चापि दुःखं पुंसां तु योजयेत् .
    रुदितैः श्वसितैश्चैव शिरोभिहननेन च .. ५८..
    भूमिपाताभिघातैश्च दुःखं स्त्रीषु प्रयोजयेत् .
    आनन्दजं चार्तिजं वा ईर्ष्यासंभूतमेव वा .. ५९ ..
    यत्पूर्वमुक्तं रुदितं तत्स्त्रीनीचेषु योजयेत् .
    संभ्रमावेगचेष्टाभिश्शस्त्रसंपातनेन च .. ६० ..
    पुरुषाणां भयं कार्यं धैर्यावेगबलादिभिः .
    चलतारकनेत्रत्वाद्गात्रैः स्फुरितकम्पितैः .. ६१..
    सन्त्रस्तहृदयत्वाच्च पार्श्वाभ्यामवलोकनैः .
    भर्तृरन्वेषणाच्चैवमुच्चैराक्रन्दनादपि .. ६२..
    प्रियस्यालिंगनाच्चैव भयं कार्यं भवेत्स्त्रियाः .
    मदा येऽभिहिताः पूर्वं ते स्त्रीनीचेषु योजयेत् .. ६३..
    मृदुभिः स्खलितैर्नित्यमाकाशस्यावलंबनात् .
    नेत्रावघूर्णनैश्चैव सालस्यैः कथितैस्तथा .. ६४..
    गात्राणां कंपनैश्चैव मदः कार्यो भवेत्स्त्रियाः .
    अनेन विधिना कार्यः प्रयोगाः कारणोत्थिताः .. ६५..
    पौरुषः स्त्रीकृतो वापि भावा ह्यभिनयं प्रति .
    सर्वे सललिता भावास्स्त्रीभिः कार्याः प्रयत्नतः .. ६६..
    धैर्यमाधुर्यसंपन्ना भावाः कार्यास्तु पौरुषाः .
    त्रिपताकाङ्गुलीभ्यां तु वलिताभ्यां प्रयोजयेत् .. ६७..
    शुकाश्च सारिकाश्चैव सूक्ष्मा ये चापि पक्षिणः .
    शिखिसारसहंसाद्याः स्थूला येऽपि स्वभावतः .. ६८..
    रेचकैरङ्गहारैश्च तेषामभिनयो भवेत् .
    खरोष्ट्राश्वतरासिंहव्याघ्रगोमहिषादय .. ६९..
    गतिप्रचरैरङ्गैश्च तेऽभिनेयाः प्रयोक्तृभिः .
    भूताः पिशाचा यक्षाश्च दानवाः सहराक्षसैः .. ७०..
    अङ्गहारैरविनिर्देश्या नामसंकीर्तनादपि .
    अङ्गहारैर्विनिर्देश्या अप्रत्यक्षा भवन्ति ये .. ७१..
    प्रत्यक्षास्त्वभिनेतव्या भयोद्वेगैः सविस्मयैः .
    देवाश्च चिह्नैश्च प्रणामकरणैर्भावैश्च विचेष्टितैः .. ७२..
    अभिनेयो ह्यर्थवशादप्रत्यक्षाः प्रयोगज्ञैः .
    सव्योत्थितेन हस्तेन ह्यरालेन शिरः स्पृशेत् .. ७३..
    नरेऽह्यभिवादनं ह्येतदप्रत्यक्षे विधीयते .
    खटकावर्धमानेन कपोताख्येन वा पुनः .. ७४..
    दैवतानि गुरूंश्चैव प्रमदाश्चाभिवादयेत् .
    दिवौकसश्च ये पूज्याः प्रत्यक्षाश्च भवन्ति ये .. ७५..
    तान् प्रमाणैः प्रभावैश्च गंभीरार्थैश्च योजयेत् .
    महाजनं सखीवर्गं विटधूर्तजनं तथा .. ७६..
    परिमण्डलसंस्थेन हस्तेनाभिनयेनन्नरः .
    पर्वतान् प्रांशुयोगेन वृक्षांश्चैव समुच्छ्रितान् .. ७७..
    प्रसारिताभ्यां बाहुभ्यामुत्क्षिप्ताभ्यां प्रयोजयेत् .
    समूहसागरं सेना बहुविस्तीर्णमेव च .. ७८..
    पताकाभ्यां तु हस्ताभ्यामुत्क्षिप्ताभ्यां प्रदर्शयेत् .
    शौर्यं धैर्यं च गर्वं च दर्पमौदार्यमुच्छ्रयम् .. ७९..
    ललाटदेशस्थानेन त्वरालेनाभिदर्शयेत् .
    वक्षोदेशादपाविद्धौ करौ तु मृगशीर्षकौ .. ८०..
    विस्तीर्णप्रद्रुतोत्क्षेपौ योज्यौ यस्यादपावृतम् .
    अधोमुखोत्तानतलौ हस्तौ किञ्चित्प्रसारितौ .. ८१..
    कृत्वा त्वभिनयेद्वेलां बिलद्वारं गृहं गुहान् .
    कामं शापग्रहग्रस्तान् ज्वरोपहतचेतसः .. ८२..
    एतेषां चेष्टितं कुर्यादङ्गाद्यैः सदृशैर्बुधैः .
    दोलाभिनयनं कुर्याद्दोलायास्तु विलोकनैः .. ८३..
    संभोक्षेण च गात्राणां रज्वश्वाग्रहणेन च .
    यदा चाङ्गवती डोला प्रत्यक्षा पुस्तजा भवेत् .. ८४..
    आसनेषु प्रविष्टानां कर्तव्यं तत्र डोलनम् .
    आकाशवचनानीह वक्ष्याम्यात्मगतानि च .. ८५..
    अपवारितकं चैव जनान्तिकमथापि च .
    दूरस्थाभाषणं यत्स्यादशरीरनिवेदनम् .. ८६..
    परोक्षान्तरितं वाक्यमाकाशवचनं तु तत् .
    तत्रोत्तरकृतैर्वाक्यैः संलापं संप्रयोजयेत् .. ८७..
    नानाकारणसंयुक्तैः काव्यभावसमुत्थितैः .
    हृदयस्य वचो यत्तू तदात्मगतमीष्यते .. ८८..
    सवितर्कं च तद्योज्यं प्रायशो नाटकादिषु .
    निगूढभावसंयुक्तमपवारितकं स्मृतम् .. ८९..
    कार्यवशादश्रवणं पार्श्वगतैर्यज्जनान्तिकं तत्स्यात् .
    हृदयस्थं सविकल्पं भावस्थं चात्मगतमेव .. ९०..
    इति गूढार्थयुक्तानि वचनानीह नाटके .
    जनान्तिकानि कर्णे तु तानि योज्यानि योक्तृभिः .. ९१..
    पूर्ववृत्तं तु यत्कार्यं भूयः कथ्यं तु कारणात् .
    कर्णप्रदेशे तद्वाच्यं मागात्तत्पुनरुक्तताम् ..८२..
    अव्यभिचारेण पठेदाकाशजनान्तिकात्मगतपाठ्यम् .
    प्रत्यक्षपरोक्षकृतानामात्मसमुत्थान् परकृतांश्च .. ९३..
    हस्तमन्तरितं कृत्वा त्रिपताकं प्रयोक्तृभिः .
    जनान्तिकं प्रयोक्तव्यमपवारितकं तथा .. ९४..
    स्वप्नायितवाक्यार्थैस्त्वभिनेयो न खलु हस्तसंचारैः .
    सुप्ताभिहितैरेव तु वाक्यार्थैः सोऽभिनेयः स्यात् .. ९५..
    मन्दस्वरसञ्चारैर्व्यक्ताव्यक्तं पुनरुक्तवचनार्थम् .
    पूर्वानुस्मरणकृतं कार्यं स्वप्नाञ्चिते पाठ्यम् .. ९६..
    प्रशिथिलगुरुकरुणाक्षरघण्टानुस्वरितवाक्यगद्गदजैः .
    हिक्काश्वसोपेतां काकुं कुर्यान्मरणकाले .. ९७..
    हिक्काश्वासोपेतां मूर्च्छोपगमे मरणवत्कथयेत् .
    अतिमत्तेष्वपि कार्यं तद्वत्स्वप्नायिते यथा पाठ्यम् .. ९८..
    वृद्धानां योजयेत्पाठ्यं गद्गदस्खलिताक्षरम् .
    असमाप्ताक्षरं चैव बालानां तु कलस्वनम् .. ९९..
    नानाभावोपगतं मरणाभिनये बहुकीर्तितं तु .
    विक्षिप्तहस्तपादैर्निभृतैः सन्नैस्तथा कार्यम् .. १००..
    व्याधिप्लुते च मरणं निषण्णगात्रैस्तु संप्रयोक्तव्यम् .
    हिक्काश्वासोपेतं तथा पराधीनगात्रसंचारम् .. १०१..
    विषपीतेऽपि च मरणं कार्यं विक्षिप्तगात्रकरचरणम् .
    विषवेगसंप्रयुक्तं विस्फुरितांगक्रियोपेतम् .. १०२..
    प्रथेमे वेगे कार्श्यं त्वभिनेये वेपथुर्द्वितीये तु .
    दाहस्तथा तृतीये विलल्लिका स्याच्चतुर्थे तु .. १०३..
    फेनस्तु पञ्चमस्थे तु ग्रीवा षष्ठे तु भज्यते .
    जडता सप्तमे तु स्यान्मरणं त्वष्टमे भवेत् .. १०४..
    तत्र प्रथमवेगे तु क्षामवक्रकपोलता .
    कृशत्वेऽभिनयः कार्यो वाक्यानामल्पभाषणम् .. १०५..
    सर्वाङ्गवेपथुं च कण्डूयनं तथाङ्गानाम् .
    विक्षिप्तहस्तगात्रं दाहं चैवाप्यभिनयेत्तु .. १०६..
    उद्वृत्तनिमेषत्वादुद्गारच्छर्दनैस्तथाक्षेपैः .
    अव्यक्ताक्षरकथनैः विलल्लिकामभिनयेदेवम् .. १०७..
    उद्गारवमनयोगैः शिरसश्च विलोलनैरनेकविधैः .
    फेनस्त्वभिनेतव्यो निःसंज्ञतया निमेषैश्च .. १०८..
    अंसकपोलस्पर्शः शिरसोऽथ विनामनं शिरोऽपाङ्गः .
    सर्वेन्द्रिअयसंमोहाज्जडतामेवं त्वभिनयेत्तु .. १०९..
    संमीलितनेत्रत्वात् व्याधिविवृद्धौ भुजङ्गदशनाद्वा .
    एवं हि नाट्यधर्मे मरणानि बुधैः प्रयोज्यानि .. ११०..
    संभ्रमेष्वथ रोषेषु शोकावेशकृतेषु च .
    यानि वाक्यानि युज्यन्ते पुनरुक्तं न तेष्विह .. १११..
    साध्वहो मां च हेहेति किं त्वं मामावदेति च .
    एवंविधानि कार्याणि द्वित्रिसंख्यानि कारयेत् .. ११२..
    प्रत्यङ्गहीनं यत्काव्यं विकृतं च प्रयुज्यते .
    न लक्षणकृतस्तत्र कार्यस्त्वभिनयो बुधैः .. ११३..
    भावो यत्रोत्तमानां तु न तं मध्येषु योजयेत् .
    यो भावश्चैव मध्यानां न ते नीचेषु योजयेत् .. ११४..
    पृथक् पृथग्भावरसैरात्मचेष्टासमुत्थितैः .
    ज्येष्ठमध्यमनीचेषु नाट्यं रागं हि गच्छति .. ११५..
    एतेऽभिनयविशेषाः कर्तव्याः सत्त्वभावसंयुक्ताः .
    अन्ये तु लौकिका ये तु ते सर्वे लोकवत्कार्याः .. ११६..
    नानाविधैर्यथा पुष्पैर्मालां ग्रथ्नाति माल्यकृत् .
    अंगोपांगै रसैर्भावैस्तथा नाट्यं प्रयोजयेत् .. ११७..
    या यस्य लीला नियता गतिश्च
    रङ्गप्रविष्टस्य निधानयुक्तः .
    तामेव कुर्यादविमुक्तसत्त्वो
    यावन्नरङ्गात्प्रतिनिर्वृतः स्यात् .. ११८..
    एवमेते मया प्रोक्ता नाट्ये चाभिनयाः क्रमात् .
    अन्ये तु लौकिका ये ते लोकाद्ग्राह्याः सदा बुधैः .. ११९..
    लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् .
    वेदाध्यात्मपदार्थेषु प्रायो नाट्यं प्रतिष्ठितम् .. १२०..
    वेदाध्यात्मोपपन्नं तु शब्दच्छन्दस्समन्वितम् .
    लोकसिद्धं भवेत्सिद्धं नाट्यं लोकात्मकं तथा .. १२१..
    न च शक्यं हि लोकस्य स्थावरस्य चरस्य च .
    शास्त्रेण निर्णयं कर्तुं भावचेष्टाविधिं प्रति .. १२२..
    नानाशीलाः प्रकृतयः शीले नाट्यं प्रतिष्ठिअतम् .
    तस्माल्लोकप्रमाणं हि विज्ञेयं नाट्ययोक्तृभिः .. १२३..
    एतान् विधींश्चाभिनयस्य सम्यग्विज्ञाय
    रङ्गे मनुजः प्रयुङ्क्ते .
    स नाट्यतत्त्वाभिनयप्रयोक्ता
    संमानमग्र्यं लभते हि लोके .. १२४..
    एवमेते ह्यभिनया वाङ्नेपथ्याङ्गसंभवाः
    प्रयोगज्ञेन कर्तव्या नाटके सिद्धिमिच्छता .. १२५..

    इति भारतीये नाट्यशास्त्रे चित्राभिनयो नाम
    पञ्चविंशोऽध्यायः ..

    Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com

नाट्यशास्त्रम् अध्याय २४

.. नाट्यशास्त्रम् अध्याय २४ ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्
चतुर्विंशोऽध्यायः
समासतस्तु प्रकृतिस्त्रिविधा परिकीर्तिता .
पुरुषाणामथ स्त्रीणामुत्तमाधममध्यमा .. १..
जितेन्द्रिय ज्ञानवती नानाशिल्पविचक्षणा .
दक्षिणाधमहालक्ष्या भीतानां परिसान्त्वनी ..२..
नानाशास्त्रार्थसंपन्ना गाम्भीर्यौदार्यशालिनी .
स्थैर्यत्यागगुणोपेता ज्ञेया प्रकृतिरुत्तमा .. ३..
लोकोपचारचतुरा शिल्पशास्त्रविशारदा .
विज्ञानमाधुर्ययुता मध्यमा प्रकृतिः स्मृता .. ४..
रूक्षवाचोऽथ दुःशीलाः कुसत्त्वाः स्थूलबुद्धयः .
क्रोधनाघातकाश्चैव मित्रघ्नाश्छिद्रमानिनः .. ५..
पिशुनास्तूद्धतैर्वाक्यैरकृतज्ञास्तथालसाः .
मान्यामान्या विशेषज्ञा स्त्रीलोलाः कलहप्रियाः .. ६..
सूचकाः पापकर्माणः परद्रव्यापहारिणः .
एभिर्दोषैस्तुसंपन्ना भवन्तीहाधमा नराः .. ७..
एवं तु शीलतो नॄणां प्रकृतिस्त्रिविधा स्मृता .
स्त्रीणां पुनश्च प्रकृतिं व्याख्यास्याम्यनुपूर्वशः .. ८..
मृदुभाबा चाचपला स्मितभाषिण्यनिष्ठुरा .
गुरूणां वचने दक्षा सलज्जा विनयान्विता .. ९..
रूपाभिजनमाधुर्यैर्गुणैः स्वाभाविकेर्युता .
गाम्भीर्यधैर्यसम्पन्ना विज्ञेया प्रमदोत्तमा .. १०..
नात्युत्कृष्टैरनिखिलैरेभिरेवान्विता गुणैः .
अल्पदोषानुविद्धा च मध्यमा प्रकृतिः स्मृता .. ११..
अधमा प्रकृतिर्या तु पुरुषाणां प्रकीर्तिता .
विज्ञेया सैव नारीणामधमानां समासतः .. १२..
नपुंसकस्तु विज्ञेयः संकीर्णोऽधम एव च .
प्रेष्यादिरपि विज्ञेया संकीर्णा प्रकृतिद्विजाः .. १३..
शकारश्च विटश्चैव ये चान्येप्येवमादयः .
संकीर्णास्तेऽपि विज्ञेया ह्यधमा नाटके बुधैः .. १४..
एता ज्ञेयाः प्रकृतयः पुरुषस्त्रीनपुंसकैः .
आसां तु संप्रवक्ष्यामि विधानं शीलसंश्रयम् .. १५..
अत्र चत्वार एव स्युर्नायकाः परिकीर्तिताः .
मध्यमोत्तमप्रकृतौ नानालक्षणलक्षिताः .. १६..
धीरोद्धता धीरललिता धीरोदात्तास्तथैव च .
धीरप्रशान्तकाश्चैव नायकाः परिकीर्तिताः .. १७..
देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः .
सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ .. १८..
धीरप्रशान्ता विज्ञेया ब्राह्मणा वाणिजस्तथा .
एतेषां तु पुनर्ज्ञेयाश्चत्वारस्तु विदूषकः .. १९..
लिंगी द्विजो राजजीवी शिष्यश्चेति यथाक्रमम् .
देवक्षितिभृतामात्यब्राह्मणानां प्रयोजयेत् .. २०..
विप्रलंभसुहृदोमी संकथालापपेशलाः .
व्यसनी प्राप्य दुःखं वा युज्यतेऽभ्युदयेन यः .. २१..
तथा पुरुषमाहुस्तं प्रधानं नायकं बुधाः .
यत्रानेकस्य भवतो व्यसनाभ्युदयौ पुनः .. २२..
सपुष्टौ यत्र तौ स्यातां न भवेत्तत्र नायकः .
दिव्या च नृपपत्नी च कुलस्त्री गणिका तथा .. २३..
एतास्तु नायिका ज्ञेय नानाप्रकृतिलक्षणाः .
धीरा च ललिता च स्यादुदात्ता निभृता तथा .. २४..
दिव्या राजाङ्गनाश्चैव गुणैर्युक्ता भवन्ति हि .
उदात्ता निभृता चैव भवेत्तु कुलजाङ्गना .. २५..
ललिते चाभ्युदात्ते च गणिकाशिल्पकारिके .
[प्रकृतीनां तु सर्वासामुपचाराद् द्विधा स्मृताः .. २६..
बाह्यश्चाभ्यन्तरश्चैव तयोर्वक्ष्यामि लक्षणम् .
तत्र राजोपचारो यो भवेदाभ्यन्तरो हि सः .. २७..
ततो वाक्योपचारस्तु यस्य बाह्यः स उच्यते .
अथ राजोपचारे च राज्ञामन्तःपुराश्रितम् .. २८..
स्त्रीविभागं प्रवक्ष्यामि विभक्तमुपचारतः . ]
राजोपचारं वक्ष्यामि ह्यन्तःपुरसमाश्रयम् .. २९..
महादेवी तथा देव्यः स्वामिन्यः स्थापिता अपि .
भोगिन्यः शिल्पकारिण्यो नाटकीयाः सनर्तकाः ..३०..
अनुचारिकाश्च विज्ञेयास्तथा च परिचारिकाः .
तथा संचारिकाश्चैव तथा प्रेषणकारिकाः .. ३१..
महत्तर्यः प्रतीहार्यः कुमार्यः स्थविरा अपि .
आयुक्तिकाश्च नृपतेरयमन्तःपुरो जनः .. ३२..
अत्र मूर्धाभिषिक्ता या कुलशीलसमन्विता .
गुणैर्युक्ता वयस्स्था च मध्यस्था क्रोधना तथा .. ३३..
मुक्तेर्ष्या नृपशीलज्ञा सुखदुःखसहा समा .
शान्तिस्वस्त्ययनैर्भर्तुस्सततं मङ्गलैषिणी .. ३४..
शान्ता पतिव्रता धीरा अन्तःपुरहिते रता .
एभिर्गुणैस्तु संयुक्ता महदेवीत्युदाहृता .. ३५..
एभिरेव गुणैर्युक्तास्तत्संस्कारविवर्जिताः .
गर्विताश्चातिसौभाग्याः पतिसंभोगतत्पराः . ३६..
शुचिनित्योज्वलाकाराः पतिपक्षाभ्यसूयकाः .
वयोरूपगुणाढ्या यास्ता देव्य इति भाषिताः .. ३७..
सेनापतेरमात्यानां भृत्यानामथवा पुनः .
भवेयुस्तनया यास्तु प्रतिसम्मानवर्जिताः .. ३८..
शीलरूपगुणैर्यास्तु संपन्ना नृपतेर्हिताः .
स्वगुणैर्लब्धसम्माना स्वामिन्य इति ताः स्मृताः .. ३९..
रूपयौवनशालिन्यः कर्कशा विभ्रमान्विताः .
रतिसंभोगकुशलाः प्रतिपक्षाभ्यसूयकाः .. ४०..
दक्षा भर्तुश्च चित्तज्ञा गन्धमाल्योज्वलास्सदा .
नृपतेश्छन्दवर्तिन्यो न हीर्ष्यामानगर्विताः .. ४१..
उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या न निष्ठुराः .
मान्यामान्यविशेषज्ञाः स्थापिता इति ताः स्मृताः .. ४२..
कुलशीललब्धपूजामृदवो नातिचोद्भटाः .
मध्यस्था निभृताः क्षान्ता भोगिन्य इति ताः स्मृताः .. ४३..
नानाकलाविशेषज्ञा नानाशिल्पविचक्षणाः .
गन्धपुष्पविभागज्ञा लेख्यालेख्यविकल्पिकाः .. ४४..
शयनासनभागज्ञाश्चतुरा मधुरास्तथा .
दक्षाः सौम्याः स्फुटाः श्लिष्ठा निभृताः शिल्पकारिकाः .. ४५..
ग्रहमोक्षलयज्ञा या रसभावविकल्पिकाः .
चतुरानाट्यकुशलाश्चोहापोहविचक्षणाः .. ४६..
रूपयौवनसंपन्ना नाटकीयास्तु ताः स्मृताः .
हेलाभावविशेषाढ्या सत्वेनाभिनयेन च . ४७..
माधुर्येन च संपन्ना ह्यातोद्यकुशला तथा .
अङ्गप्रत्यङ्गसंपन्ना चतुष्षष्ठिकलान्विता .. ४८..
चतुराः प्रश्नयोपेताः स्त्रीदोषैश्च विवर्जिताः .
सदा प्रगल्भा च तथा त्यक्तालस्या जितश्रमा .. ४९..
नानाशिल्पप्रयोगज्ञा नृत्तगीतविचक्षणा .
अथ रूपगुणौदार्यधैर्यसौभाग्यशीलसंपन्ना .. ५०..
पेशलमधुरस्निग्धानुनादिकलचित्रकण्ठा च .
समागतासु नारीषु रूपयौवनकन्तिभिः .. ५१..
न दृश्यते गुणैर्स्तुल्या यस्याः सा नर्तकी स्मृता .
सर्वावस्थोपचारेषु या न मुञ्चति पर्थिवम्. .. ५२..
विज्ञेया दक्षिणा दक्षा नाट्यज्ञैरनुचारिका .
शय्यापाली छत्रधारी तथा व्यजनधारिणी .. ५३..
संवाहिका गन्धयोक्त्री तथा चैव प्रसाधिका .
तथाभरणयोक्त्री च माल्यसंयोजिका तथा .. ५४..
एवं विधा भवेयुर्याः ता ज्ञेयाः परिचारिकाः .
नानाकक्ष्या विचारिण्यः तथोअपवनसंचराः .. ५५..
देवतायतनक्रीडा प्रासादपरिचारिकाः .
यामकिन्यस्तथा चैव याश्चैवं लक्षणाः स्त्रियः .. ५६..
संचारिकास्तु विज्ञेया नाट्यज्ञैः समुदाहृताः .
प्रेषणेऽकामसंयुक्ते गुह्यागुह्यसमुत्थिते .. ५७..
नृपैर्यास्तु नियुज्यन्ते ताः ज्ञेयाः परिचारिकाः .
सर्वान्तःपुररक्षासु स्तुतिस्वस्त्ययनेन च .. ५८..
या वृद्धिमभिनन्दन्ति ता विज्ञेया महत्तराः .
सन्धिविग्रहसंबद्धनानाचारसमुत्थितम् .. ५९..
निवेदयन्ति याः कार्यं प्रतिहार्यस्तु ताः स्मृताः .
अप्राप्तरससंभोगा न संभ्रान्ता न चोद्भटाः .. ६०..
निभृताश्च सलज्जाश्च कुमार्यो बालिकाः स्मृताः .
पुर्वराजनयज्ञा याः पुर्वराजाभिपूजिताः .. ६१..
पुर्वराजानुचरितास्ता वृद्धा इति सुज्ञिताः .
भाण्डागारेष्वधिकृताश्चायुधाधिकृतास्तथा .. ६२..
फलमूलौषधीनां च तथा चैवान्ववेक्षकी .
गन्धाभरणवस्त्राणां माल्यानां चैव चिन्तिका .. ६३..
बह्वाश्रये तथा युक्ता ज्ञेया ह्यायुक्तिकास्तु ताः .
इत्यन्तःपुरचारिण्यः स्त्रियः प्रोक्ता समासतः .. ६४..
विशेषणविशेषेण तासां वक्ष्यामि वै द्विजाः .
अनुरक्ताश्च भक्ताश्च नानापार्श्वसमुत्थिताः .. ६५..
या नियुक्ता नियोगेषु कार्येषु विविधेषु च .
न चोद्भटा असंभ्रान्ता न लुब्धा नापि निष्ठुराः .. ६६..
दान्ताः क्षान्ताः प्रसन्नाश्च जितक्रोधा जितेन्द्रियाः .
अकामा लोभडीनाश्च स्त्रीदोषैश्च विवर्जिताः .. ६७..
सा त्वन्तःपुरसंचारे योज्या पार्थिववेश्मनि .
कारुकाः कञ्चुकीयाश्च तथा वर्षवराः पुनः .. ६८..
औपस्थायिकनिर्मुण्डा स्त्रीणा प्रेषणकर्मणि .
रक्षणं च कुमारीणां बालिकानां प्रयोजयेत् .. ६९..
अन्तःपुराधिकारेषु राजचर्यानुवर्त्तिनाम् .
सर्ववृत्तान्तसंवाहाः पत्यागारे नियोजयेत् .. ७०..
विनीताः स्वल्पसत्त्वा ये क्लीबा वै स्त्रीस्वभाविकाः .
जात्या न दोषिणश्चैव ते वै वर्षवराः स्मृताः ७१..
ब्रह्माणाः कुशला वृद्धाः कामदोषविवर्जिताः .
प्रयोजनेषु देवीनां प्रयोक्तव्या नृपैः सदा .. ७२..
एतदष्टादशविधं प्रोक्तमन्तःपुरं मया .
अतः परं प्रवक्ष्यामि बाह्यं पुरुषसंभवम् .. ७३..
राजा सेनापतिश्चैव पुरोधा मन्त्रिणस्तथा .
सचिवाः प्राड्विवाकाश्च कुमाराधिकृतास्तथा .. ७४..
एके चान्ये च बहवो मान्या ज्ञेया नृपस्य तु .
वेशेषमेषां वक्ष्यामि लक्षणेन निबोधत .. ७५..
बलवान् बुद्धिसंपन्नः सत्यवादी जितेन्द्रियः .
दक्षः प्रगल्भो धृतिमान् विक्रान्तो मतिमाञ्छुचिः .. ७६..
दीर्घदर्शी महोत्साहः कृतज्ञः प्रियवाङ्मृदुः .
लोकपालव्रतधरः कर्ममार्गविशारदः .. ७७..
उत्थितश्चाप्रमत्तश्च वृद्धसेव्यर्थशास्त्रवित् .
परभावेङ्गिताभिज्ञः शूरो रक्षासमन्वितः .. ७८..
ऊहापोहविचारी च नानाशिल्पप्रयोजकः .
नीतिशास्त्रार्थकुशलस्तथा चैवानुरागवान् .. ७९..
धर्मज्ञोऽव्यसनी चैव गुणैरेतेर्भवेन्नृपः .
कुलीना बुद्धिसंपन्ना नानाशास्त्रविपश्चिताः .. ८०..
स्निग्धाअ परेरहार्यश्च न प्रमत्ताश्च देशजाः .
अलुब्धाश्च विनीताश्च शुचयो धार्मिकास्तथा .. ८१..
पुरोधो मन्त्रिणस्त्वेभिर्गुणैर्युक्ता भवन्ति हि .
बुद्धिमान्नीतिसंपन्नस्त्यक्तालस्यः प्रियंवदः .. ८२..
पररन्ध्रविधिज्ञश्च यात्राकालविशेषवित् .
अर्थशास्त्रार्थकुशलो ह्यनुरक्तः कुलोद्भवः .. ८३..
देशवित्कालविच्चैव कर्तव्यः क्षितिपैः सदा .
व्यवहारार्थतत्त्वज्ञा बुद्धिमन्तो बहुश्रुताः .. ८४..
मध्यस्था धार्मिका धीराः कार्याकार्यविवेकिनः .
क्षान्ता दान्ता जितक्रोधा सर्वत्र समदर्शिनः .. ८५..
ईदृशः प्राड्विवाकास्तु स्थाप्या धर्मासने द्विजाः .
उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या जितश्रमाः .. ८६..
स्निग्धा शान्ता विनीताश्च मध्यस्था निपुणास्तथा .
नयज्ञा विनयज्ञाश्च ऊहापोहविचक्षणाः .. ८७..
सर्वशात्रार्थसंपन्नाः कुमाराधिकृतास्तथा .
बृहस्पतिमतादेषां गुणांश्चाभिकांक्षयेत् .. ८८..
विज्ञेयं चोपहार्यं च सभ्यानां च विकल्पनम् .
इत्येष वो मया प्रोक्तः प्राड्विवाकनिर्णयः .. ८९..
अत ऊर्ध्वं प्रवक्ष्यामि चित्राभिनयनं पुनः ..
इति भारतीये नाट्यशास्रे पुंस्त्र्युपचारो
नामाध्यायश्चतुर्विंशः ..

Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com

नाट्यशास्त्रम् अध्याय २३

.. नाट्यशास्त्रम् अध्याय २३ ..
.. श्रीरस्तु ..
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ त्रयोविंशोऽध्यायः .
विशेषयेत्कलाः सर्वा यस्मात्तस्मात्तु वैशिकः .
वेशोपचारे साधुर्वा वैशिकः परिकीर्तितः .. १..
यो हि सर्वकलोपेतः सर्वशिल्पविचक्षणः .
स्त्रीचित्तग्रहणाभिज्ञो वैशिकः स भवेत्पुमान् .. २..
गुणस्तस्य तु विज्ञेयाः स्वशरीरसमुत्थिताः .
आहार्याः सहजाश्चैव त्रयस्त्रिंशत्समासतः .. ३..
शास्त्रविच्छिल्पसंपन्नो रूपवान् प्रियदर्शनः
विक्रान्तो धृतिमांश्चैव वयोवेषकुलान्वितः .. ४..
सुरभिर्मधुरस्त्यागि सहिष्णुरविकत्थनः
अशङ्कितः प्रियाभाषी चतुरः शुभदः शुचिः .. ५..
कामोपचारकुशलो दक्षिणो देशकालवित् .
अदीनवाक्यः स्मितवान् वाग्मी दक्षः प्रियंवदः .. ६..
स्त्रीलुब्धाः संविभागी च श्रद्धधानो दृढस्मृतिः .
गम्यासु चाप्यविस्रम्भी मानी चेति हि वैशिकः .. ७..
अनुयुक्तः शुचिर्दक्षो दक्षिणः प्रतिपत्तिमान् .
भवेच्चित्राभिधायी च वयस्यस्तस्य तद्गुणः .. ८..
विज्ञानगुणसंपना कथिनी लिङ्गिनी तथा .
प्रातिवेश्या सखी दासी कुमारी कारुशिल्पिनी .. ९..
धात्री पाषण्डिनी चैव तथा रङ्गोपजीविनी .
प्रोत्साहनेऽथकुशला मधुरकथा दक्षिणाथकालज्ञा .. १०..
लडहा संवृतमन्त्रा दूती त्वेभिर्गुणैः कार्या .
तयाप्युत्साहनं कार्यं नानादर्शितकारणम् .. ११..
यथोक्तकथनं चैव तथा भावप्रदर्शनम् .
न जडं रूपसम्पन्नं नार्थवन्तं न चातुरम् .. १२..
दूतं वाऽप्यथवा दूतीं बुधः कुर्यात्कदाचन .
कुलभोगधनाधिक्यैः कृत्वाधिकविकत्थनम् .. १३..
दूती निवेदयेत्काममर्थांश्चैवानुवर्णयेत् .
न चाकामप्रवृत्तायाः कृद्धाया वापि सङ्गमः .. १४..
नानुपायः प्रकर्तव्यो दूत्या हि पुरुषाश्रयः .
उत्सवे रत्रिसञ्चार उद्द्याने मित्रवेश्मनि .. १५..
धात्रिगृहेषु सख्या वा तथा चैव निमन्त्रणे .
व्याधितव्यपदेशेन शुन्यागारनिवेशने .. १६..
कार्यः समागमो नॄणां स्त्रीभिः प्रथमसङ्गमे .
एवं समागमं कृत्वा सोपायं विधिपूर्वकम् .. १७..
अनुरक्ता विरक्ता वा लिङ्गाकारैस्तु लक्षयेत् .
स्वभावभावातिशयैर्नारी या मदनाश्रया .. १८..
करोति निभृतां लीलां नित्यं सा मदनातुरा .
सखीमध्ये गुणान् ब्रूते स्वधनं च प्रयच्छति .. १९..
पूजयत्यस्य मित्राणि द्वेष्टि शत्रुजनं सदा .
गमागमे सखीनां या हृष्टा भवति चाधिकम् .. २०..
तुष्यत्यस्य कथाभिस्तु सस्नेहं च निरीक्षते .
सुप्ते तु पश्चात् स्वपिति चुम्बिता प्रतिचुम्बति .. २१..
उत्तिष्ठत्यपि पूर्वं च तथा क्लेशसहापि च .
उत्सवे मुदिता या च व्यसने या च दुःखिता .. २२..
एवंविधैर्गुणैर्युक्ता त्वनुरक्ता तु सा स्मृता .
विरक्तायास्तु चिन्हानि चुम्बिता नाभिचुम्बति .. २३..
इति भारतीये नाट्यशास्त्रे त्रयोविंशः ..

Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com